सामग्री पर जाएँ
सर्वकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 391, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 391
३७६सुभाषितरत्नभाण्डागारम्[ ६ प्रकरणम्

र्जेन्मन्यस्मिन्ननुभवपथं यो न गतवान् । विवेकप्रध्वंसादुपचित-
महामोहगहनो विकारः कोऽप्यन्तर्जडयति च तापं च
कुरुते ॥ २४७ ॥ विशीर्णः प्रारम्भो वपुरपि जराच्याधि-
विधुरं गतं दूरे विप्रखजनभरणं वाञ्छितमपि । इदानीं
व्यामोहादहह विपरीते हतविधौ विधेयं यत्तत्त्वं स्फुरति
मम नाद्यापि हृदये ॥ २४८ ॥ शुचा पात्रं धात्री परिणति-
रमेध्यप्रचयभूरयं भूतावासो विमृश कियती याति न दशाम् ।
तदस्मिन्धीराणा क्षणमपि किमास्थातुमुचितं खलीकार-
कोऽयं यदहमहमेवेति रभसः ॥ २४९ ॥ यद्वा पूर्व नासी-
दुपरि च तथा नैव भविता तदा मध्यावस्थाक्षणपरिचयो
मूतनिचयः । अतः संयोगेऽस्मिन्परिणतिवियोगे च सहजे
किमाधारः प्रेमा किमधिकरणाः सन्तु च शुचः ॥ २५० ॥
स्थिरापायः कायः प्रणयिषु सुखं स्थैर्यविमुखं महाभोगा
रोगाः कुवलयदृशः सर्पसदृशः । महावेशः क्लेशः प्रकृति-
चपला श्रीरपि खला यमः खैरी वैरी तदपि न हितं कर्म
विहितम् ॥ २५१ ॥ विवेकः कि सोऽपि स्वरसजनिता
यत्र न कृपा स कि योगो यस्मिन्न भवति परानुग्रहरसः ।
स कि धर्मो यत्र स्फुरति न परद्रोग्धुविरतिः कृतं किं तद्वा
स्यादुपशमफलं यन्न भवति ॥ २५२ ॥ दिवसरजनीकूल-
च्छेदैः पतद्भिरनारतं वहति निकटे कालस्रोतः समस्त-
भयावहम् । इह हि पतता नास्त्यालम्बो न चापि निवर्तनं
तदिह महता कोऽयं मोहो यदेष मदाविलः ॥ २५३ ॥
माने म्लायिनि खण्डिते च वसुनि व्यर्थ प्रयातेऽर्थिनि क्षीणे
बन्धुजने गते परिजने नष्टे शनैयौवने । युक्तं केवलमेत-
देव सुधिया यज्जहुकन्यापयःपूतग्रावगिरीन्द्रकन्दरदरीकुञ्जे
निवासः क्वचित् ॥ २५४ ॥ अद्वैतोक्तिपटून्बहूनपि वयं
बालान्ममस्कुर्महे ये तु द्वैन्द्ववदास्तदीयशिरसि न्यस्याम वामं
पदम् । सिंहः स्वीयशिशोर्निवेश्य हृदये सान्द्रादरादामृश-
त्यावेशेन भिनत्ति सभ्रमपदं मत्तेभकुम्भस्थलम् ॥ २५५ ॥
क्लेशत्यागकृतेऽर्पितेन करणव्यूहेन देहेन च स्वानर्थं बत | जन्तुरर्जयति चेन्मेन्तुर्नियैन्तुः कुतः । शस्त्रे शत्रुजयाय
नैजगुरुणादत्तेऽथ तेनैव चेत्पुत्रो हन्ति निजं वपुः कथय
रे तत्रापराधी तु कः ॥ २५६ ॥ बीभत्सा प्रतिभान्ति कि
न विषयाः किं तु स्पृहायुष्मती देहस्यापचयो मृतौ
निविशते गाढो गृहेषु ग्रहः । ब्रह्मोपास्ममिति स्फुरत्यपि
हृदि व्यावर्तिका वासना का नामेयमतर्क्यहेतुगहना दैवी
सता यातना ॥ २५७ ॥ नाथे श्रीपुरुषोत्तमे त्रिजगता-
मेकाधिपे चेतसा सेव्ये स्वस्य पदस्य दातरि सुरे
नारायणे तिष्ठति । यं कंचित्पुरुषाधमं कतिपयग्रामेशमल्पा-
र्थदं सेवायै मृगयामहे नरमहो मूढा वराका वयम्
॥ २५८ ॥ रेतःशोणितयोरियं परिणतिर्यदूर्ध्वं तत्रामव-
न्मूत्रोरास्पदमाश्रयो गुरुशुचा रोगस्य विश्रामभूः । जान-
न्नप्यवशी विवेकविरहान्मज्जन्नविद्याम्बुधौ शृङ्गारीयति पुत्र-
काम्यति बत क्षेत्रीयति क्षीयति ॥ २५९ ॥ इन्द्रस्यानुचि-
शूकरस्य च सुखे दुःखे च नास्त्यन्तरं स्वेच्छाकल्पनया
तयोः खलु सुधा विष्ठा च काम्याशनम् । रम्भा चाशुचि-
शूक्री च परमप्रेमास्पदं मृत्युतः सत्रासोऽपि समः स्वकर्म-
गतिमिश्रान्योन्द्यभावः सम ॥ २६० ॥ अर्थप्राणविनाश-
संशयकरी प्राप्यापदं दुस्तरा प्रत्यासन्नभयं न वेत्ति विभवं
खं जीवितं काङ्क्षति । उत्तीर्णस्तु ततो धनार्थमपरा भूयो
विशत्यापदं प्राणाना च धनस्य चाधमधियामन्योन्यभावः
पणः ॥ २६१ ॥ अग्रे कस्यचिदस्ति कंचिदमितः केनापि
पृष्टे कृतः ससारः शिशुभावयौवनजराभारावतारादयम् ।
बालस्तं बहु मन्यतामसुलभं प्राप्तं युवा सेवता वृद्धस्त्वं विष-
याद्वहिष्कृत इव व्यावृत्त्य किं पश्यसि ॥२६२ ॥ येषा
श्रीमद्यशोदासुतपदकमले नास्ति भक्तिर्नराणा येषामभीर-
कन्याप्रियगुणकथने नानुरक्ता रसज्ञा । येषा श्रीकृष्णली-
लाललितगुणरसे सादरौ नैव कर्णौ धिक्तान्धिकतान्धिगेतान्
कथयति सतत कीर्तनस्थो मृदङ्गः ॥ २६३ ॥


१ द्वैतवादिन
१ अपराध
२ परमेश्वरस्य

इति श्रीसुभाषितरत्नभाण्डागारे षष्ठं नवरसप्रकरणं समाप्तम् ।