सूर्यसिद्धान्त (प्राचीन भारतीय खगोल गणित - सानुवाद सटीक)
Surya Siddhanta with Hindi Mathematical Commentary
भगवान् सूर्य / मय दानव / प्रो. रामचन्द्र पाण्डेय द्वारा
पृष्ठ 744, कुल 838 में से
संदर्भ में पढ़ेंभूगोलाध्याय ७१६
७८-७६-वर्षपति, मासपति, दिनपति तथा होरापतियों का सम्बन्ध । श्लोक ८०-
नक्षत्र-कक्षा का विस्तार । श्लोक ८१-८४-आकाश-कक्षा का प्रमाण तथा इससे
ग्रह की कक्षाओं और गतियों का सम्बन्ध । श्लोक ८५-६०-कक्षाओं का परिमाण
योजनों में ।]
इस अध्याय में भूगोल की उत्पत्ति, स्थिति, विस्तार आदि सभी बातों का
निरूपण किया गया है, इसीलिए इसका नाम भूगोलाध्याय है । साथ ही साथ ग्रहों,
नक्षत्रों और आकाश की कक्षाओं के प्रमाण भी दिये गये हैं ।
मयासुर के प्रश्न और सूर्यांश पुरुष के उत्तर की भूमिका -
अथार्काशसमुद्भूतं प्रणिपत्य कृताञ्जलिः ।
भक्त्या परमयाऽभ्यर्च्य पप्रच्छेदं मयोऽसुरः ॥१॥
भगवन् किंप्रमाणा भूः किमाकारा किमाश्रया ।
किविभागा कथं वाऽत्र सप्तपातालभूमयः ॥२॥
अहोरात्रव्यवस्थां च विदधाति कथं रविः ।
कथं पर्येति वसुधां भुवनानि विभावयन् ॥३॥
देवासुराणामन्योन्यमहोरात्रं विपर्ययात् ।
किमर्थं तत्कथं वा स्याद् भानोः भगणपूरणात् ॥४॥
पित्र्यं मासेन भवति नाडीषष्ट्या तु मानुषम् ।
तदेव किल सर्वत्र न भवेत् केन हेतुना ॥५॥
दिनाद्धमासमहोरात्रामषिषा न समाः कुतः ।
कथं पर्येति भगणः सग्रहोऽयं किमाश्रयः ॥६॥
भूमेरुपर्यधुर्युक्ताः किमुत्सेधाः किमन्तराः ।
ग्रहर्क्षकक्ष्याः किम्मान्त्राः स्थिताः केन क्रमेण ताः ॥७॥
ग्रीष्मे तीव्राः करा भानोः न हेमन्ते तथाविधाः ।
कियती तत्करव्याप्तिः मानानि कति किञ्च कैः ॥८॥
एतन्मे संशयं छिन्धि भगवन्भूतभावन ।
अन्यो न त्वामृते छेत्तां विद्यते सर्वदर्शिवान् ॥६॥
इति भक्त्योदितं श्रुत्वा मयेनार्काशसंभवः ।
रहस्यतरमध्यायं पुनः प्राह यथाश्रुतम् ॥१०॥
शृणुष्वैकमना भूत्वा गुह्यमध्यात्मसंज्ञितम् ।
वक्ष्याम्यतीवभक्तानां नादेयं विद्यते मम ॥११॥