तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 326, कुल 940 में से
संदर्भ में पढ़ें३ प्रपाठके ११ अनुवाकः। ३२१
एकरू॑पाः । श॒तःस॒हस्रा॑णि प्रयु॒तानि॑ ना॒व्या॑नाम्⁽२४⁾ ।
⁽२५⁾अ॒यं यः श्वे॒तो र॒श्मिः । प॒रिसर्व॑मि॒दं जग॑त् । प्र॒जां
प॒शून् धना॑नि । अ॒स्माकं॑ ददातु⁽२५⁾ । ⁽२६⁾श्वे॒तो र॒श्मिः
परि॒ सर्वं॑ बभूव । सुवन् मह्यं॑ प॒शून् वि॒श्वरू॑पान्⁽२६⁾ ।
⁽२७⁾प॒त॒ङ्गम॒क्तमसु॑रस्य मा॒यया॑ ॥ १० ॥
भूमौ पतन्त्यः ताः पिङ्गलादिवर्णा आपः, 'एकरूपाः', भ-
वन्ति। वृष्टिबाहुल्येन भूमौ 'नाव्यानां' नावा तरणीयानां
अपां, 'शतं सहस्राणि' प्रयुतानि शतसङ्ख्याबहुविधसहस्रलक्ष-
सङ्ख्याकाश्च सम्पद्यते। वृष्टिकाले तत्र तत्रानेकप्रवाहा भवन्ति।
तदेतत् सर्वं सप्तहोत्रमाहात्म्यं ॥
अथ पञ्चदशीमाह । ⁽२५⁾“अयं यः ० अस्माकं ददातु”
⁽२५⁾ इति। 'यः' आदित्यः, श्वेतवर्णो रश्मियुक्तोऽस्ति सोऽयं
'सर्वमिदं' 'जगत्', परिव्याप्य वर्तमानः 'अस्माकं', प्रजादिकं
'ददातु' ॥
अथ षोडशीमाह । ⁽२६⁾“श्वेतो रश्मिः ० विश्वरूपान्”⁽२६⁾
इति। 'श्वेतरश्मिः' शुक्लवर्णरश्मियुक्तः आदित्यः 'सर्वं' जगत्,
'परिबभूव' परितो व्याप्तवान्, तादृश आदित्यः 'मह्यं' 'वि-
श्वरूपान्' गोमहिष्यादिरूपेण बहुविधान्, 'पशून्', 'सुवत्'
स्रौतु, प्रेरयत्वित्यर्थः ॥
अथ सप्तदशीमाह । ⁽२७⁾“पतङ्गमक्तं ० वेधसः”⁽२७⁾ इति ।
2 R 2