सामग्री पर जाएँ
सर्वकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 75, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 75

६० सुभाषीतरत्नभाण्डागारम् [२ प्रकरणम्


धियं कुमायासमयभिचारिणी विदग्धतामेव हि मन्यते
खलः ॥ २२५ ॥ समर्पिताः कस्य न तेन दोषा हठाद्गुणा
वा न हृताः खलेन । तथापि दोषैर्न वियुज्यतेऽसौ स्पृष्टो-
ऽपि नैकैन गुणेन चित्रम् ॥ २२६ ॥ आराध्यमानो बहुभिः
प्रकारैर्नाराध्यते नाम किमत्र चित्रम् । अय त्वपूर्वः प्रतिभा-
विशेषो यत्सेव्यमानो रिपुतामुपैति ॥ २२७ ॥ विद्वांसु-
पालम्भमत्राप्य दोषान्निवर्ततेऽसौ परितप्यते च । ज्ञातस्तु
दोषो मम सर्वथेति पापो जन पापतर करोति
॥ २२८ ॥ विद्या विवादाय धनं मदाय शक्तिः परेषां
परिपीडनाय । खलस्य साधोर्विपरीतमेतज्ज्ञानाय दानाय च
रक्षणाय ॥ २२९ ॥ १ सँद्वशजात २ गुणैकोटियुक्तं धनुः कथ
पार्थिववामहस्ते । ३ शरः परप्राणविहारदक्षः सपक्षपातोऽप्य-
धमो गरीयान् ॥ २३० ॥ दृष्टो वा सुकृतशतोपलालितो
वा श्लिष्टो वा व्यसनशताभिरक्षितो वा । दौःशील्याजनयति
नैव जात्वसाधुर्विश्वम्भ भुजग इवाङ्गमध्यसुप्तः ॥ २३१ ॥
एकः खलोऽपि यदि नाम भवेत्सभाया मोघीकरोति विदुषा
निखिलप्रयासम् । एकापि पूर्णसुदर मधूरैः पदार्थैरालोढ्य
रेचयति हन्त न मक्षिका किम् ॥ २३२ ॥ हालाहल
खलु पिपासति कौतुकेन कालानल परिचुचुम्बिषति प्रका-
मम् । व्यालाधिपं च यतते परिरब्धुमद्धा यो दुर्जनं वश-
यितु कुरुते ४ मँनीषाम् ॥ २३३ ॥ ते दृष्टमात्रपतिता
अपि कस्य नात्र क्षोभाय पक्ष्मसदृशामलकाः खलाश्च ।
नीचाः सदैव सविलाससलीकलग्ना ये कालतां कुटिलता-
मपि न त्यजन्ति ॥ २३४ ॥ प्राक्पादयोः पतति खादति
पृष्ठमासं कर्णे कल किमपि ५ रौति शनैर्विचित्रम् । छिद्रं
निरूष्य सहसा प्रविशत्यशङ्कः सर्व खलस्य चरित मशकः
करोति ॥ २३५ ॥ हित्वा मद सममसजनसज्जनौ तौ वन्दे
नितान्तकुटिलप्रगुणस्वभावौ । एक मिया निरभिसंहित-
वैरिभाव प्रीत्या पर परमनिवृतिपात्रभूतम् ॥ २३६ ॥
पादाहतोऽपि दृढदण्डसमाहतोऽपि य दष्ट्या स्पृशति तं
किल हन्ति सर्पः । हर्षाद्विवैष पिशुनोऽत्र मनुष्यधर्मा कर्णे
पर स्पृशति हन्ति पर समूलम् ॥ २३७ ॥ ७ उद्ध्रासिताखिल-
खलस्य विशुद्धवृत्तस्य प्राग्जातविस्मृतनिजाधमकर्मवृत्तेः ।
दैवादवाप्तविभवस्य गुणद्विषोऽस्य नीचस्य ८ गोचरगतैः
सुखमप्यते कैः ॥ २३८ ॥ सवर्धितोऽपि भुजगः पयसा न
वश्यस्तपालकानपि निहन्ति बलेन सिंहः । दुष्टः परैरुप-
कृतस्तदनिष्टकारी विश्वासलेश इह नैव बुधैर्विधेयः ॥२३९॥


१ कस्तूरिका तृणभुजामटवीमृगाणां निक्षिप्य नाभिषु चकार
च तान्वधार्हान् । मूढो विधिः सकलदुर्जनलोलजिह्वामूले
स निक्षिपति चेत्सकलोपकारः ॥ २४० ॥ रूक्ष विरौति
परिकुप्यति निर्निमित्तं स्पर्शेन दूषयति वारयति प्रवेशम् ।
लज्जाकर दशति नैव च तृप्यतीति २ कौलेयकस्य च खलस्य
च को विशेषः ॥ २४१ ॥ युक्त यया किल निरन्तर-
लब्धवृत्तेरसस्वाभिमानतमसः प्रसर निरोद्धुम् । विद्वत्तया
जगति तामवलम्ब्य केचित्तन्वन्त्यहङ्कृतिमहो शतशाखमा-
न्ध्यम् ॥ २४२ ॥ प्रायः स्वभावमनिलो महता समीपे तिष्ठ-
न्खलः प्रकुरुतेऽर्थजनोपघातम् । शीलादितैः सकललोक-
सुखावहोऽपि धूमे स्थिते नहि सुखेन निषेव्यतेऽग्निः
॥ २४३ ॥ धूम्रः पयोधरपदं कथमप्यवाप्य वर्षाम्बुभिः
शमयति ज्वलनस्य तेजः । दैवादवाप्य कलुषप्रकृति-
र्महत्त्व प्रायः स्वबन्धुजनमेव तिरस्करोति ॥ २४४ ॥
नाश्रयेमेतदधुना हतदैवयोगादुच्चैःस्थितिर्र्यदधमो न
महानुभावः । रथ्याकलङ्कशतसकरसकुलोऽपि पृष्ठे
भवत्यवकरो न पुनर्निधानम् ॥ २४५ ॥ बिस-
मल मशनाय स्वादु पानाय तोयं शयनमवनिपुष्ठे वल्कले
वाससी च । नवधनमधुपानभ्रान्तसर्वेन्द्रियाणामविनयमनु-
मन्तु नोत्सहे दुर्जनानाम् ॥ २४६ ॥ मलयभुवि विरूढ-
श्चन्दनेनाभिवृद्धो न भजति किल वेणुः सौरमं चन्दनस्य ।
तदिह नहि विचित्रं सर्वदोषाकराणा नहि भवति खलाना
साधुतागन्धलेशः ॥ २४७ ॥ हसति लसति हृर्षार्त्तीन्नद्रुःखे
परेषा स्खलति गलति मोहादात्मनः क्लेशलेशे । नदति
वदति निन्द्य मानिना किं च नीच परुषवचनमल्पं श्रावितो
हन्तुमेति ॥ २४८ ॥ दिगन्ते खेलन्ती सरसहृदयानन्द-
जननी मया नीता दुष्टप्रचुरनगरी कापि कविता । अकस्मा-
दुन्मीलत्खलवदनवल्मीकरसनाभुजगीदष्टाङ्गी ३ शिव शिव
समाप्ति गतवती ॥ २४९ ॥ अभूद्द्मभोराशेः सह वसति-
रासीत्कमलया गुणानामाधारो नयनफलमिन्दुः ४ प्रथयति ।
कथ सिहीसूनुस्तमपि तुर्दति प्रौढदशनैर्गुणानामास्वादं पिशु-
नरसना कि रसयति ॥ २५० ॥ वृथा दुग्धोऽनड्रान् स्तन-
भरनता गौरिति चिरं परिष्वक्तः षण्ढो युवतैरिति लाव-
ण्यसहिता । कृता वैडूर्याशा ५ विकटकिरणे काचशकले मया
मूढेन त्वा कृपणमगुणज्ञ प्रणमता ॥ २५१ ॥ स्वपक्षच्छेदं
वा समुचितफलभ्रशमथवा स्वमूर्तेर्भङ्गं वा पतनमशुचौ
नाशमथवा । शरः प्राप्नोत्येतान्हृदयपथसंस्थोऽपि धनुष ऋजो-
र्वक्राश्लेषाद्भवति खलु सुव्यक्तमशुभम् ॥ २५२ ॥ गुणा-
ना सा शक्तिर्विपदमनुबध्नन्ति यदमी प्रसन्नास्तद्भेधा मम


पादटिप्पण्यः (Footnotes):

वामभागःदक्षिणभागः
१ वेणु, पक्षे,-कुलम्१ वनम्
२ मौर्वी, पक्षे,-विद्याविनयादि२ श्वानस्य
३ अग्रम्, पक्षे,-संख्याविशेष३ राहु
४ मतिम्४ ग्रसति, पीडयतीत्यर्थः.
५ शब्द करोति५ प्रसूतकिरणे
६ पक्षे,-प्राप्य
७ आविष्कृतसकलदुष्टस्य
८ अमर्यादस्य