सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 427, कुल 516 में से
संदर्भ में पढ़ें| १८ | सुभाषितरत्नभाण्डागारम् |
|---|
वृत्तं हि राज्ञामुपरुद्धवृत्तम् । (र० वं०)
वृथा सुतस्य भोजनम् ।
वृथा दानं समर्थस्य ।
वृथा दीपो दिवापि च ।
वृथा भवेदसङ्गहान्धस्य हितोपदेशना । (कु० स०)
वृथा वृष्टिः समुद्रेषु ।
वृद्धस्य तरुणी विषम् ।
वृद्धा जना निष्करुणा भवन्ति ।
वृद्धा न ते ये न वदन्ति धर्मम् ।
वृद्धा नारी पतिव्रता ।
वेदाञ्जानन्ति पण्डिताः ।
वेश्याङ्गनेव नृपनीतिरनेकरूपा ।
वेश्यानां च कुतः स्नेहः ।
व्याघ्रस्य चोपवासस्य पारणं पशुमारणम् ।
व्याजस्रप्रणयैर्वाक्यैर्जनन्या को न वञ्च्यते । (क० स०)
व्यादिश्यते भूधरतामवेक्ष्य कृष्णेन देहोद्वहनाय शेषः । (कु० स०)
व्याधितस्यौषधं मित्रम् ।
व्रताभिरक्षा हि सतामलंकिया । (कि० अ०)
शक्तयो नियता वारि वैद्युताग्नि नु हन्ति किम् (क० स०)
शक्या हि केन लङ्घयितुं दुर्जाना नियतेर्गतिः । (क० स०)
शत्रोरपि गुणा वाच्या दोषा वाच्या गुरोरपि ।
शयनतलरत्नं शशिमुखी । (प्र० भ०)
शरीरूला हि नृपा मन्त्रमूला च राजता । (क० स०)
शरीरमाद्यं खलु धर्मसाधनम् । (कु० स०)
शस्त्राघाता न तथा सूचीक्षतवेदना यादृक् ।
शस्त्रेण रक्ष्यं यदशक्यरक्षं न तद्यशः शस्त्रभृतां क्षिणोति । (र० व०)
शाम्येत्प्रत्यपकारेण नोपकारेण दुर्जनः । (कु० स०)
शास्त्रं हि निश्चितधिया क्व न सिद्धिमेति । (शि० व०)
शास्त्राद्बुद्धिर्बलीयसी ।
शिरसि लिखितं लङ्घयति कः ।
शिष्यपापं गुरुस्तथा ।
शीलं परं भूषणम् ।
शीलं भूषयते कुलम् ।
शीलं हि विदुषां धनम् । (क० स०)
शीलं हि सर्वस्य नरस्य भूषणम् ।
शुचिः क्षेमकरो राजा ।
शुचिन्नारी पतिव्रता ।
शुचिर्भूमिगतं तोयम् ।
शुभकृन्नहि सीदति । (क० स०)
शुभस्य शीघ्रमशुभस्य कालहरणम् ।
शुभाचारस्य कः कुर्यादशुभं हि सचेतनः । (क० स०)
शुष्केन्धने वह्निरुपैति वृद्धिम् ।
शूरं कृतज्ञं दृढसौहृदं च लक्ष्मीः स्वयं याति निवासहेतोः । (प० त०)
शूरस्य मरणं तृणम् ।
शूराणां मृतमारणे नहि परो धर्मः प्रयुक्तो बुधैः ।
शूरा हि प्रणतिप्रियाः । (क० स०)
शोककन्दः क्व कन्या हि क्वानन्दः कायवान्सुतः । (क० स०)
शोभन्ते विद्यया विप्राः ।
शोषितसरसि निदाघे नितरामेवोद्धतः सिन्धुः ।
श्यालको गृहनाशाय । (चा० नी०)
श्रद्धया न विना दानम् ।
श्रवणपुटरत्नं हरिकथा । (प्र० भ०)
श्रवणसुखसीमा हरिकथा । (प्र० भ०)
श्रीकृष्णस्य कृपालवो यदि भवेत्कः कं निहन्तुं क्षमः ।
श्रीपतेः पदयुगं स्मरणीयम् ।
श्रीमङ्गलात् प्रभवति । (म० भा०)
श्रेयसि केन तृप्यते । (शि० व०)
श्रेयान्हि मानिनो मृत्युनैर्दुगात्मप्रकाशनम् । (क० स०)
श्रोत्रस्य भूषणं शास्त्रम् ।
सपत्सु महतां चित्तं भवत्युत्पलकोमलम् ।
संसर्गजा दोषगुणा भवन्ति । (भर्तृ०)
संहर्षिणा सह गुणाभ्यधिकैर्दुरासम् । (शि० व०)
सकलं शीलेन कुर्याद्वशम् ।
सकलकृतिसीमा श्रुतिस्मृतिः । (प्र० भ०)
सकलगुणभूषा च विनयः ।
सकलगुणसीमा वितरणम् ।
सकलसुखसीमा सुवदना । (प्र० भ०)
सकृद्विषिमानपि हि प्रयुक्तं माधुर्यमीष्टे हरिणान्न्रहीतुम् । (र० व०)
स क्षत्रियस्त्राणसहः सतां यः ।
सखि साहजिकं प्रेम दूरादपि विजायते ।
सकटे हि परीक्ष्यन्ते प्राज्ञाः शूराश्च संगरे । (क० स०)
संकल्पैकप्रधाना हि दिव्यानामखिलाः क्रियाः । (क० स०)
सङ्गः सता किमु न मङ्गलमातनोति । (भाग०)
सङ्गात्संजायते कामः । (भ० गी०)
सङ्ग्रामो नाम शूराणामुत्सवो हि महानयम् । (क० स०)
सता प्रज्ञोन्मेष पुनरयमसीमा विजयते ।
सतां महत्संमुखभावि पौरुषम् । (नै० च०)
सता हि चेतः शुचितात्मसाक्षिका । (नै० च०)
सता हि सङ्गः सकलं प्रसूयते । (भाग०)
सता हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः । (अ० शा०)
सतां हि साधुशीलत्वात्स्वभावो न निवर्तते ।
सतां गुरुजिगीषे हि चेतसि स्त्रीतृणं कियत् । (क० स०)
सतीधर्मो हि सुखीणां चिन्त्यो न सुहृदादयः । (क० स०)
स तु निरवधिरेकः सञ्जनानां विवेकः ।
सत्त्वाधीना हि सिद्धयः । (क० स०)