सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 316, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 316

३ प्रपाठके ११ अनुवाकः । ३११

भ॑र्त्तिं। अनि॑र्भिन्‍नः सन्‍नथो॑ लो॒कान् विच॑ष्टे। यस्या॑ण्ड-
को॒शꣳ शुष्म॑माहुः प्रा॒णमु॒ल्व॑म्। तेन॑ कॢ॒प्तोऽमृते॑ना॒हम॑-
स्मि^(७)। ^(८)सु॒वर्णं॒ कोश॒ꣳ रज॑सा परी॑वृतं। दे॒वानां॒ वसु॑-
धानीं॒ वि॒राज॑म् ॥ ४ ॥

अथ तृतीयामाह। ^(७)"य आण्डकोशे० अमृतेनाहमस्मि"^(७)
इति। 'यः' पञ्चहोतृदेवः, 'आण्डकोशे' ब्रह्माण्डमध्ये, 'अनि-
र्भिन्‍नः' अभेदेनावस्थितः सन्, 'भुवनं' कृत्स्नं भूतजातं, 'बिभर्त्ति'
धारयति। 'अथ' ब्रह्माण्डभेदानन्तरं, तदन्तःस्थितान् भूर्यादि-
'लोकान्', 'विचष्टे' विशेषेण प्रख्यापयति, 'यस्य' चतुर्होतृरूपस्य
परमात्मनः, 'शुष्ममाण्डकोशं' प्रवलं ब्रह्माण्डावकाशस्थं, 'प्राणं',
वायुविशेषं, 'उल्वमाहुः' गर्भवेष्टनस्थानीयमाहुः, यथा लोके
गर्भ उल्वेन वेष्ट्यते तथा सूक्ष्मशरीरेण प्राणवायुना ब्रह्माण्डं
वेष्टितं भवति । 'तेनामृतेन' पञ्चहोतृरूपेण परमात्मना,
'अहं', 'कॢप्तः' व्यवहारसमर्थत्वेनोत्पादितः, 'अस्मि'* ॥

अथ षड्ढोतृहृदयमन्त्राः। तत्र प्रथमामृचमाह । ^(८)"सुवर्णं
० विवि॑त्से"^(८) इति । वाग्घोतेति मन्त्रोऽत्र षड्ढोता, स च ब्र-
ह्माण्डकोशमध्ये चन्द्ररूपेणावस्थितः। चन्द्ररूपं षड्ढोतृदेवं वि-
राजं अभिज्ञाः †सुवर्णत्वादिगुणयुक्तमाचक्षते । 'सुवर्णं' शोभन-


* 'यस्य' पञ्चहोतृदेवस्य, 'आण्डकोशं' ब्रह्माण्डं, 'शुष्ममुल्वं' प्राण-
स्वरूपं 'आहुः', 'तेन' पञ्चहोतृरूपेण परमात्मना, 'अहं', 'कॢप्तः'
व्यवहारसमर्थत्वेन उत्पादितः, 'अस्मि' । इति तैत्तिरीयपुस्तकधृतपाठो
यस्य चतुर्होतृरूपस्येत्यारभ्य अस्मीत्यंशपर्यन्तस्य विनिमये बोद्ध्यः।
† देवरहस्याभिज्ञा इति तै० पाठः ।

2 Q