स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 104, कुल 204 में से
संदर्भ में पढ़ेंनिवेदना ।
—
अत्रास्य स्वप्नवासवदत्तम् इति संज्ञा राजशेखरसुभाषितानुसाराद्
व्यवहृता । स्वप्नवासवदत्तेति स्वप्ननाटकमिति च कामं व्यवहर्तुं शक्यम् ।
तत्र मणालिक्करमठीया स्वप्नवासवदत्तमातृका क. चिह्निता । पण्डितानन्ताचा-
र्यप्रहिता ख. चिह्निता । कृष्णतन्त्रस्वामिका ग. संज्ञा । आद्ययोः पाठभेदाः
प्रतिपृष्ठमधस्तान्निवेशिताः । तृतीयस्यास्तु ते पुस्तकान्ते पृथङ् निवेशिताः । मातृका-
यामदृष्टानाम्पेक्षिततया प्रतिभातानामक्षराणां चापरेखान्तर्निवेशनम्, असमञ्जसा-
नामक्षराणां पार्श्वतः प्रश्नचिह्नदानपूर्वं समञ्जसाभिमतान्यक्षराणि निवेश्य तेषामुभ-
येषां चापरेखान्तर्निवेशनं, समञ्जसाक्षराप्रतिभानेऽसमञ्जसाक्षरमात्रस्य सप्रश्नचिह्न-
स्य चापरेखान्तर्न्यसनमित्येषा संशोधनरीतिः । कस्याञ्चिदपि मातृकायां प्राकृत-
स्य संस्कृतच्छायाया अदर्शनात् सा प्रायः पर्यालोच्य लिखिता । तत्तत्पृष्ठेषु
यथापेक्षं टिप्पण्यप्यधस्ताद् दत्ता । ये ग. ग्रन्थे पाठभेदाः, ये च क. ग्रन्थे त्रुटि-
तांशाः ख. ग्रन्थादुपलब्धाः, ते पुस्तकस्यान्ते परिशिष्टतया योजिताः ॥
त. गणपतिशास्त्री.