सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 313, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 313

३०८ तैत्तिरीये आरण्यके

तप॑साऽन्व॑विन्द॒त्⁽२⁾ । ⁽२⁾अ॒न्तः प्रवि॑ष्टं क॒र्त्तार॑मे॒तं । त्व-
ष्टारँ॑ रूपा॑णि विकु॒र्वन्तं॑ विप॒श्चिं ॥ २ ॥
अ॒मृत॑स्य प्रा॒णं य॒ज्ञमे॒तं । च॒तुर्हो॑तॄणामा॒त्मानं॑


गताः, 'चतुर्होतॄणां' चतुर्होतृशब्देनाभिधीयमानानां सर्वेषां
होतृमन्त्राणां, 'आत्मानं' स्वरूपभूतं परमेश्वरं, 'निचिक्युः' नि-
श्चितवन्तः । कीदृशमात्मानं, 'अन्तःप्रविष्टं' जीवरूपेण शरी-
रेषु प्रविश्यावस्थितं । अतएवाम्नायते । अनेन जीवतात्मनानु-
प्रविश्येति । 'कर्त्तारमेतं' अहमित्यनेन मानसप्रत्यक्षेण प्रतीय-
मानं लौकिकवैदिकसर्वक्रियानिष्पादकं । एतच्चान्यत्राम्नातं ।
एष हि द्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता
विज्ञानात्मा पुरुष इति । 'रूपाणि विकुर्वन्तं', विपश्चितं 'त्व-
ष्टारं' गर्भेषु देवतिर्यङ्मनुष्यादिरूपेण 'रूपाणि', विविधं नि-
ष्पादयन्तं त्वष्टृदेवस्वरूपं । एतदप्याम्नातं । यावच्छो वै रेतसः
सिक्तस्य त्वष्टा रूपाणि विकरोति तावच्छो वै तत् प्रजायत
इति । 'विपश्चिं' विपश्चितं, तत्तद्रूपनिर्माणप्रकाराभिज्ञं, 'अ-
मृतस्य प्राणं' मरणरहितस्य परमात्मनो व्यवहारहेतुभूतप्रा-
णोपाधिख्यरूपं* । एतदप्याथर्वणिका आमनन्ति । कस्मिन्व-
हमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन् वा प्रतिष्ठिते प्रतिष्ठा-
स्यामीति स प्राणमसृजतेति । यज्ञमेव सर्वैरनुष्ठीयमानत्वेन

* हेतुभूतप्राणापानस्वरूपमिति तै० पाठः