तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 211, कुल 940 में से
संदर्भ में पढ़ें२०६ तैत्तिरीये आरण्यके
मृणानि॑⁽२⁾ । ⁽३⁾उग्र॑म्पश्ये॒ राष्ट्र॑भृत् किल्बि॒षाणि॒ यद्-
क्ष॒वृत्त॒मनु॑दत्त॒मेतत् । नेन्न॑ ऋ॒णानृ॑ण॒व इत्स॑मानो॒
यमस्य॑ लो॒के अधि॑रज्जु॒राय॑⁽३⁾ । ⁽४⁾अव॑ते॒ हेड॒ उदु॑त्त-
'यत्' पापं, कृतवानस्मि, तानि पापात्मकानि* 'ऋणानि',
'उग्रम्पश्या च', 'राष्ट्रभृच्च', इत्येतन्नामधारिण्यौ 'अप्सरसौ',
'अनुदत्तां' आनुकूल्येन प्रत्यर्पयतां। पापरूपमृणं यथास्माकं
न भवति तथा कुरुतामित्यर्थः ॥
अथ तृतीयामाह। ⁽३⁾“उग्रम्पश्ये ० लोके अधिरज्जु-
राय”⁽३⁾ इति। हे 'उग्रम्पश्ये', हे 'राष्ट्रभृत्', 'किल्बिषाणि'†
ऋणरूपाणि यानि कृतानि, 'यत् अक्षवृत्तं' यत् द्यूते पणादि-
रूपं प्रतिश्रुतं‡ अप्रणीतं, 'एतत्' सर्वं, 'अनुदत्तं' अनुकूले युवा-
मेव दत्तवत्यौ, 'ऋणान्' ऋणयुक्तान्, 'नः' अस्मान्, 'समानः'
सदृशः उत्तमर्णः, 'अधिरज्जुः' बन्धनार्थं अधिकरज्जुयुक्तः
सन्, 'आय' अस्मानादाय, बध्ध्वा 'नेदृणवः' नैव ऋणयुक्तः,
ऋणप्रयुक्तं बन्धनं कुर्यादित्यर्थः । कुत्रेति तदुच्यते, 'यमस्य
लोके' मरणादूर्ध्वभाविनि गन्तव्ये लोके। द्वितीयः 'इत्'-
शब्द एवकारार्थः सन्, 'आय' इत्यनेन सम्बध्यते, आदायैव
रज्जुभिर्बध्येत्यर्थः ॥
* पातकानीति तै० पाठः ।
† किल्बिषाणि चेति तै० पाठः ।
‡ यच्चाक्षवृत्तं यच्चाद्यूतपणादिरूपमप्रतिश्रुतमिति तै० पाठः ।