सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 397, कुल 516 में से
संदर्भ में पढ़ें| ३८२ | सुभाषितरत्नभाण्डागारम् | [ ७ प्रकरणम् |
|---|
पक्षस्य नित्यशः । ततः सहायास्तत्पक्षान्सर्व्वांच्च तदनन्तरम् ॥ १९२ ॥ अन्योच्छिष्टेषु पात्रेषु भुक्तवैतेषु महीभुजः । कस्मान्न लज्जामवहन् शौचे चिन्ता न वा दधुः ॥ १९३ ॥ अन्यो धनं प्रेतगतस्य भुङ्क्ते वयांसि चाग्निश्च शरीरधातून् । द्वाभ्यामयं गच्छत्यमुत्र पुण्येन पापेन च वेष्ट्यमानः ॥१९४॥ चलस्वभावा दुःसेव्या दुर्ग्राह्या भावतस्तथा । प्राज्ञस्य पुरुषस्येह यथा वाचस्तथा श्रियः ॥ १९५ ॥ अन्योऽन्य- समुत्पम्भादन्योन्यापाश्रयेण च । ज्ञातयः संप्रवर्धन्ते सरसीवोत्पलान्युत ॥ १९६ ॥ अन्यो हि नाश्नाति कृतं हि कर्म मनुष्यलोके मनुजस्य कश्चित् । यत्तेन किंचिद्धि कृतं हि कर्म तदश्नुते नास्ति कृतस्य नाशः ॥ १९७ ॥ उद्योगेन विना नैव कार्यं किमपि सिध्यति । नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥ १९८ ॥ अपकारिणि विश्रम्य यः करोति नराधमः । अनाथो दुर्बलो यद्वन्न चिरं स तु जीवति ॥ १९९ ॥ लोभादेव नरा मूढा धनविद्यान्विता अपि ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें