सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 262, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 262

२ प्रपाठके १५ अनुवाकः । २५७

लो॒कान् जय॑ति॒ सर्वाँन्‌ लो॒कान॑नृ॒णोऽनु॒सञ्च॑रति॒ तदे॒-
षाभ्यु॑क्ता^{(३)}। ^{(४)}अनृ॒णा अ॒स्मिन्न॑नृ॒णाः पर॑स्मिँ२ स्तृ॒-
तीये॑ लो॒के अनृ॒णा स्या॑म । ये दे॑व॒याना॑ उ॒त पि॑तृ॒या-

रेकेणानध्यायकारणं नास्ति, सामग्री च न प्रयाससम्पाद्या
विद्यते इति ‘एवं’, ‘विद्वान्’, पुमान् कालविषये आसना-
दिनियमविषये देशविषये च अङ्गाजाड्यं परित्यज्य ‘याव-
त्तरसं’ यावद्बलं यथाशक्ति, ‘स्वाध्यायं’, अधीयानः स्वापे-
क्षितान् ‘सर्वान् लोकान्’, प्राप्नोति, तत्र तत्र लोके पुरु-
षान्तरवदृणयुक्तो न भवति । किन्तु ‘अनृणः’, एव ‘अनु-
सञ्चरति’, ‘तत्’ तस्मिन्ननृणस्यानुसञ्चारे, काचिदृक् च ‘उक्ता’,
विद्यते ॥

तामेतामृचं दर्शयति । ^{(४)}“अनृणा • आचीयेमेति”^{(४)} इति।
‘अस्मिन्’ भूलोके, ‘परस्मिन्’ अन्तरिक्षे च, ‘तृतीये’ द्युलोके
च, ब्रह्मयज्ञबलात्* ‘अनृणा स्याम’ । ऋणेऽपाकृते सति ‘देव-
यानाः’ पन्थानः उत्तरमार्गविशेषाः, ‘पितृयाणाः’ पन्थानः
दक्षिणमार्गविशेषाः, ऋणाभावेन प्रतिबन्धाभावात् ‘सर्वान्’,
अपि मार्गान् सर्वतः प्राप्नुयाम । ऋषीणामृणं ब्रह्मयज्ञेनापो-
द्यत इति तावत् सर्वेषां सम्मतं । देवपितृकार्ययोरसमर्थस्य
तदुभयविषयमनृणमनेनैवापोद्यते । अत एव स्मर्यते । जप्येनैव
तु संसिद्धेद्ब्राह्मणो नात्र संशयः । कुर्यादन्यन्न वा कुर्यान्


* फलात् इति तै० पाठः ।

2 1