तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 150, कुल 940 में से
संदर्भ में पढ़ें१ प्रपाठके २३ अनुवाकः । १३५
अ॒ञ्जलि॑ना पुर॒स्तादुपा॑दधात् । ए॒वाह्येवेति॑ । ततो॑
आ॒दि॒त्य उद॑तिष्ठत् । सा प्राची॒ दिक्^{(६)} । ^{(७)}अथा॑रु॒णः
के॒तुर्द॑क्षिण॒त उपा॑दधात् । ए॒वा ह्य॒ग्न इति॑ । ततो॒ वा
मेवाहर्मास्मंस्थाने स्थितोऽस्मि इत्येतत् कूर्मस्य वचनं । यस्मात् पूर्व-
मासमित्युवाच तस्मात् ‘पुरुषः’, इति परमात्मनो नाम सम्पन्नम् ।
एवमुक्त्वा ‘सः’ कूर्मशरीरवर्त्ती परमात्मा, स्वसामर्थ्यप्रकट-
नाय विराड्रूपं कृत्वा सहस्रसङ्ख्यकैः शिरोभिरक्षभिः पादैश्च
युक्तो ‘भूत्वा’, प्रादुरभूत् । तदानीं प्रजापतिः ‘तं’ विराड्रूपं,
दृष्ट्वा तत्रत्यं परमात्मानमेवम् ‘अब्रवीत्’, भोः परमात्मन्
मच्छरीरात् ‘पूर्वं’, ‘त्वं’, एव सर्वदा विद्यमानः अतोमत्तः
पूर्वभावी सन् ‘त्वं’, एव ‘इदं’ सर्वं जगत्, ‘कुरुष्व’ ॥
इति तेन प्रजापतिनैवमुक्तस्य परमेश्वरस्य सृष्टिप्रकारं
दर्शयति । ^{(६)}“स इत ० प्राची दिक्”^{(६)} इति । ‘सः’ पर-
मेश्वरः, स्वयमारुणकेतुरूपः सन् ‘इतः’ सृष्टेरपि पूर्वसि-
द्धात् सलिलमेवासीदित्युक्तात् महाजलात्, कियतोः ‘अपः’,
स्वकीयेन ‘अञ्जलिना’, ‘समादाय’, पूर्वस्यां दिशि तामब्बोष्टका-
मुपधत्तवान् । केन मन्त्रेण ‘एवाह्येवेति’, अनेन मन्त्रेण । तस्य
मन्त्रस्यादित्यपरत्वं पूर्वमेव दर्शितं । ‘ततः’ समन्त्रकोपधानात्,
‘आदित्यः’, उत्पन्नः । स यस्यां दिश्युत्पन्नः ‘सा प्राची दिक्’,
अभूत् ॥
अनेन प्रकारेण क्रमात् सर्वदिगुत्पत्तिं दर्शयति । ^{(७)}“अ-