सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 372, कुल 516 में से
संदर्भ में पढ़ेंअष्टनायिकाः ३५७
बद्धं दृढं मेखला यत्नेन प्रतिपादिता मुखरयोर्मञ्जीरयो-
र्मूकता । आरब्धे रभसान्मया प्रियसखि क्रीडाभिसारोत्सवे
चण्डालस्तिमिरवगुण्ठनपटक्षेपं विधत्ते विधुः ॥ ३० ॥ एषा
फुल्लकदम्बनीपसुरभौ काले घनोद्भासिते कान्तास्यालयमागता
समदना दृष्टा जलाद्रीलका । विद्युद्वारिदगर्जिते मचकिता
त्वद्दर्शनाकाङ्क्षिणी पादौ नूपुरलग्नकर्दमधरौ प्रक्षालयन्ती
स्थिता ॥ ३१ ॥ मार्गे पङ्कचिते घनान्धतमसे निःशब्द-
सञ्चारया गन्तव्या च मया प्रियस्य वसतिर्मुग्धेति कृत्वा
मतिम् । आजानुद्रुतनूनपुरा करतलेनाच्छाद्य नेत्रे भृशं कृच्छ्रे-
णास्पदस्थितिः स्वभवने पन्थानमभ्यस्यति ॥ ३२ ॥
छिद्रान्वेषणतत्पर. प्रियसखि प्रायेण लोकोऽधुना रात्रिश्वापि
घनान्धकारबहुला गन्तुं न ते युज्यते । मा भैष सखि
वल्लभ. प्रियतमस्तत्सोत्सुका दर्शने युक्तायुक्तविचारणा यदि
भवेत्स्नेहाय दत्त जलम् ॥ ३३ ॥ दूती विद्युदुपागता सह-
चरी रात्रिः सहश्यायिनी दैवज्ञो दिशति स्वनेन जलदः
प्रस्थानवेला शुभाम् । वाचं माङ्गलिकी तनोति तिमिरस्तोमो-
ऽपि झिल्लीरवैर्जातोऽय दयिताभिसारसमयो मुग्धे विमुञ्च
त्रपाम् ॥ ३४ ॥ द्वित्रै. केलिसरोरुहं त्रिचतुरैर्धम्मिल्लमल्ली-
स्रज कण्ठान्मौक्तिकमालिका च तदनु त्यक्त्वा पदै. पञ्चभि. ।
अन्तः कान्तवियोगकातरतया दूराभिसारातुरा तन्वङ्गी
निरुपायमध्वनि पर श्रोणीभर निन्दति ॥ ३५ ॥ आत.
प्राणगणप्रयाणसमये प्राणाधिनाथस्य मे कुर्या. स्थैर्यमपि
क्षणं करुणया कण्ठश्लेषेऽपि स्थित. । यावल्लोचननीर-
निर्मितनदीवन्याभिरन्यादृशं पन्थानं परिकल्पयामि भविता
येनावयोर्वाञ्छितम् ॥ ३६ ॥ कान्ते कत्यपि वासराणि
गमय त्व मीलयित्वा दृशौ सत्यं नाथ निमीलयामि नयने
यावन्न शून्या दृश । आयाता वयमा गमिष्यसि सुहृद्वर्गस्य
भाग्योदयैः संदेश वद कस्तवाभिलषितस्तीर्थेषु तोयाञ्जलि.
॥ ३७ ॥ उद्दामाम्बुदवर्धितान्धतमसि प्रन्नष्टदिङ्मण्डले
काले यामिकजाग्रदुग्रसुभटव्याकीर्णकोलाहले । कर्णस्यासु-
हृदार्णवाम्बुवडवावह्नेर्यदन्तःपुरादायातासि तदम्बुजाक्षि
कृतकं मन्ये भयं योषिताम् ॥ ३८ ॥ पद्मीनामधिपस्य पङ्कज-
दृशा पर्वोत्सवामन्त्रणे जाते सन्नजना मिथः कृतमहोत्साह
पुरः प्रस्थिताः । सव्याजं स्थितयोर्विहस्य गतयो शुद्धान्त-
मत्रान्तरे यूनोः स्विन्नकपोलयोर्विजयते कोऽप्येष कण्ठग्रह.
॥ ३९ ॥ लोलचोलचमत्कृति प्रविलसत्काञ्चीलताझंकृति
न्यञ्चत्कञ्चुकबन्धबन्धुरचलद्वक्षोजकुम्भोन्नति । स्फूर्जद्दीधिति
विस्फुरद्रति चलच्चामीकरालंकृति क्रीडाकुञ्जगृहं प्रयाति
कृतिनः कस्यापि वाराङ्गना ॥ ४० ॥
कलहान्तरित
द्वारि चक्षुर्गधिपाणि कपोलौ जीवितं त्वयि कुत' कल-
होऽस्या. । कामिनामिति वचः पुनरुक्तं प्रीतये नवनवत्व-
मियाय ॥४१॥ चकितहरिणलोललोचनाया कृधि तरुणारुण-
तारहाग्कान्ति । सरसिजमिदमाननन च तस्या. मममिति
चेतसि समदं विवत्ते ॥ ४२ ॥ विरमति कथन विना न खेद.
सति कथने समुपैति कापि लज्जा । इति कलहमवोन्मुखी
सखिभ्यो लपितुमलनाल्पितुं समाचकाङ्क्ष ॥ ४३ ॥ अनुनयति
र्पति न लज्जमाना कथयति नापि सखीजनाय किंचित् ।
प्रसरति मलयानिले नवोढा वहति परंतु चिराय शून्यमन्त.
॥ ४४ ॥ प्रयच्छतोच्चै. कुसुमानि मानिनी विपक्षगोत्र दयितेन
लम्भिता । न किंचिदूचे चरणेन केवलं लिखेख बाष्पाकुल-
लोचना भुवम् ॥ ४५ ॥ न बरीभरीति कबरीभरे स्रजो न
चरीकरीति मृगनाभिचित्रकम् । विजर्गिहरीति न पुरेव मत्पुरो
विवरीवरीति न च विप्रिय प्रिया ॥ ४६ ॥ तत्तद्गदलपि
यथावसर हस्तप्यपालिङ्जनेऽपि न निषेधति चुम्बनेऽपि । कि
तु प्रमादनमयादपि निह्नुतेन कोपेन कोऽपि विहितोऽद्य रसा-
वतारः ॥ ४७ ॥ न तिर्यगवलोकित भवति चक्षुरालोहित
वचोऽपि परुषाक्षर न च पदेषु सगच्छते । हिमार्क इव
वेपते सकल एव विम्बाधर प्रकार्मविनते भ्रुवौ युगपदेव
भेदं गते ॥ ४८ ॥ मय्यायाते सपदि नयनादुत्थितं चाटु
वाक्य बद्धा पाणी बहु निगदितं क्षालितं पादपद्मम् । दत्त्वा
वीटी सविनयमथोद्गीजितं तालवृन्तैर्भूते कोपं कुवलयदृशो
भूयसी भक्तिरेव ॥ ४९ ॥ चरणपतनप्रत्याख्यानात्मसाद-
पराङ्मुखे निभृतकितवाचारेत्युक्त्वा रुषा परुषीकृते । व्रजति
रमणे निःश्वसोच्चै. स्तनस्थितहस्तया नयनसलिलच्छन्ना
दृष्टिः सखीषु निवेशिता ॥ ५० ॥ स्फुटतु हृदयं काम.
कामं करोतु तनुं तनुं न सखि चतुलप्रेम्णा कार्य पुनर्दाय-
तेन मे । इति सरभस मानोप्रेकादुदीर्य वचस्तया रमण-
पदवी सारङ्गाक्ष्या ससभ्रममीक्षिता ॥ ५१ ॥ पय.पीठं दत्ते
त्वरितमभिधत्ते न च वच. समाज्ञामाधत्ते शिरसि न
विधत्ते च मिलनम् । इति स्वान्ते गोपायितनिबिडकोषा
प्रतिपद कृशोदर्याश्चर्या प्रियमहह पर्याकुलयति ॥ ५२ ॥
पुरस्तन्या गोत्रस्खलनचकितोऽहं नतमुख. प्रवृत्तो वैलक्ष्या-
त्किमपि लिखितु दैवहतक. । स्फुटो रेखान्यास. कथमपि
स तादृक्परिणतो गता येन व्यक्ति पुनरवयवै. सैव तरुणी
॥ ५३ ॥ ततश्वाभिज्ञाय स्फुरदरुणगण्डस्थलरुचा मन-
स्विन्त्या रोषप्रणयरभसाद्गद्गदगिरा । अहो चित्रं चित्रं स्फुट-
मिति निगद्याशुकलुष रुषा ब्रह्मास्त्रं मे शिरसि निहितो वाम-
चरण. ॥ ५४ ॥ चल चेत. पुंसा सहजसरला. पङ्कजदृशो