सुश्रुत संहिता
Sushruta Samhita
महर्षि सुश्रुत (व्याख्याकार: अत्रिदेव गुप्त) द्वारा
स्रोत: मोतीलाल बनारसीदास - अत्रिदेव गुप्त कृत हिन्दी व्याख्या · मोतीलाल बनारसीदास, वाराणसी (उद्गम)
पृष्ठ 161, कुल 872 में से
संदर्भ में पढ़ेंअ० २६ ] १५
सूत्रस्थानम्
११३
सुहृदी यांश्च पश्यन्ति व्याधितो वा स्वयं तथा ।
स्नेहाभ्यक्तशरीरस्तु करभग्यालगर्भैः ॥५५॥
वराहैर्महिषैर्वाऽपि यो यायाहक्षिणामुखः ।
रक्तान्बरधरा कृष्णा हसन्ती सुक्तमूर्धजा ॥५६॥
यं चाकर्षति बद्धवा स्त्री नृत्यन्ती दक्षिणामुखम् ।
अन्तावसायिभिर्यो वाऽऽकृष्यते दक्षिणामुखः ॥५७॥
परिष्वजेरन् यं वाऽपि प्रेताः प्रत्रजिता (न) स्तथा ।
मुहुराग्रायते यस्तु श्वापदैर्विकृताननैः ॥५८॥
पिवेनमधु च तैलं च यो वा पङ्कऽवसीद्वति ।
पङ्कप्रदिग्धगात्रो वा प्रनृत्येन प्रहसेत्तथा ॥५९॥
निरन्बरश्च यो रक्तं धारयेच्छिरसा घञ्जम् ।
यस्य वंशो नलो वाऽपि तालो वोरसि जायते ॥६०॥
यं वा मत्स्यो प्रसेद्यो वा जननी प्रविशेन्नरः ।
पर्वताग्रात् पतेद्यो वा श्वघ्नो वा तमसाऽऽवृते ॥६१॥
द्वियेत स्नोत्सा यो वा यो वा मौण्ड्यमवानुयात् ।
पराजीयेत बध्येत काकाचैर्वाऽभिभूम्यते ॥६२॥
पतनं तारकादीनां प्रणाशं दीपचतुषोः ।
यः पश्येद्देवतानां वा
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें