तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 120, कुल 940 में से
संदर्भ में पढ़ें१ प्रपाठके १४ अनुवाकः । ११५
मा प॒शूनां॑। मा मम॑ प्रा॒णैरप॑ प्रसृ॒प मोत्सृ॑प^(१०) ॥ ^(११)ॐ
भूर्भुवः॒ स्वः॑^(११) । ^(१२)एतद्वो॑ मिथु॑नं मा नो॑मिथु॒नꣳ-
री॑ढ्वं^(१२) ॥ ४ ॥
प्रा॒णैरा॒पूर्य॑ति, उत्सृ॒पत, उत्सर्प॑ति च, उत्सृ॑प दे च ४ ॥
उदे॒त्यस्त॑मेत्या॒पूर्य॑त्यपक्षीय॑त्य॒मूनिनक्ष॑त्राणी॒मेमा॑
सा इ॒म ऋ॒तवो॒यꣳ सं॑वत्स॒र इ॒दमह॑र॒ियꣳ रा॒त्रिर्द॑शे ॥
अनु० ॥ १४ ॥
अथ नवमदशमौ मन्त्रावाह । ^(९)“इदमहः ॰ प्रसृप मो-
त्सृप” ^(९) ^(१०)“इयं रात्रिः ॰ रप प्रसृप मोत्सृप”^(१०) इति ।
एतद्वाक्यद्वयं संवत्सरवाक्यवद्व्याख्येयं ॥
अथैकादशं मन्त्रमाह । ^(११)“ॐ भूर्भुवः स्वः”^(११) इति ।
योऽयं प्रणवप्रतिपाद्यः परमात्मा स एव लोकत्रयरूप इत्यर्थः ॥
अथ द्वादशमाह । ^(१२)“एतद्वोमिथुनं ॰ मिथुनं रीढ्वं”
^(१२) इति । नक्षत्रमासार्द्धमासर्तुसंवत्सराहोरात्ररूपा ये सप्त
पुरुषाः प्रणवप्रतिपाद्यपरमात्मरूपेणादित्येन सहावस्थानं यद-
स्ति तद् ‘वः’ युष्माकं, ‘मिथुनं’ सम्बन्धः, उपकार्योपकारक-
लक्षणः, एतस्य ध्यानेनास्माकमपि ‘मिथुनं’ स्त्रीपुंसलक्षणं,
‘मारीढ्वं’ हिंसितं मा कुरुत ॥
इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजु-
रारण्यके प्रथमप्रपाठके चतुर्दशोऽनुवाकः ॥ १४ ॥
० २