तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 390, कुल 940 में से
संदर्भ में पढ़ें४ प्रपाठके २ अनुवाकः । ३८५
नः^(५) । ^(६)देवी॒ द्यावा॑पृथि॒वी अनु॑ मे॒ऽमꣳ॑साथां^(६) ।
प्रथमपादे प्रैतुशब्दस्य तात्पर्य्यं दर्शयति । 'प्रैतु ब्रह्मणस्प-
तिरित्याह । प्रेत्यैव यज्ञस्य शिरोऽच्छैति' इति । (५ प्र० । २ अ० ।
७ म०) । 'प्रेत्यैव' प्रथमत एव गत्वैव ॥
द्वितीयपादे सूनृ॒ताशब्देन प्रियवाक्ययुक्तस्य यज्ञस्य विव-
क्षां दर्शयति । "प्र दे॒वेतु सूनृतेत्याह । यज्ञो वै सूनृता"
इति । (५ प्र० । २ अ० । ८ म०) ।
तृतीयपादे पङ्क्तिराधसशब्देन धानाकरम्भादिपञ्चहविर्यु-
क्तस्य यज्ञस्य विवक्षां दर्शयति । "अच्छा वीरं नर्यं पङ्क्तिराधम-
मित्याह ॥ ६ ॥ पाङ्क्तो हि यज्ञः" इति । (५ प्र० । २ अ० । ९ म०) ॥
चतुर्थपादे देवा यज्ञं नयन्त्वित्यस्य तात्पर्य्यं दर्शयति । "देवा
यज्ञं नयन्तु न इत्याह । देवानेव यज्ञनियः कुरुते" इति ।
(५ प्र० । २ अ० । १० म०) । 'यज्ञनियः' यज्ञस्य नेतॄन् प्रवर्त्तकान् ॥
कल्पः । उत्तरेण मृत्खननं कृष्णाजिनं प्राचीनग्रीवमुत्तर-
लोमास्तीर्य्य । ^(६)"देवी द्यावापृथिवी" इति मृत्खननमभिम-
न्त्रयत इति। अनु मेऽमꣳसाथां"^(६) इति मन्त्रशेषः । हे 'द्यावा-
पृथिव्यौ', 'मे' मदीयं, व्यापारं 'अन्वमꣳसाथां' युवयोरनु-
मतं कुरुतं ॥
मन्त्रस्य देवतयोरभ्यनुज्ञायां तात्पर्य्यं दर्शयति । "देवी
द्यावापृथिवी अनु मेऽमꣳसाथामित्याह । आभ्यामेवानुमतो
यज्ञस्य शिरः संभरति" इति । (५ प्र० । २ अ० । ११ म०) ॥
3 B 2