तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 13, कुल 940 में से
संदर्भ में पढ़ें८ तैत्तिरीये आरण्यके
वन्तु॑ । दि॒व्या आप॒ ओष॑धयः॑ । $^{(८)}$ । $^{(९)}$सुमृ॒डी॒का सर॑स्व-
ति । मा ते॒ व्योम॑ स॒न्दृशि॑$^{(९)}$ ॥ ३ ॥
अ॒मृत॑: सु॒तौष॑धयो॒ दे च॑ ॥ अनु० १ ॥
कल्पः । 'शिवा नः शन्तमेति सौषध्योऽपोऽध्वर्यवे ददाति ।
स ताः प्रतिगृह्य शिवा न इत्युपदधाति' इति । पाठस्तु ।
"$^{(८)}$[शिवा नः शन्तमाः ० आप ओषधयः$^{(८)}$]" इति । दिवि-
भवा याः 'आपः', याश्च 'ओषधयः', विद्यन्ते ताः सर्वाः 'नः'
अस्माकं, 'शिवाः' सुखहेतवः, 'शन्तमाः' अतिशयेन दुःखशा-
न्तिहेतवश्च 'भवन्तु' ॥
कल्पः । 'सुमृडीकेति भूमिवतीमुपदध्यादेताः पुरस्तात्'
इति । पाठस्तु । "$^{(९)}$[सुमृडीका ० व्योम सन्दृशि$^{(९)}$]" इति ।
हे 'सरस्वति', सरोयुक्तभूमिरूपे इष्टके, त्वं 'सुमृडीका' सुष्ठु
सुखहेतुर्भव । 'ते' तव सम्बन्धि, 'व्योम' छिद्रं, ओषधिभिराच्छ-
न्नत्वात् 'मादृशि' दृष्टं माभूत् ॥
इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजु-
रारण्यके प्रथमप्रपाठके प्रथमोऽनुवाकः ॥ * ॥