सामग्री पर जाएँ
सर्वकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 403, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 403

३८८ सुभाषितरत्नभाण्डागारम् [ ७ प्रकरणम्


नीलोत्पलं कर्णे खरेणास्त्रं शरासवे । मयापि मरणे
चेतन्मयमेतत्समं कृतम् ॥ ४२६ ॥ धनक्षयः शिष्टगर्हा
सदाचारविवर्जनम् । ज्ञातिभिः पीडनं चैव धूतासक्तधिया
नृणाम् ॥ ४२७ ॥ त्रासहेतोर्विनीतिस्तु क्रियते जीविता-
शया । पञ्चत्वं चेद्गमिष्यामि कि सिंहानुनयेन मे ॥ ४२८ ॥
निर्दहति कुलशेषं ज्ञातीना वैरसंभवः क्रोधः । वनमिव
घनपवनाहततरुवरसंघर्षसंभवो दहनः ॥ ४२९ ॥ पयोमुचः
परीतापं हरन्त्येव शरीरिणाम् । नन्वात्मलाभो महता
परदुःखोपशान्तये ॥ ४३० ॥ त्यजेद्धर्मं दयाहीनं विद्याहीन
गुरुं त्यजेत् । त्यजेत्क्रोधमुखी भार्या निःस्नेहान्बान्धवांस्त्य-
जेत् ॥ ४३१ ॥ त्यजेत सचयान्साक्षात्तज्ज्ञानेक्षान्वहेत
वा । नहि सचयवान्कश्चिद्दृश्यते निरुपद्रवः ॥ ४३२ ॥
नौका च खलजिह्वा च प्रतिकूलप्रवर्तिनी । प्रतारणाय
लोकाना दारुणा केन निर्मिता ॥ ४३३ ॥ तलवद्दृश्यते
व्योम खद्योतो हव्यवाडिव । न चैवास्ति तलं व्योम्नि
खद्योते न हुताशनः ॥ ४३४ ॥ नोपभोगो न वा दानं
बन्धुना भरणं न वा । तथापि गुरुता धत्ते नृणा सरक्षितं
धनम् ॥ ४३५ ॥ द्वावेव कथितौ सद्भि पन्थानौ वदता
वर । अहिंसा चैव सत्य च यत्र धर्म प्रतिष्ठित ॥ ४३६ ॥
तृणोल्कया जायते जातरूपं वृत्तेन भद्रो व्यवहारेण
साधुः । शूरो भयेष्वर्थकृच्छ्रेषु धीरः कृच्छ्रास्वापत्सु
सुहृदश्चारयश्च ॥ ४३७॥ निर्गुणस्य हतं रूपं दुःशीलस्य
हतं कुलम् । असिद्धस्य हता विद्या अभोगेन हतं धनम्
॥ ४३८ ॥ दोग्ध्री धान्य हिरण्य च मही राज्ञा सुरक्षिता ।
नित्यं स्वेभ्यः परेभ्यश्च तृप्ता माता यथा पयः ॥ ४३९ ॥
मितं भुङ्क्ते संविभज्याश्रितेभ्यो मितं स्वपित्यमितं कर्म
कृत्वा । ददात्यमित्रेष्वभियाचितः सं तमात्मवन्तं
प्रजहत्यनर्थाः ॥ ४४० ॥ यत्र सूक्तं दुरुक्तं च समं
स्यान्मधुसूदन । न तत्र प्रलपेत्प्राज्ञो बधिरेष्विव गायकः
॥ ४४१ ॥ भिषजो भेषजं कर्तुं कस्मादिच्छन्ति रोगिणाम् ।
यदि कालेन पच्यन्ते भेषजैः कि प्रयोजनम् ॥ ४४२ ॥
मूर्खस्तु परिहर्तव्यः प्रत्यक्षो द्विपदः पशुः । भिनत्ति
वाक्यशल्येन अदृशं कण्टको यथा ॥ ४४३ ॥ यत्रोदकं
तत्र वसन्ति हंसास्तथैव शुष्कं परिवर्जयन्ति । न
हंसतुल्येन नरेण भाव्यं पुनस्त्यजन्ते पुनराश्रयन्ते ॥ ४४४ ॥
भूतानामपरः कश्चिद्धिंसायां सततोत्थितः । वञ्चनाया च
लोकस्य स सुखेष््वेव जीर्यते ॥ ४४५ ॥ मृत्योर्वा
गृहमेतद्वै या ग्रामे वसतो रतिः । देवानामेष वै गोष्ठो
यदारण्यमिति श्रुतिः ॥ ४४६ ॥ यः सर्वकालमबुधैः
परिहस्यमानो मूलाङ्कुराद्यपि न जातु पुरस्करोति । व्यापत्सु
शाखविटपी स फलं प्रसूय पुंसः किलैकपद एव
लुनात्यलक्ष्मीम् ॥ ४४७ ॥ भेषज्यमेतद्दुःखस्य यदेतन्नानु-
चिन्तयेत् । चिन्त्यात्मानं हि न व्येति भूयश्चापि प्रवर्धते ॥
॥ ४४८ ॥ पुष्पं पुष्प विचिन्वीत मूलच्छेदं न कारयेत् ।
मालाकार इवारामे न यथाङ्गारकारकः ॥ ४४९ ॥ भक्त
द्वेषो जडे प्रीतिः सुरुचिर्गुरुसङ्गने । मुखे कटुकता नित्यं
धनिना ज्वरिणामिव ॥ ४५० ॥ यत्सग्रहो रत्नमहौषधीना
करोति सर्वव्यसनावसानम् । त्यागेन तद्यस भवेन्नमोऽस्तु
चित्रप्रभावाय धनाय तस्मै ॥ ४५१ ॥ उपकार करोम्यस्य
ममाप्येष करिष्यति । अय चापि प्रतीकारो रामसुग्रीव-
योरिव ॥ ४५२ ॥ महाबलान्वयस्य महानुभावान्वयशास्य
भूमि धनधान्यपूर्णाम् । राज्यानि हित्वा विपुलाश्च
भोगान्गतान्नरेन्द्वान्वशमन्तकस्य ॥ ४५३ ॥ यथा
खरश्चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य । एवं
हि शास्त्राणि बहून्यधीत्य चार्थेषु मूढा खरवद्वहन्ति
॥ ४५४ ॥ फेनमात्रोग्रमे देहे जीवे शकुनिवत्स्थिते ।
अनित्ये प्रियसवासे कथं स्वपिषि पुत्रक ॥ ४५५ ॥ यदा
विनाशो भूताना दृश्यते कालचोदितः । तदा कार्ये
प्रमाद्यन्ति नराः कालवशं गताः ॥ ४५६ ॥ प्रिया वा मधुरा
वा तु स्वाम्येष्वेव विराजते । क्षीरक्षणे प्रमाणं तु वाचः
सुनयर्ककशाः ॥ ४५७ ॥ महादेवो देवः सरिदपि च
सैवामरसरिद्गुहा एवागार वसनमपि ता एव हरितः ।
सुहृद्वा कालोऽयं व्रतमिदमदैन्यव्रतमिदं कियद्वा वक्ष्यामो
वटविटप एवास्तु दयिता ॥ ४५८ ॥ यथा तैलक्षयाद्दीषः
प्रह्रासमुपगच्छति । तथा कर्मक्षयाद्दैव प्रह्रासमुपगच्छति
॥ ४५९ ॥ प्राप्य कार्य गरीयस्तु प्रियसमुत्सृज्य
दूरतः । हितमेव हि बक्तव्यं सुहृदा मंत्रिणा सदा
॥ ४६० ॥ मत्या परीक्ष्य मेधावी बुद्ध्या सपांच
चासकृत् । श्रुत्वा दृष्ट्वाथ विज्ञाय प्राज्ञैर्मैत्रीं समाचरेत्
॥ ४६१ ॥ यस्या यस्यामवस्थाया यत्करोति शुभाशुभम् ।
तस्या तस्यामवस्थाया तत्फलं समुपानुते ॥ ४६२ ॥
भर्तारं किल या नारी छायेवानुगता सदा । अनुगच्छति
गच्छन्तं तिष्ठन्तं चानुतिष्ठति ॥ ४६३ ॥ महान्तमप्यर्थम-
धर्मयुक्तं यः सत्यजत्यनपकृष्ट एव । सुखं सुदुःखान्यवमुच्य
शेते जीर्णां त्वचं सर्प इवावमुच्य ॥ ४६४ ॥ यस्य चित्तं
द्रवीभूतं कृपया सर्वजन्तुषु । तस्य ज्ञानेन मोक्षेण कि
जटाभस्मलेपनैः ॥ ४६५ ॥ मदरक्तस्य हंसस्य कोकिलस्य
शिखण्डिन । हरन्ति न तथा वाचो यथा साधु-