तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 153, कुल 940 में से
संदर्भ में पढ़ें१४८ तैत्तिरीये आरण्यके
वा इ॒दꣳ सम॑भूत् । तस्मा॑दि॒दꣳ सर्वं॒ ब्रह्म॑ स्वय॒म्भ्वि-
ति॑^(१०) । ^(११)तस्मा॑दि॒दꣳ सर्व॒ꣳ॒ शिथि॑लमिवा॒ध्रुव॑मिवा-
भवत्^(११) । ^(१२)प्र॒जाप॑तिर्वाव तत् । आ॒त्मना॒त्मानं॑ वि-
णोक्तोऽर्थो युक्त एव । यस्मात् कारणात् कूर्मरूपं ब्रह्मैव सर्वं
सृष्टवान् 'तस्मात्' कारणात्, 'इदं सर्वं' जगत्, 'स्वयम्भू'
स्वतःसिद्धं, 'ब्रह्म', एव 'इति' अनेन मन्त्रेण, एकादिष्टकामुपद-
ध्यात् । तथाच बौधायन आह । आपो ह यदित्यौघवती-
मिति ॥
कार्यत्वं जगतो युक्त्योपपादयति । ^(११)“तस्मादिदꣳ • मि-
वाभवत्”^(११) इति । यस्माच्छिथिलाभ्योऽद्भ्यो जातं, आपो हि
शिथिलाः न तु पाषाणवद्दृढाः, 'तस्मात्' कारणात्, 'इदं
सर्वं' जगत्, 'शिथिलमिव', दृश्यते । तस्यैव व्याख्यानम् 'अध्रु-
वमिव', इति । अनित्यत्वम् अध्रुवत्वं ॥
अथास्य जगतो दार्ढ्योपायं दर्शयति । ^(१२)“प्रजापतिर्वाव
• तदेवानुप्राविशत्”^(१२) इति । केवलकार्यत्वं समुत्पन्नं शिथिलं
भवत् न तु तदस्ति । किन्तु 'तत्' जगत्, 'प्रजापतिः', एव ।
यथा घटे मृदंशः पृथुबुध्नोदराकारांशश्चेत्यंशद्वयं, एवं जग-
त्यपि सच्चिदानन्दरूपप्रजापत्यांशोनामरूपांशश्चेत्यंशद्वयं, तत्र
नामरूपयोर्कार्यत्वेन शैथिल्येऽपि सच्चिदानन्दप्रजापत्यंशस्य
दार्ढ्यमस्ति । स हि प्रजापतिः, 'आत्मना' साधनान्तरनिरपेक्षेण