तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 135, कुल 940 में से
संदर्भ में पढ़ें१३० तैत्तिरीये आरण्यके
-षुमान् भ॑वति । य ए॒वं वेद॑(१) । (२)यो॑ऽपामा॒यत॑नं॒ वेद॑ ।
आय॑तनवान् भ॑वति । अ॒ग्निर्वा अ॒पामा॒यत॑नं । आय॑-
तनवान् भ॑वति । यो॒ऽग्नेरा॒यत॑नं॒ वेद॑ ॥ १ ॥
आय॑तनवान् भ॑वति । आपो॒ वा अ॒ग्नेरा॒यत॑नं । आ-
यत॑नवान् भ॑वति । य ए॒वं वेद॑(२) । (३)यो॑ऽपामा॒यत॑नं॒ वेद॑ ।
वेद''(१) इति । अमृतमयं हि चन्द्रमण्डलं । अतो जलका-
र्यत्वादपां पुष्पस्थानीयं । एतस्य वेदिता स्वयं भोगार्थचम्पक-
बकुलादिपुष्पैः पुत्रादिप्रजया गवादिपशुभिश्च समृद्धो
भवति । वेदने प्ररोचनार्थमादौ फलकथनं, उपसंहा-
रार्थं पुनःकथनं ॥
अथ द्वितीयां प्रशंसामाह । (२)''योपामायतनं ० य एवं
वेद''(२) इति । सृष्टिश्रुतावग्नेराप इति अग्नेर्जलकारणत्वा-
भिधानादग्निरपामाश्रयः । अत्रापि प्ररोचनार्थमादौ फलक-
थनं । उपसंहारार्थं पुनरप्यायतनवानित्यभिधानं । तत्र य
एवं वेदेत्यध्याहरणीयं । महासृष्टावपामग्निकार्यत्वेपि ब्रह्मा-
ण्डाद्यवान्तरसृष्टौ आपो वा इदमासन् सलिलमासीदित्यादि-
वाक्येनापां सर्वकारणत्वाभिधानाद्ब्रह्माण्डान्तःपातिनोऽस्मद्दृश्य-
स्याग्नेर्जलकार्यत्वादपामग्न्याधारत्वं । अत्रापि प्ररोचनार्थमप-