सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 81, कुल 516 में से
संदर्भ में पढ़ें| ६६ | सुभाषितरत्नभाण्डागारम् | [२ प्रकरणम् |
|---|
सुखम् ॥ ९ ॥ दूये कान्ताकरं वीक्ष्य मणिकङ्कणवर्जितम् ।
अतः परं परं दूये मणिकं कणवर्जितम् ॥ १० ॥ रात्रौ
जानुर्दिवा भानुः कृशानुः संध्ययोर्द्वयोः । पश्य शीतं मया
नीतं जानुभानुकृशानुभिः ॥ ११ ॥ किं करोमि क्व
गच्छामि कमुपैमि दुरात्मना । दुर्भरेणोदरेणाहं प्राणैरपि
विडम्बितः ॥ १२ ॥ दुःखं दुःखमिति ब्रूयान्मानवो नरकं
प्रति । दारिद्र्यादधिकं दुःखं न भूतं न भविष्यति ॥ १३ ॥
किं चान्यैः सुकुलाचारैः सेव्यतामेति पूरुषः । धनहीनः
स्वपत्नीभिस्त्यज्यते किं पुनः परैः ॥ १४ ॥ किं वाच्यं
सूर्येशशिनोर्दारिद्र्यं महता पुरः । दिनरात्रिविभागेन परिधत्तो
यदम्बरम् ॥ १५ ॥ मौर्य्यं सर्व्वापदा निष्ठा का हि नापद-
जानतः । तस्मिन्नप्यविषण्णो यः क सोऽन्यत्र विपत्स्यति
॥ १६ ॥ यदि नाम कुले जन्म तत्किमर्थं दरिद्रता ।
दरिद्रत्वेऽपि मूर्खत्वमहो दुःखपरम्परा ॥ १७ ॥ क' स्वभाव-
गभीराणां जानीयाद्बहिरापदम् । बालपत्येन भृत्येन
यदि सा न प्रकाश्यते ॥ १८ ॥ सन्तोऽपि न विराजन्ते
हीनार्थस्येतरे गुणाः । आदित्य इव भूतानां श्रीर्गुणानां
प्रकाशिनी ॥ १९ ॥ वरं हि नरके वासो न तु दुश्चरिते
गृहे । नरकात्क्षीयते पापं कुगृहात्परिवर्धते ॥ २० ॥ नातः
पापीयसीं कश्चिदवस्थां शम्बरोऽब्रवीत् । यस्या नैवाद्य न
प्रातर्भोजनं तात विद्यते ॥ २१ ॥ न तथा बाध्यते राज-
ञ्छूकृत्या निर्धनो जनः । यथा भद्राणि संप्राप्य तैर्र्विहीनः
सुखोचितः ॥ २२ ॥ कुब्जस्य कीटखातस्य दावनिष्कुषित-
त्वचः । तरोरप्यूषरस्थस्य वरं जन्म न चार्थिनः ॥ २३ ॥
धर्मार्थकामहीनस्य परकीयान्नभोजिनः । काकस्येव दरिद्रस्य
दीर्घमायुर्विडम्बना ॥ २४ ॥ शीतमध्व्या कदन्नं च वयो-
तीताश्च योषितः । मनसः प्रातिकूल्यं च जरायाः पञ्च
हेतवः ॥ २५ ॥ सुहृदा हि धनं भुक्त्वा कृत्वा प्रणयमी-
प्सितम् । प्रतिकर्तुमशक्तस्य जीवितान्मरणं वरम् ॥ २६ ॥
लज्जावतः कुलिनस्य याचितुं धनमिच्छतः । कण्ठे पाराव-
तस्येव वाक्करोति गतागतम् ॥ २७ ॥ कण्ठे गद्गदता
स्वेदो मुखे वैवर्ण्यवेपथू । म्रियमाणस्य चिह्नानि यानि
तान्येव याचतः ॥ २८ ॥ धन्यास्ते ये न पश्यन्ति देश-
भङ्गं कुलक्षयम् । परचित्तगतान्दारान्पुत्रं च व्यसनातुरम्
॥ २९ ॥ शेषभार्य्यं तु काव्येन काव्यं गीतेन हन्यते ।
गीतं तु स्त्रीविलासेन स्त्रीविलासो बुभुक्षया ॥ ३० ॥ जी-
वन्त्यर्थक्षये नीचा याञ्चोपद्रववञ्चनैः । कुलाभिमानमूकानां
साधूनां नास्ति जीवनम् ॥ ३१ ॥ शून्यमपुत्रस्य गृहं चिरशून्यं
नास्ति यस्य सन्मित्रम् । मूर्खस्य दिशः शून्याः सर्वं शून्यं
दरिद्रस्य ॥ ३२ ॥ पक्षविकलश्च पक्षी शुष्कश्च तरुः सरश्च
जलहीनम् । सर्पश्रोद्धृतदंष्ट्रस्तुल्यं लोके दरिद्रश्च ॥ ३३ ॥
अम्बा तुष्यति न मया न स्नुषया सापि नाम्बया न मया ।
अहमपि न तया न तया वद राजन्कस्य दोषोऽयम्
॥ ३४ ॥ पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव ।
विलसत्करेणुगहनं संप्रतिसममावयोः संदनम् ॥ ३५ ॥
दारिद्र्यान्मरणाद्वा मरणं संरोचते न दारिद्र्यम् । अल्पक्लेशं
मरणं दारिद्र्यमनन्तकं दुःखम् ॥ ३६ ॥ तावत्सन्ति सहाया
यावज्जन्तुर्न कृच्छ्रमाप्नोति । अभिपतति शिरसि मृत्यौ कं
कः शक्तः परित्रातुम् ॥ ३७ ॥ विकसामि रवावुदिते
संकोचमुपैमि चास्तमुपयाते । दारिद्र्यसरसि मग्नः पङ्कज-
लीलामनुभवामि ॥ ३८ ॥ घृतलवणतैलतण्डुलशाकेन्धन-
चिन्तयानुदिनम् । विपुलगतेरपि पुंसो नश्यति धीर्मन्दविभ-
वत्वात् ॥ ३९ ॥ वीणा वंशश्चन्दनं चन्द्रभासः शय्या यानं
यौवनस्थास्तरुण्ह्यः । नैतद्रम्यं क्षुत्पिपासार्दितानां सर्व्वारम्भा-
स्तण्डुलप्रस्थमूलाः ॥ ४० ॥ दारिद्र्य भोस्त्वं परमं
विवेकि गुणाधिके पुंसि सदानुरक्तम् । विद्याविहीने गुण-
वर्जिते च मुहूर्तमात्रं न रतिं करोषि ॥ ४१ ॥ दारिद्र्य
शोचामि भवन्तमेवमस्मच्छरीरे सुहृदित्युषित्वा । विपन्ने देहे
मयि मन्दभाग्ये मेमेति चिन्ता क्व गमिष्यसि त्वम्
॥ ४२ ॥ एको हि दोषो गुणसन्निपाते निमज्जतीन्दोरिति
यो बभाषे । न तेन दृष्टं कविना समस्तं दारिद्र्यमेकं
गुणकोटिहारि ॥ ४३ ॥ धनैर्विमुक्तस्य नरस्य लोके किं
जीवितेनादित एव तावत् । यस्य प्रतीकारनिरर्थकत्वा-
त्कोपप्रसादा विफलीभवन्ति ॥ ४४ ॥ अहो नु कष्टं सततं
प्रवासस्ततोऽतिकष्टः परगेहवासः । कष्टाधिका नीचजनस्य
सेवा ततोऽतिकष्टा धनहीनता च ॥ ४५ ॥ वरं वनं
व्याघ्रगजेन्द्रसेवितं द्रुमालयः पत्रफलाम्बुभोजनम् । तृणानि
१ खेदं प्राप्नोमि २ मणियुक्तं यत्कङ्कणं तेन वर्जितम् ३ अत्य-
न्तम् ४ मृण्मयपात्रम् ५ धान्यकणरहितम् ६ अग्नि
७ आकाशम्, पक्षे,-वस्त्रम्
१ दरिद्रस्य दोष इत्यर्थे २ पृथूनि कार्तस्वरस्य सुवर्णस्य पात्राणि
यस्मिंस्तत्, पक्षे,-पृथुकानां बालानामात्तैः स्वरा रुदितशब्दास्तेषां पात्रं
भाजनम् ३ भूषिता अलंकृता निःशेषाः परिजना यस्मिन्, पक्षे,-
भुवि उषिता निःशेषाः परिजना यस्मिन् ४ विलसन्त्यः शोभमानाः
करेणवो हस्तिन्यस्ताभिर्गहनं निबिडम्, पक्षे,-चवयोः सावर्ण्ण्यात् बिले
सीदन्तीति बिलसदः, बिलसद एव बिलसत्का बिलवर्तिनो ये रेणवो
धूलयस्तैर्गहनं व्याप्तम् ५ गृहम् ६ विचारशीलम् ७ प्रीतिम्.
८ स्थित्वा ९ विनष्टशरीरे १० हतभाग्ये ११ गुणसमुदाये
१२ कालिदासः 'एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणे-
ष्विवाङ्कः' इति कुमारसंभवस्य पद्ये १३ कोटिगुणनाशकमिति भावः
१४ परगृहवासः