सामग्री पर जाएँ
सर्वकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 399, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 399

३८४ सुभाषितरत्नभाण्डागारम् [ ७ प्रकरणम्

॥२७१॥ कर्मानुमेयाः सर्वत्र परोक्षगुणवृत्तयः । तस्मात्परोक्ष-
वृत्तीना फलैः कर्म विभावयेत् ॥२७२॥ किं गजेन प्रभिन्नेन
राजकर्मीण्यकुर्वता । स्थूलोऽपि यदि वाऽस्थूलः श्रेयानृत्यकरः
पुमान् ॥२७३॥ किं चन्दनैः शर्करायुक्तैर्हिनैः शीतलैश्च किम् ।
सर्वे ते मित्रगात्रस्य कला नार्हन्ति षोडशीम् ॥ २७४ ॥
नोपभोक्तुं न च त्यक्तुं शक्नोति विषयाञ्जरी । अस्थि निर्द-
शन. श्वेत्र जिह्वया लेढि केवलम् ॥ २७५ ॥ नो सत्येन
मृगाङ्क एष वदनीभूतो न चेन्दीवरद्वन्द्वं लोचनता गतं
न कनकैरप्यङ्गयष्टिः कृता । किं त्वेवं कविभिः प्रतारितमना-
स्तत्त्वं विजानन्नपि त्वन्त्रासास्रियमयं वपुर्मृगदृशां मन्दो जनः
सेवते ॥ २७६ ॥ दायादा व्ययभीरुतापहृतारब्धेर्भवेन्त्यु-
न्नता भृत्याः प्रत्युपकारकातरमतेः कुर्युर्न केऽपि प्रियम् ।
राशीभूतधनस्य जीवितहृतौ शश्वद्यतेरन्निजा भूर्भर्तुः क्रियते
द्विषेव रमसाल्लोभेन कि नाप्रियम् ॥ २७७ ॥ कोकिलोऽहं
भवान्काकः समानः कालिमावयोः । अन्तरं कथयिष्यन्ति
काकलीकोविदाः पुनः ॥२७८॥ क्व स दशरथः स्वर्गे भूत्वा
महेन्द्रसुहृद्गतः क्व स जलनिधेर्वेला बद्धा नृपः सगरस्तथा ।
क्व स करतलाज्जातो वैन्यः क्व सूर्यतनुर्मनुर्ननु बलवता
कालेनैते प्रबध्य निमीलिताः ॥ २७९ ॥ आदीर्घेण चलेन
वक्रगतिना तेजस्विना भोगिना नीलाब्जद्युतिनाहिना वरमहं
दष्टो न तच्चक्षुषा । दष्टे सन्ति चिकित्सका दिशि दिशि प्रायेण
धर्मार्थिनो मुग्धाक्षीक्षणवीक्षितस्य न हि मे वैद्यो न चाप्यौष-
धम् ॥ २८० ॥ आदौ चित्ते ततः काये सतां सञ्जायते
जरा । असतां च पुनः काये नैव चित्ते कदाचन ॥२८१॥
अत्युक्तिं रहसि गतं विचित्रमल्पेन भाषमाणं च । उचित-
प्रणयमपि नृपं सहसायी नोपसर्पन्ति ॥ २८२ ॥ दुर्जन-
सङ्गतिरनर्थपरम्पराया हेतुः सतामधिगतं वचनीयमत्र ।
लङ्केश्वरे हरति दाशरथे. कलत्रं प्रामोति बन्धमथ दक्षिण-
सिन्धुराजः ॥२८३॥ जलौकयोपमीयन्ते प्रमदा मन्दबुद्धिभिः ।
मृगीदृशा जलाकाना विचारान्महदन्तरम् ॥ २८४ ॥
जलौका केवलं रक्तमाददाना तपस्विनाम् । प्रमदा सर्वमा-
दत्ते वित्तं वित्तं बल सुखम् ॥ २८५ ॥ कुलं वृत्तं च शौर्य
च सर्वमेतन्न गण्यते । दुर्वृत्तेऽप्यकुलीनेऽपि जनो दातरि
रज्यते ॥ २८६ ॥ दाता लघुरपि सेव्यो भवति न कृपणो
महानपि समृद्ध्या । कूपोऽन्तःस्वादुजलः प्रीत्यै लोकस्य न
समुद्रः ॥ २८७ ॥ निःश्वासोदीर्णहुतभुग्भूधूम्रीकृताननैः ।
वरमाशीविषैः सङ्गं कुर्यान्न त्वेव दुर्जनैः ॥ २८८ ॥ किं रुद्धः
प्रियया कयाचिदथ वा सख्या ममोद्वेजितः किं वा कारण-
गौरवं किमपि यन्नाद्यागतो वल्लभः । इत्यालोच्य मृगीदृशा
करतले विन्यस्य वक्त्राम्बुजं दीर्घं निःश्वसितं चिरं च रुदितं
शिक्षाश्च पुष्पस्रजः ॥ २८९ ॥ कालिदासकविता नवं वयो
माहिषं दधि सशर्करं पयः । ऐणमासमबला च कोमला
सम्भवन्तु मम जन्मजन्मनि ॥ २९० ॥ उपायो न जयो
यादृग्विप्रोस्तादृश हेतिभिः । उपायज्ञोऽल्पकायोऽपि न शूरैः
परिभूयते ॥ २९१ ॥ आगतं विग्रहं विद्वानुपायैः प्रशमं
नयेत् । विजयस्य ह्यनित्यत्वादभ्रसेन न सपतेत् ॥ २९२ ॥
नैतद्विचित्रं मनुजार्थमाधिनः परावराणा परमस्य वेधसः ॥
अधोऽपि यत्स्पर्शनधौतपातकः प्राप्तार्मसाम्य त्वसता
सुदुर्लभम् ॥ २९३ ॥ ये बालभावान्न पठन्ति विद्या ये
यौवनस्था ह्यधनात्मदाराः ॥ ते शोचनीया इह जीव-
लोके मनुष्यरूपेण मृगाश्चरन्ति ॥ २९४ ॥ दमेन हीनं न
पुनन्ति वेदा यद्यप्यधीताः सह षड्भिरङ्गैः ॥ साङ्ख्यं च
योगश्च कुलं च जन्म तीर्थाभिषेकश्च निरर्थकानि ॥२९५॥
कालो दैवं कर्म जीवः स्वभावो द्रव्यं क्षेत्रं प्राण आत्मा
विकारः ॥ तत्सङ्घातो बीजरोहप्रवाहस्त्वन्मायैषा तन्निषेधः
प्रपद्ये ॥ २९६ ॥ शत्रोरपत्यानि प्रियंवदानि नोपेक्षितव्यानि
बुधैर्मनुष्यैः ॥ तान्येव कालेषु विपत्कराणि विषस्य पात्राण्यपि
दारुणानि ॥ २९७ ॥ ऋतेन जीवेदवृतेन जीन्मिवृतेन
जीवेत्प्रमितेन जीवेत् ॥ सत्यानृताभ्यामथवापि जीवेत्
श्ववृत्तिमेका परिवर्जयेत्तु ॥ २९८ ॥ अक्रोधनः क्रोधनेभ्यो
विशिष्टस्तथा तितिक्षुरतितिक्षोर्विशिष्टः ॥ अमानुषेभ्यो
मानुषश्च प्रधानो विद्वांस्तथैवाविदुषः प्रधानः ॥ २९९ ॥
नास्तीदृश सवनन त्रिषु लोकेषु किञ्चन ॥ यथा मैत्री
च लोकेषु दान च मधुरा च वाक् ॥ ३०० ॥ न
तथा तप्यते विद्धः पुमान्बाणै. सुमर्मगै. ॥ यथा तुदन्ति
मर्मस्था हृसता परुषेषवः ॥ ३०१ ॥ शूरस्त्वयुक्ता
मृदुमन्दवाक्या जितेन्द्रियाः सत्यपराक्रमाश्च ॥ प्रागेव
पश्चाद्विपरीतरूपा ये ते तु भृत्या न हिता भवन्ति ॥३०२॥
यस्यात्मबुद्धिः कुणपे त्रिधातुके स्वधीः कलत्रादिषु
भौम इज्यधीः ॥ यत्तीर्थबुद्धिः सलिले न कर्हिचिज्जनेष्व-
भिज्ञेषु स एव गोखरः ॥ ३०३ ॥ कं योजयेन्मनुजोऽर्थं
लभेत निपातयन्नहृद्ददर्श हि गर्ते ॥ एव नराणा विषयस्पृहा
च निपातयन्निरये त्वन्धकूपे ॥ ३०४ ॥ कृत्यं किमत्रास्य
खलस्य जीवन न वा अमीषा च सता विहिसनम् ॥ द्वयं
कथं स्यादिति संविचिन्त्य तज्ज्ञात्वाऽविशत्तुण्डमशेषदग्धहरिः
॥ ३०५ ॥ लोक. स्वयं श्रेयसि नष्टदृष्टिर्योऽर्थान्समीहेत
निकामकामः । अन्योऽन्यवैरः सुखलेशहेतोरनन्तदुःखं न च
वेद मूढः ॥ ३०६ ॥ सत्या क्षितौ किं कशिपॊ. प्रयासैर्बाहौ
स्वसिद्धे ह्युपबर्हणैः किम् ॥ सत्यञ्जलौ कि पुरुधाऽऽन्नपात्र्या