सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 278, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 278

२ प्रपाठके १६ अनुवाकः । २७३

चतु॒र्जालं॒ ब्रह्म॑कोशं॒ यं॒ मृत्युर्नाव॑पश्य॑ति॒ तं॒ प्रप॑द्ये दे॒वान्
प्रप॑द्ये दे॒वपुरं॑ प्रप॑द्ये॒ परी॑वृतो॒ वरी॑वृतो॒ ब्रह्म॑णा॒ वर्म॑-

'लोकानां त्रयाणां* तत् सर्वं 'प्रपद्ये' प्राप्नोमि, लोकानां† सङ्घः
तत् सर्वं 'प्रपद्ये' प्राप्नोमि, 'ब्रह्म प्रपद्ये ब्रह्मकोशं प्रपद्येऽमृतं प्र-
पद्येऽमृतकोशं प्रपद्ये' । ब्रह्मशब्देन चतुर्मुखस्य शरीरमुच्यते तस्य
कोशः स्थानं जनलोकः, अमृतशब्देन विराट्कारणभूतं सूत्रा-
त्मरूपमुच्यते, तस्य कोशः स्थानमव्यक्तं एतच्चतुर्विधं 'प्रपद्ये'
भजामीत्यर्थः । 'चतुर्जालं' चतुर्विधा अन्नमयप्राणमयमनो-
मयविज्ञानमयाः कोशाः जालवत् आवरका यस्य, पञ्चकोशं
'यं' आनन्दमयं, 'मृत्युर्नावपश्यति' नहि तस्य कारणरूपस्य
कार्यवद्विनाशोऽस्ति, तादृशं कोशमहं 'प्रपद्ये' । 'देवान्', इन्द्रा-
दीन्, तेषां पुरं 'देवपुरं', च 'प्रपद्ये', 'अहं', तेन 'ब्रह्म-
णा', 'वर्मणा' कवचरूपेण परमात्मना, 'परीवृतः' परितो
वेष्टितः, 'वरीवृतः' पुनः पुनर्वेष्टितः, तथा 'कश्यपस्य तेजसा'
कश्यपस्य प्रेरकस्य कश्यपः को भवतीति न्यायेन सर्वसाक्षिण
ईश्वरस्य तेजसा, 'परिवृतः', 'अहं', ईदृशो रक्षकार्थं ब्रह्मा
तदुपस्थानेन मृत्युन्तरामित्यर्थः‡ ॥


* F पुस्तके 'त्रयाणां' पदस्थाने सङ्घः इति पाठो वर्त्तते ।
† लोकानां त्रयाणामिति तै० पाठः ।
‡ मृत्युन्तरामीत्यभिप्रायः इति F पुस्तकपाठः ।

2 L