तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 273, कुल 940 में से
संदर्भ में पढ़ें२६८ तैत्तिरीये आरण्यके
स॒द् आस॑न॒ꣳ सुत्या॒ वाग्जु॒हूर्मन॑ उप॒भृद्धृति॑र्ध्रु॒वा प्रा॒-
णो ह॒विः सामा॑ध्व॒र्युः स वा ए॒ष य॒ज्ञः प्रा॒णद॑क्षिणोऽन॑-
न्तदक्षिणः॒ समृ॑द्धतरः^(१) ॥ १७ ॥
देशरूपं 'स्थानं', ता एव 'उपसदः', यत् तत्रोपवेशनं सैव
'सुत्या'. सोमाभिषवः, येयमस्य 'वाक्', सेयं 'जुहूः', यत्
'मनः', सैव 'उपभृत्', या 'धृतिः', अनुष्ठेयार्थावधारणा, सैव
'ध्रुवा', यः 'प्राणः' तदेव 'हविः', यत् 'साम' गायनं, स एव
'अध्वर्युः', सोऽयं भावनारूपः 'यज्ञः', प्राणदक्षिणः' देहान्ते
प्राणपरित्याग एव दक्षिणास्थानीयः, अतोऽनन्तदक्षिणत्वादयं
यज्ञोऽतिशयेन समृद्धः, * उक्तयज्ञसमाप्तौ प्रभूतमन्नं देयमिति
तात्पर्यार्थः ॥
इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरार-
ण्यके द्वितीयप्रपाठके सप्तदशोऽनुवाकः ॥ १७ ॥
* सेयं भावना याग एव दक्षिणास्थानीयः 'प्राणः', अतो अनन्त-
दक्षिणत्वादयं 'यज्ञः समृद्धतरः'। प्राणो ह्यनन्तः सर्वेभ्योऽपि वस्तुभ्यः
अतिशयेन प्रियत्वात् सेयं भावनारूपसम्पन्नस्य दक्षिणोक्ता। अथवा
प्रायश्चित्तार्थं पाठरूपत्वस्य 'स एष यज्ञः', 'प्राणदक्षिणः', प्राणस्थिति-
हेतुरन्नमेव तत्र दक्षिणा एतत् सर्वैरपेक्षितत्वादनन्तमित्युच्यते।
अनन्तदक्षिणत्वादेव अयमतिशयेन समृद्धः, उक्तयज्ञसमाप्तौ च प्रभूत-
मन्नं देयमिति तात्पर्यार्थः। इति तै० पाठः।