सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 53, कुल 516 में से
संदर्भ में पढ़ें| ३८ | सुभाषितरत्नभाण्डागारम् | [२ प्रकरणम् |
|---|
मौखर्ये स्वे । निन्दति कञ्चुकमेव प्रायः शुष्कस्तनी नारी ॥ १३ ॥ अतिरमणीये काव्ये पिशुनोऽन्वेषयति दूषणान्येव । अतिरमणीये वपुषि व्रणमेव हि मक्षिका-निकरः ॥ १४ ॥ बालाकटाक्षसूत्रितमसतीनेत्रत्रिभागकृत-भाष्यम् । कविमाणवका दूतीव्याख्यातमधीयते भावम् ॥ १५ ॥ द्रौधीयसा^१ धाष्टर्यगुणेन^२ युक्ताः कैः कैरपूर्वैः परकाव्यखण्डैः । आडम्बरं ये वचसा वहन्ति ते केऽपि कन्याकवयोजयन्ति^३ ॥ १६ ॥ कर्णामृतं सूक्तिरस विमुच्य दोषेषु यत्नः सुमहान्खलस्य । अवेक्षते केलिवन प्रविष्टः क्रैमेलकः कण्टकजालमेव ॥ १७ ॥ साहित्यपाथोनिधि-मन्थनोत्थं^४ काव्यामृतं रक्षत हे कवीन्द्राः । यत्तस्य दैत्या इव लुण्ठनाय काव्यार्थचोराः प्रगुणीभवन्ति ॥ १८ ॥ गृणन्तु सर्वे यदि वा यथेच्छं नास्ति क्षतिः कापि कवी-श्वराणाम् । रत्नेषु लुप्तेषु बहुष्वमर्त्यैरद्यापि रत्नाकर एव सिन्धुः ॥ १९ ॥ दैवीर्गिरः केऽपि कृतार्थयन्ति ताः कुण्ठ-यन्त्येव पुनर्विमूढाः । या विप्रुषः
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें