सामग्री पर जाएँ
सर्वकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 402, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 402

संकीर्णप्रकरणम् ३८७

विमुक्तये कामातुगणमतिकामकारणम् ॥ ३८५ ॥ तद्भोजन
यद्विजभुक्तशेषं तन्मोहदं यत्क्रियते' परस्मिन् । सा प्राज्ञता
या न करोति पाप दम्भं विना य. क्रियते स धर्म.
॥ ३८६ ॥ धर्मात्पैजवनो राजा चिराय बुभुजे भुवम् ।
अधर्माच्चैव नहुष प्रतिपेदे रसातलम् ॥ ३८७ ॥ कः
स्वभावगभीराणा लक्षयेद्वहिरापदम् । वालापत्येन भृत्येन
यदि सान प्रकाश्यते ॥३८८॥ नास्ति धर्मसमो बन्धुर्नास्ति
धर्मसमा क्रिया । नास्ति धर्मसमो देव. सत्य सत्यं
वदाम्यहम् ॥३८९॥ नास्ति सत्यात्परो धर्मो नानृतात्पातक
परम् । श्रुतिर्हि सत्यं धर्मश्च तस्मात्सत्य न लोपयेत् ॥३९०॥
एष ते विद्रुमच्छाया मारुमार्ग इवाधर । कस्य नो तनुते
तन्वि पिपासाकुलित मन. ॥ ३९१ ॥ नावज्ञया प्रदातव्यं
किचिद्वा केनचित्क्वचित् । अवज्ञा हि यद्दत्त दातुस्तद्दोष-
मावहेत् ॥ ३९२ ॥ एकीभूय स्फुटमिव किमप्याचचद्भिः
प्रलीनैरैविर्भूतै. खग कति कृता. स्वान्त ते विप्रलम्भा ।
तस्मादेषा त्यज परिचय चिन्तय म्वव्यवस्थामा-
भाषस्ते किमु न विदितः पण्डितः खण्डित. स्यात् ॥३९३॥
नाश्रमः कारण धर्मे क्रियमाणो भवेद्धि स । अतो
यदात्मनोऽपथ्यं परेषा न तदाचरेत् ॥ ३९४ ॥ जलाहतौ
विशेषेण विद्युतामिव द्युतिः । आपदि स्फुरति प्रज्ञा
यस्य धीरः स एव हि ॥ ३९५ ॥ नाभूतिकालॆषु फलं
ददन्ति शिल्पानि मन्त्राश्च तथौषधानि । तान्येव कालेन
समाहितानि सिद्ध्यन्ति वर्धन्ति च भूतिकाले ॥ ३९६ ॥
देशकालविहीनानि कर्माणि विपरीतनन् । क्रियमाणानि
दुष्यन्ति हवींष्यप्रयतेष्विव ॥ ३९७ ॥ ऐश्वर्यमदपापिष्ठा
मदा पानमदादय । ऐश्वर्यमदमत्तो हि नापतित्वा विबुध्यते
॥३९८॥ कुलोद्गत सत्यमुदारविक्रम स्थिर कृतज्ञ धृतिमन्त-
मूर्जितम् । अतीव दातारमुपेतवत्सल सुदुष्प्रसाध्य प्रवदन्ति
विद्विषम् ॥ ३९९ ॥ ऐश्वर्यात्सङ्घसम्बन्धं न कुर्याच्च कदा-
चनं । गते च गौरव नास्ति आगते च धनक्षय. ॥४००॥
कन्या वरयते रूपं माता वित्तं पिता श्रुतम् । बान्धवा
कुलमिच्छन्ति मिष्टान्नमितरे जना. ॥ ४०१ ॥ नारभेतान्य-
सामर्थ्यात्पुरुष. कार्यमात्मन. । मतिसाम्य द्वयोर्नास्ति कार्येषु
कुरुनन्दन ॥ ४०२ ॥ एष स्वभावो नारीणामनुभूय पुरा
सुखम् । अल्पामप्यापद प्राप्य दुष्यन्ति प्रजहत्यपि ॥४०३॥
धनेन वाससा प्रेम्णा श्रद्धयामृतभाषणैः । सततं तोषये-
द्दारान्नाप्रिय क्वचिदाचरेत् ॥ ४०४ ॥ का तव कान्ता कस्ते
पुत्र. संसारोऽयमतीव विचित्र । कस्य त्वं वा कुत आया-
तस्तत्त्वं चिन्तय तदिदं भ्रातः ॥ ४०५ ॥ ते चापि निपुणा
वैद्याः कुशलाः सम्भृतौषधाः । व्याधिभि. परिक्लिश्यन्ते मृगा
व्याधैरिवार्दिता ॥ ४०६ ॥ काले महिष्णुर्गिरिवदमहिष्णुश्च
वह्नित् । स्कन्धेनापि वहेच्छत्रुन्प्रियाणि समुदाहरन्
॥ ४०७ ॥ ऐन्द्रादर्चिष. कामी शिशिर हव्यवाहनम् ।
अबलाविरहदशविह्वलो गणयत्ययम् ॥ ४०८ ॥ पुनर्विन्तं
पुनर्मित्रं पुनर्भार्या पुनर्मही । एतत्सर्वं पुनर्लभ्यं न शरीर
पुन. पुन. ॥ ४०९ ॥ कश्चिद्राम्रवणं छित्त्वा पलाश्राश्च
निषिञ्चति । पुष्प दृष्ट्वा फले गृद्ध न शोचति फलागमे
॥ ४१० ॥ देवो गजा गुरुर्भार्या वैद्यनक्षत्रपाठका. ।
रिक्तहस्ता न गच्छन्ति गते कार्ये न सिध्यति ॥ ४११॥॥
त्वन्मुखं कमलं चेति द्वयोरप्यनयोर्भिदा । कमलं जलसरोहि
त्वन्मुखं त्वद्वपुःश्रयम् ॥ ४१२ ॥ परोऽप्यपत्य हितकृद्यथो-
षधा स्वदेहोऽप्यायमयत्सुतोऽहित. । छिन्द्यात्तदङ्ग यदुता-
त्मनोऽहितं शेषं सुखं जीवति यद्विवर्जनात् ॥ ४१३ ॥
क श्रद्धास्यति भूताथ सर्वो मा तुलयिष्यति । शङ्कनीया
हि लोकेऽस्मिन्निष्प्रतापा दरिद्रता ॥ ४१४ ॥ पूर्व वयसि
कर्माणि कृत्वा पापानि ये नराः । पश्चाद्गङ्गा निषेवन्ते
तेऽपि यान्त्युत्तमा गतिम् ॥ ४१५ ॥ तरुणिसमारम्भे
तस्या शरीरसरोवर मरभस मनोईस श्रीमन्प्रयासि कथं
पुन. । श्रवणलतिकापाशौ पाश्चे प्रसारितपातितौ हतविधि-
वशाद्वन्धायान्धो न पश्यति कि भवान् ॥ ४१६ ॥ पीतः
क्रुद्धेन तातश्चरणतलगहतो वल्लभोऽन्येन रोषादाऽऽस्वाल्य्या-
द्विप्रवर्यैः स्ववदनविवरे धार्यते वैरिणी मे । गेह मे छेद-
यन्ति प्रतिदिवसमुमाकान्तपूजा निमित्तत्तात्तस्मात्खिन्ना सदाहं
द्विजकुलनिलय नाथ युक्त त्यजामि ॥ ४१७ ॥ दूर्वाया
भूषणं पत्र वृक्षाणा भूषण सुमम् । स्ववृत्तिर्भूषणं पुंसा
नारीणा भूषणं पति ॥ ४१८ ॥ कृतवैरे न विश्वासः
कार्यस्त्विह सुहृद्यपि । छन्न सतिष्ठते वैर गूढोऽग्निरिव
दारुषु ॥ ४१९ ॥ द्विजातिपूजाभिरतो दाता ज्ञातिषु
चार्जवी । क्षत्रिय. शीलमाञ्श्चिर पाल्यते महीम्
॥ ४२० ॥ धनहीनो न हीनश्च धनिक. स सुनिश्चयात् ।
विद्यारत्नेन यो हीनः स हीन सर्ववस्तुषु ॥ ४२१ ॥
परकाव्येन कवय. परद्रव्येण चेश्वराः । निर्लोठितेन स्वकृतिं
पुष्णन्त्यद्यतने क्षणे ॥ ४२२ ॥ धननाशोऽधिक दुःखं मन्ये
सर्वमहत्तरम् । ज्ञातयो ह्यवमन्यन्ते मित्राणि च धनाच्युतम्
॥ ४२३ ॥ तीर्थसेवनमौनभागपि तिमि. सक्तः स्वकुल्याशने
वाताशान्न्यसते शिखी घनपयोमात्राशनोऽप्यन्वहम् । विश्व-
स्ताञ्चलचारिण प्रकटितध्यानाऽपि बुद्धे बक सत्कर्माचरणे-
ऽपि दोषविकृतौ न प्रत्यय. पापिनाम् ॥ ४२४ ॥
कृतविद्योऽपि वलिना व्यक्त रागेण रज्यते । रागानुरक्त
चित्तस्तु कि न कुर्यादसाम्प्रतम् ॥ ४२५ ॥ त्वया