स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
DevanagariSanskritpublished204 पृष्ठ
पृष्ठ 108, कुल 204 में से
संदर्भ में पढ़ेंपृष्ठ 108
॥ श्रीः ॥
श्रीगणेशाय नमः ।
महाकविश्रीभासप्रणीतं
स्वप्नवासवदत्तम् ।
(नान्द्यन्ते ततः प्रविशति सूत्रधारः)
सूत्रधारः —
*उदयनवेन्दुसवर्णोवासवदत्ताबलो बलस्य त्वाम् ।
पद्मावतीर्णपूर्णौ वसन्तकम्रौ भुजौ पाताम् ॥ १ ॥
एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञा-
पनव्यग्रे शब्द इव श्रूयते । अङ्ग ! पश्यामि ।
(नेपथ्ये)
(क) उस्सरह उस्सरह अय्या ! उस्सरह ।
सूत्रधारः — भवतु, विज्ञातम् ।
(क) उत्सरतोत्सरतार्याः ! उत्सरत ।
- उदयनवेन्दुसवर्णौ उदयकालनूतनचन्द्रतुल्यवर्णौ दत्तमासवं मद्यं यस्यै सा आसव-
दत्ता । दत्तशब्दपरनिपात आहिताग्न्यादि(२. २. ३७)त्वात्, तथाभूताबला याभ्यां तौ आस-
वदत्ताबलो पद्मावतीर्णपूर्णौ लक्ष्म्याविर्भावसमृद्धौ वसन्ते कम्रौ मनोज्ञौ तत्कालोचितशृङ्गारवेष-
परिग्रहात्, वसन्ताख्यतालविशेषमनोज्ञौ वा बलस्य बलभद्रस्य भुजौ त्वां पातां रक्षताम् । अत्र
मुद्रालङ्कारविधया प्रधानपात्राणाम् उदयन-वासवदत्ता-पद्मावती-वसन्तकानां निर्देशः कृतः ।