तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 179, कुल 940 में से
संदर्भ में पढ़ें१७४ तैत्तिरीये आरण्यके
दो॒ यद्ब्रह्म॑ विल्वं॑ । पि॒तृणाञ्च॑ य॒मस्य॑ च । वरु॑णस्या-
श्विनोरग्नेः । म॒रुतां॑श्च विहा॒यसां॑^(१९) । ^(२०)कामप्रय-
इत्यनुवाके समाम्नाता । तत्पाठस्तु । शतमिन्नु शरदो अन्ति
देवा यत्रा नश्चक्रा जरसन्तनूनां । पुत्रासो यत्र पितरो भवन्ति
मा नो मध्या रीरिषतायुर्गन्तोरिति । हे ‘देवाः’, ‘शतमिन्नु’
शतमपि, ‘शरदः’ संवत्सराः, ‘अन्ति’ अस्माकमन्तिकस्या
एवावस्थ्या एव, शतायुः पुरुष इति श्रुत्या शतं, शरद आधि-
क्येन तत्र तत्र प्रशस्यन्ते । अस्माकं तु न पर्याप्ता तत्र हेतुरु-
च्यते, ‘यत्र’ एषु शतसंवत्सरेषु, ‘नः’ अस्मदीयानां, ‘तनूनां’,
‘जरसं’ शरीराणं वयोहानिलक्षणं शैथिल्यं, ‘चक्रे’ हे देवा यूयं
कृतवन्तः । किञ्च ‘यत्र’ यस्यां जरायां, ‘पुत्रासः’ पुत्राः स्वकी-
योदरजाताः स्वेन रचिता एव, ‘पितरो भवन्ति’ प्रत्युत
पालका भवन्ति । तादृशमायुः कथं पर्याप्तं भवेत्, आस्तां
तावदायुषः पर्याप्तिः । हे देवाः यूयं ‘आयुर्गन्तोः’ तादृशम-
प्यायुः सर्वं प्राप्तुमिच्छा विद्यते यस्य तस्मात्, ‘मध्या’ तस्यायुषो
मध्ये, ‘नः’ अस्मान्, ‘मारीरिष’ तद्धिंसितान् मा कुरुत, इति
शाखान्तरीयमन्त्रस्यार्थः ॥
अथ षोडशीमाह । ^(१९)“अदो यत्० विहायसां”^(१९) इति ।
‘यत् ब्रह्म’, पूर्वोक्तजगत्कारणमस्ति ‘अदः’ ब्रह्म, पित्रादीनां
सर्वेषां ‘विल्बं’ विशेषेणालम्बनं । ‘विहायसाः’ इत्यनेनाकाशव-
र्त्तिनो यक्षगन्धर्त्वादय उच्यन्ते ॥