सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 12, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 12

१ प्रपाठके १ अनुवाकः । ७

पा॒पामप॑ चाव॑र्त्तिम्। अप॑ दे॒वीरितो॑ हि॒त^(६)। ^(७)वज्रं॑ दे॒वी-
रजी॑ताꣳश्च । भुव॑नं दे॒वसूव॑रीः। आ॒दि॒त्यानदि॑तिं
दे॒वीम्। योनि॑नो॒र्ध्वमुदी॑षत^(७)। ^(८)शि॒वा नः॒ शन्त॑मा भ-


वियोजयतेत्यर्थः । तथा ‘रक्षः’ बाधकं राक्षसम्, ‘अपहित’ ।
तथा ‘अश्युषिणं’ भोक्तृणां शरीरदाहकं ज्वरादिरूपमग्निम्,
‘अपहित’ । ज्वरदाहकृतं शरीरशोषणं तद्धेतुभूतं पापञ्च ‘अप-
हित’ । ‘अक्षां’ प्राणादिज्ञानशक्त्यभावम् ‘अपहित’ । ‘अवत्तिं’
वृत्तिर्जीवनं तद्विरोधि दारिद्र्यम् ‘अपहित’ । ‘देवीः’ स्वच्छ-
त्वेन द्योतमानाः, हे आपः अन्यदपि प्रतिकूलं सर्वम् ‘इतः’
अस्मत्समीपात्, ‘अपहित’ ॥

अथ पञ्चमीमाह । “^(७)वज्रं देवीरजीताꣳश्च ॰ योनिनो-
र्ध्वमुदीषत^(७)” इति । हे आपो यूयं ‘देवीः’ द्योतनात्मिकाः
सत्यः, ‘वज्रम्’ इन्द्रायुधम्, ‘ऊर्द्धं’ उपरिदेशे द्युलोके, ‘उदी-
षत’ अस्मद्रक्षार्थमुन्नयत, उपरि हि वज्रे दृश्यमाने शत्रूणां
भीतत्वादस्माकं रक्षा भवतीत्यर्थः । ‘अजीतान्’ शत्रुभिरजि-
तान्, अस्मानपि, उपरिदेशे रक्षार्थं ‘वज्रम्’, उन्नयत । ‘भुवनं’
भूतजातं, गवादिकं च, ‘उदीषत’, ‘देवसूवरीः’ देवाना मपि
सवित्र्यः प्रेरयित्र्यः, यूयम् ‘आदित्यान्’ अदितेः पुत्रान्,
सर्वान् देवान्, ‘अदितिं’, ‘देवीं’, च ‘योनिना’ कारणत्वेन,
‘उदीषत’ । सर्वेऽपि देवा अस्मद्रक्षायाः कारणा भवन्त्वित्यर्थः ॥