सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 172, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 172

१ प्रपाठके २७ अनुवाकः । १६७

मास्र॑वस्व । आ॒ण्डीभ॑व॒ ज्ञ मा मु॑हुः । सुखादौ दुः॑ख-
निधनां । प्रति॑मुञ्चस्व॒ स्वां पुरं॑⁽४⁾ ॥ १ ॥
⁽५⁾मरी॑चयः स्वायम्भु॒वाः । ये शरी॑राण्यक॑ल्पयन् ।
ते ते॑ दे॒हं क॑ल्पयन्तु । मा च॑ ते॒ ख्यास्म॑तीरिषत्⁽५⁾ ।
⁽६⁾उत्ति॑ष्ठत मा स्व॑प्त । अ॒ग्निमि॑च्छध्वं भार॑ताः । रा॒ज्ञः


यजमान उच्यते । आस्रवं नाम गमनं जन्म, स्रवनं प्रापणं, यज-
मानं जन्मोपेतमाङः । 'आस्रवस्व' पुनः पुनर्जन्मलक्षणमागमनं,
मा कुरु, मुहुः 'मास्रवस्व' पुनः पुनर्मरणलक्षणं स्रवनं मा कुरु ।
'मा 'मुहुराण्डीभव' आण्डः ब्रह्माण्डमध्य इत्यर्थः आण्डी-
त्यभूततद्भाव उच्यते । पूर्वमनाण्डा इदानीमाण्डीभव तस्य
निषेधो माशब्देनोच्यते, पुनः पुनर्ब्रह्माण्डवर्त्तित्वं तव माभू-
दित्यर्थः । खशब्देनावश्यकत्वं द्योतयति । संसारोत्तरणविषया
तवाख्यातिः सर्वथा विनश्यत्वित्यर्थः ॥

अथ द्वितीयामाह । ⁽५⁾"मरीचयः स्वायम्भुवाः • मा च
ते ख्यास्मतीरिषत्"⁽५⁾ इति ॥

अथ तृतीयामाह । ⁽६⁾"उत्तिष्ठत मा स्वप्त • सूर्येण सयु-
जोषसः"⁽६⁾ इति । हे ऋत्विजो यूयं 'उत्तिष्ठत', उत्थिता
भवत, उत्साहं कुरुतेत्यर्थः । 'मा स्वप्त' स्वप्नं मा कुरुत, अल-
सा मा भूतेत्यर्थः । 'भारताः' हविरादिभरणशीलाः सन्तः,