सामग्री पर जाएँ
सर्वकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 70, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 70

दुर्जननिन्दा | ५५

मितम् ॥ ३९ ॥ वर्धन वाथ संमान खलाना प्रीतये कुतः ।
फलन्त्यमृतसेकेऽपि न पथ्यानि विषद्रुमाः ॥ ४० ॥ दुर्जनै-
रुच्यमानानि वचांसि मधुराण्यपि । अकालकुसुमानीव भयं
संजयन्ति हि ॥ ४१ ॥ शत दद्यान्न विवदेदिति विज्ञस्य
संमतम् । विना हेतुमपि द्वन्द्वमेतन्मूर्खस्य लक्षणम् ॥४२॥
अहो खलभुजंगस्य विपरीतो वधक्रमः । अन्यस्य दशति
श्रोत्रमन्य. प्राणैर्विमुज्यते ॥ ४३ ॥ न यत्नकोटिशतकैरपि
दुष्ट. सुधीर्भवेत् । किं मर्दितोऽपि कस्तूर्या लशुनो याति
सौरभम् ॥ ४४ ॥ पाषाणो भिद्यते टङ्कैर्वज्रं वज्रेण भिद्यते ।
सर्पोऽपि भिद्यते मन्त्रैर्दुष्टात्मा नैव भिद्यते ॥ ४५ ॥ दुर्ज-
नो दोषमादत्ते दुर्गन्धमिव सूकरः । सज्जनश्च गुणग्राही
हंस. क्षीरमिवाम्भस. ॥ ४६ ॥ अपूर्वा रसनाव्यालाः
खलाननबिलेशयाः । कर्णमूले स्पृशन्त्यन्य हरन्त्यन्य-
स्य जीवितम् ॥ ४७ ॥ दुर्जनेन सम सख्य प्रीति चापि न
कारयेत् । उष्णो दहति चाङ्गारः शीतः कृष्णायते
करम् ॥ ४८ ॥ दुर्जनः प्रियवादी च नैतद्विश्वासकारणम् ।
मधु तिष्ठति जिह्वाग्रे हृदये तु हलाहलम् ॥ ४९ ॥
मनस्यन्यद्वचस्यन्यत्कार्ये चान्यद्दुरात्मनाम् । मनस्येकं वच-
स्येकं कर्मण्येकं महात्मनाम् ॥ ५० ॥ ^१जीवनग्रहणे नम्रा
गृहीत्वा पुनरुन्नताः । किं कनिष्ठाः किमु ज्येष्ठा घटीयन्त्र-
ख दुर्जनाः ॥ ५१ ॥ बिभ्राणा गरल कण्ठे भुजगपरि-
वेष्टिता । शाम्भीव तनुः कस्य न वन्द्या दौर्जनी सभा
॥ ५२ ॥ अक्षमालाप्रवृत्तित्ज्ञा कुशासनपरिग्रहा । ब्राह्मीव
दौर्जनी संसद्वन्दनीया ^९समेखला ॥ ५३ ॥ खलः करोति
दुर्वृत्तं नून फलति साधुषु । दशाननोऽहरत्सीता बन्धन
च महोदधे. ॥ ५४ ॥ कुर्वते स्वमुखेनैव बहुधान्यस्य ख-
ण्डनम् । नमः पतनशीलाय मुसलाय खलाय च ॥ ५५ ॥
अपवादाद्भीतस्य समस्य गुणदोषयोः । असद्वृत्तेरहो वृत्तं
दुर्विभाव्यं विघेखिव ॥ ५६ ॥ न देवाय न धर्माय न
बन्धुभ्यो न चार्थिने । दुर्जनस्यार्जित वित्त भुज्यते राज-
तस्करैः ॥ ५७ ॥ मुखं पद्मदलाकारं वाचा चन्दनशीतला ।
तोहृदयं क्रोधसंयुक्तं त्रिविधं धूर्तलक्षणम् ॥ ५८ ॥ निष्णा-
ऽपि च वेदान्ते साधुत्व नैति दुर्जनः । चिर जलनिधौ
मग्नो मैनाक इव मार्दवम् ॥ ५९ ॥ खल सज्जनकार्पास-
धैक्षणैकहुताशन । परदु खाभिधमनमारुतः केन वर्ण्य-
ताम् ॥ ६० ॥ यश.सौरभ्यलशुनः शान्तिशैत्यहुताशन ।
कारुण्यकुसुमाकाश खल. सज्जनदु.खद ॥ ६१ ॥ अन्तर्म-
लिनदेहेन बहिराह्लादकारिणा । मँहाकालफलेनेव के खलेन
न वञ्चिताः ॥ ६२ ॥ अहो प्रकृतिसादृश्य श्लैष्मैणो दुर्जनस्य
च । मधुरैः कोपमायाति कटुकैनैव शाम्यति ॥ ६३ ॥
ईषल्लब्धप्रवेशोऽपि स्नेहविच्छेदकारक । कृतक्षोभो नरीन-
र्ति खलो मन्थानदण्डवत् ॥ ६४ ॥ विवृण्वती पुरस्तैक्ष्ण्य
पृष्ठत. कुर्वती गुणम् । कर्णान्निध्यति लोकस्य सूचीवत्सू-
चकस्य वाक् ॥ ६५ ॥ सर्वथा व्यवहर्तव्य कुतो व्यवच-
नीयता । यथा स्त्रीणा तथा वाचा साधुत्वे दुर्जनो जनः
॥ ६६ ॥ कापूरुष. कुकुरश्च भोजनैकपरायण. । लालित.
पार्श्वमायाति वारितो नच गच्छति ॥ ६७ ॥ मालिन्यम-
वलम्बेत यदा दर्पणवत्खल. । तदैव तन्मुखे देय रजो नान्या
प्रतिक्रिया ॥ ६८ ॥ नीच. समुत्थितोऽवश्यमनवाप्य पराश्र-
यम् । छिद्र न रतिमाप्नोति दृष्टान्तोऽत्र ^८कंटीभवः ॥ ६९ ॥
दुर्जन. परिहर्तव्य प्रत्यक्शो द्विपदः पशुः । विध्यते वा कुश-
ल्येन अदृष्टः कण्टको यथा ॥ ७० ॥ यथा वृष्टि समुद्रेषु भु-
क्तस्योपरि भोजनम् । एवं प्रीति. खलैः सार्धमुत्यन्तेऽर्थेऽव-
सीदति ॥ ७१ ॥ क्वचित्कार्यवशान्नीचोऽप्यलं भवति नो म-
हान् । कांस्यस्यैव हिं राज्ञोऽपि दर्पणः कनकस्य न ॥ ७२ ॥
दुर्जनो दूषयत्येव सता गुणगणं क्षणात् । मलिनीकुरुते धू-
मः सर्वथा विमलाम्बरम् ॥७३॥ यथा दोषो विधातस्य ज-
नस्य न तथा गुण. । प्रायः कलङ्क एवेन्दो. प्रस्फुटो न प्रस-
न्नता ॥ ७४ ॥ सप्तौ कर्कशं चित्त खलस्यापदि कोमलम् ।
शीतल कठिन प्रायस्ततं मृदु भवत्य॑यः ॥ ७५ ॥ प्रायः प्रकु-
प्यतितरा प्रीत्यैव प्रखलो जनः । नयन स्नेहसपर्कात्कालुष्यं
समुपैत्यलम् ॥ ७६ ॥ प्राप्य वित्तं जडास्तूष्णे निर्वृति यान्ति
नान्यथा । तोयमासाद्य गर्जन्ति न रिक्ताः स्तेनयित्नवः ॥७७॥
सदा खण्डनयोग्याय तुषपूर्णायशाय च । नमोऽस्तु बहुबीजा-
य खलायोलूखलाय च ॥७८॥ जिह्वादूषितसत्यान्नः पिण्डार्थी
कलहोत्कटः । तुल्यतामशुचिर्नित्यं बिभर्ति पिशुनः शुनः॥७९॥


१ जिह्वारूपा सर्पा २ उदकम्, पक्षे,-प्राणा ३ अधोमुखा, पक्षे,-विनीता ४ ऊर्ध्वमुखा पक्षे,-उद्धता ५ एकरज्जुसबद्धघटमाळारूप 'राहाट' इति प्रसिद्धम् ६ सर्पा, पक्षे,- जारा ७ दुर्जनसवन्धिनी ८ अक्षमा य आलापास्तेषा वृत्तिज्ञा, पक्षे,- अक्षमाला जपमाला तस्या अपवृत्तिभ्रमण जानातीति सा ९ कुत्सित यच्छासन शिक्षा तस्य परिग्रहोऽवलम्बो यस्या सा, पक्षे,-कुशासन दर्भासन तत्परिग्रह स्वीकारो यस्या सा १० समे साधौ खला, पक्षे,-मेखलया सहिता ११ बहुधा अ-न्यस्य परस्य खण्डनम्, पक्षे,-पुष्कळधान्यस्य खण्डन वितुषीकरणम्

१ दहनम् २ कीर्तिरेव सौगन्ध्व तन्नाशकत्वाल्लशुन इव लशुनो हि कस्तूर्यादि सौगन्ध्व नाशयतीति प्रसिद्धि. ३ शान्तिरेव शैत्य तन्नाशकत्वादग्निरेव ४ कारुण्यमेव कुसुम तस्याकाश आकाशस्य यथा पुष्प कदापि नोपलभ्यते तद्वत्खले कारुण्य सर्वथाऽसम्भाव्य इत्यर्थ ५ धत्तूरफलेन ६ स्वभावसाम्यम् ७ कफस्य ८ साधुदन्द्यै, पक्षे,-सुवचनै ९ पुन पुनर्नृत्यति १० पुरुषव्यञ्जनम् ११ लोहम् १२ मेघ १३ मध्येच्छु