तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 242, कुल 940 में से
संदर्भ में पढ़ें२ प्रपाठके ९ अनुवाकः । २३७
शꣳसो॒ मैदाहुतयो॑ दे॒वाना॑मभव॒न्ताभिः॒ क्षुधं॑ पा॒प्मान॒-
मपा॑घ्नन्नप॑हतपाप्मानो दे॒वाः स्व॒र्गं लो॒कमा॑यन्॒ ब्रह्म॑-
णः सायु॑ज्यमृषयोऽगच्छन्^(१) ॥ ९ ॥
इत्यादीनि सृष्ट्यादिप्रतिपादकानि* ‘पुराणानि’ । ‘कल्पाः’
कल्पसूत्राणि प्रयोगप्रतिपादकानि । ‘गाथाः’ गायति† चोदिता
मन्त्रविशेषाः, योस्य कौष्ठ्येत्यादयः । यमगाथाभिः परिगाय-
तीति विधानात् । ‘नाराशंसीः’ नाराशंस्यः, होता यद्यन्व-
राशंसीमित्याद्याः । ब्राह्मणान्तपठितानामपि पुनरुक्तिः फला-
तिशयद्योतनार्थं । ‘मेदाहुतयः’ मांसाहुतयः, ‘ताभिः’ आहु-
तिभिः, देवाः क्षुद्रूपं ‘पाप्मानं’, विनाशितवन्तः । स्वाध्याय-
जन्यतृप्त्या‡ क्षुधं विस्मृतवन्तः ततः क्षुद्रूपपापरहिताः ‘देवाः’,
सुखमनुभवितुं ‘स्वर्गं’, गताः । ‘ऋषयः’ च पूर्वोक्ता, अध्यय-
नेन ब्रह्मयज्ञेन जगत्कारणस्य ‘ब्रह्मणः’,§ ‘सायुज्यं’, प्राप्ताः ।
ब्रह्मज्ञानोत्पादनद्वारा मुक्तिहेतुत्वं ब्रह्मयज्ञस्य युक्तं । अतएव
ज्ञानसाधनेषु प्राथम्येन वेदानुवचने वाजसनेयिनः समामन-
न्ति, तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दा-
नेन न तपसा नाशकेनेति ॥
इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरार-
ण्यके द्वितीयप्रपाठके नवमोऽनुवाकः ॥ ९ ॥
* इदं वा अग्रे नैव किञ्चनासीदित्यादिसृष्टिप्रतिपादकानि इति [तै० पाठः ।
† गायन्ति इति तै० पाठः ।
‡ स्वाध्यायस्वस्तिजन्यतृप्त्या इति तै० पाठः ।
§ परब्रह्मण इति तै० पाठः ।