सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 113, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 113

१०८ तैत्तिरीये आरण्यके

अदि॑तिर्माता स पि॒ता स पु॒त्रः। विश्‍वे॑ दे॒वा अदि॑तिः प-
ञ्चजनाः॑। अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम्^{(६)}। ^{(७)}अ॒ष्टौ पु-
त्रासो॑ अदि॑तेः। ये जा॒तास्त॒न्व॑: परि॑। दे॒वां३ उपप्रै॑त्
स॒प्तभि॑: ॥ २ ॥


मन्त्रः। महीमूषु मातरमित्यपरो मन्त्रः। एतौ चोभौ वैश्वा-
नरो न ऊत्येत्यनुवाके व्याख्यातौ ॥

अथ षष्ठोमाह। ^{(६)}“अदितिर्द्यौः ० मदितिर्जनित्वं”^{(६)}इति।
अदितिशब्दवाच्यदेवता सर्वात्मकत्वेन स्तूयते। ‘माता’ पृथि-
वी, अतो लोकत्रयात्मिकांशः देवताविशेषोदित्याख्यः, सर्वस्य
जगतः ‘पिता’, ‘सः’, एव ‘पुत्रः’, च। ये ‘विश्वे देवाः’ सर्वेऽपि
देवाः, ये च ‘पञ्चजनाः’ निषादपञ्चमा ब्राह्मणक्षत्रियवैश्य-
शूद्राः ते सर्वेऽपि, ‘अदितिः’, एव ‘जातं’ यत् पूर्वमुत्पन्नं जगत्,
‘जनित्वं’ जननरूपो व्यापारः तत् सर्वमपि ‘अदितिः’, एव ॥

अथ सप्तमीमाह। ^{(७)}“अष्टौ पुत्रा ० मार्ताण्डमास्यत्”^{(७)}
इति। ‘अदितेः’ देवतायाः, ‘अष्टौ पुत्रासः’ अष्टसङ्ख्याकाः पुत्रा
विद्यन्ते, ‘ये’ पुत्राः, ‘तन्वःपरि’ शरीरस्योपरि जाताः, औ-
रसा इत्यर्थः। तेषां मध्ये ‘सप्तभिः’, पुत्रैः सह ‘देवान्’,
‘उपप्रैत्’ समीपे प्राप्तवती, ‘मार्ताण्डं’, अष्टमं पुत्रं ‘परास्यत्’
पराकृतवती। तमेकं परित्यज्यान्यैरेव सप्तभिः सह देवलोकं
गता ॥