सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 344, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 344

३ प्रपाठके १२ अनुवाकः । ३३६

सन् ॥ ते ह॒ नाकं॑ महि॒मान॑: सचन्ते । यत्र॒ पूर्वे॑ सा॒ध्या:
सन्ति॑ दे॒वा:(१८) ॥ ७ ॥*

पू॒रुष॑:, पु॒रः, अग्र॑तः, अजायत, कु॒तः, अ॑कल्पयन्,
आ॑सन्, द्वे च॑ ॥ १२ ॥


दकोनुवाकभागार्थः† सङ्गृहीतः। अथोपासनतत्फलरूपोनु-
वाकभागार्थः सङ्गृह्यते, 'यत्र' यस्मिन् विराट्प्राप्तिरूपे, नाके,
'पूर्वे साध्याः' पुरातना विराडुपास्तिसाधकाः,‡ 'देवाः', 'सन्ति'
तिष्ठन्ति । तं 'नाकं' विराट्प्राप्तिरूपं स्वर्गं, 'ते महिमानः'
तदुपासका महात्मानः, 'सचन्ते' समवयन्ति प्राप्नुवन्ति ॥

इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा-
रण्यके तृतीयप्रपाठके द्वादशोऽनुवाकः ॥ १२ ॥


* एतत्पुरुषसूक्ते ऋग्वेदीयपुरुषसूक्तात् पाठभेदो दृश्यते । एत-
दीया सप्तमी ऋक् 'तथा लोकाँऽ अकल्पयन्' इत्यतः परं पठिता ।
तथा षोडशी सप्तदशी च द्वे ऋचे ऋग्वेदीयसूक्ते न दृश्येते ।
† सृष्टिप्रतिसृष्टिप्रतिपादक इति तै० पाठः ।
‡ विराड्रूपोपास्तिसाधका इति G चिह्नितपुस्तकपाठः ।