तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 140, कुल 940 में से
संदर्भ में पढ़ें१ प्रपाठके २२ अनुवाकः। १५५
(११)इ॒मे वै लो॒का अ॒पाꣳ रस॑:। ते॑ऽमु॒ष्मिन्ना॑दि॒त्ये समा॑-
भृताः(११)। (१२)जा॒नु॒द॒घ्नीमु॑त्तरवे॒दीं खा॒त्वा आप॑ पू॒र-
यि॒त्वा गु॑ल्फद॒घ्नं ॥ ८ ॥
पुष्करपर्णैः पुष्करदण्डैः पुष्करैश्च सꣳस्तीर्य॑। तस्मि॑न्
तथाच बौधायन आह। अपाꣳरसमित्येकेतिमन्त्रस्य ता-
त्पर्यं दर्शयति। “(११)इमे वै लोकाः ० समाभृताः”(११) इति। य
एते पृथिव्यादयः 'लोकाः', ते सर्वेऽपि 'अपां', मध्ये सारभूताः
सर्व्वलोकगर्भिताः। ब्रह्माण्डगोलकरूपा पृथिवी क्षीरमध्ये म-
ण्डमिव जलमध्ये घनीभूता। तथाच वाजसनेयिन आमनन्ति।
यदपां शर आसीत्तत्समहन्यत सा पृथिव्यभवदिति। 'ते' च
उदकसारभूता लोकाः 'अमुष्मिन्' दृश्यमान आदित्यमण्डले
'समाभृताः' सम्यगाश्रिताः। आदित्यस्य वृष्टिद्वारेण सर्व्वलोक-
स्थितिहेतुत्वात्। तदेवं योऽपां पुष्पमित्यारभ्यामुष्मिन्नादित्ये
समाभृता इत्यन्तेन ग्रन्थेनेष्टकोपधानार्थमपां बहुधा प्रशंसा
कृता॥
अथ प्रयोगं विधत्ते। “(१२)जानुदघ्नीमुत्तरवेदीं ० समा-
धाय”(१२) इति। तत्र सावित्रचयनवद्रथचक्रं परिलिख्य
तत्र जानुप्रमाणाम् 'उत्तरवेदीं खात्वा', तां खातामुत्तरवेदीं
'गुल्फदघ्नं', यथा भवति तथा जलैः पूरयित्वा तज्जलमादौ