सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 369, कुल 516 में से
संदर्भ में पढ़ें३५४ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
अङ्गानां शतयातना नयनयोः कोऽपि क्रमो भैरवः
कुम्भीपाकपराभवश्च मनसो युक्तं मयि प्रस्थिते ॥ ५७ ॥
नारीणां खलु बन्धुरन्धतमस पाथोधरः सोदरः कुञ्जं नाभिमृहं
निशा सहचरी सेव्यः खरः क्ष्मापतिः । इत्थं चारुचकोर-
चञ्चलदृशा यासा मतिर्जायते तासामेव यशः सुधाशुधवलं
तासां च सौख्यं सदा ॥ ५८ ॥ हंसैः शैवलमञ्जरीति कबरी
चञ्चूभिराकर्षिता वक्रे चन्द्रधिया चकोरवनिता चक्रे नखै-
रक्रमम् । भृङ्गैः पङ्कजकोरकप्रतिमया वक्षोरुहो वीक्षितस्त-
न्मातः करवै पुनर्न सरसीतोयावगाहोद्यमम् ॥ ५९ ॥
आस्तां विश्रसनं सखीषु विदिताभिप्रायसारे जने तत्राप्य-
र्पयितुं दृशं सुरुचिरा शक्नोमि न व्रीडया । लोकोऽप्येष
परोपहासकुशलः सूक्ष्मेङ्गितज्ञोऽप्यलं मातः कं शरणं
व्रजामि हृदये जीर्णोऽनुरागानलः ॥ ६० ॥ कार्येणापि विल-
म्बनं परगृहे श्वश्रूर्न समन्यते शङ्कामर्चयन्ति यूनि भवनं
प्राप्ते मिथो यातरः । वीथीनिर्गमनेऽपि तर्जयति च क्रुद्धा
ननान्दा पुनः कष्टं हन्त मृगीदृशा पतिगृहे प्रायेण कारा-
गृहम् ॥ ६१ ॥ एकान्ते बत नो गृहं शशिसुखोऽप्यन्या-
दृशो दृश्यते क्षिप्रं साधय यातु पुत्रित्स दिने मुक्तान्यमावा-
सकम् । श्वश्र्वा संभ्रमिता किलेति बहुशः संप्रैरयन्त्या वधूः
पान्थं वीक्ष्य बभञ्ज सस्मितमुखी सैवार्धसिद्धौदनम् ॥ ६२ ॥
एते वारिकणाः किरन्ति पुरुषान्वर्षन्ति नाम्भोधराः शैलाः
शाद्वलमुद्वमन्ति न सृजन्त्येते पुनर्नायकान् । त्रैलोक्ये
तरवः फलानि सुवते नैवारभन्ते जनान्चातः कातरमाल-
पामि कुलटाहेतोस्त्वया कि कृतम् ॥ ६३ ॥ सपत्नक्स्याद्य
तारा भवति तरलिता यत्पुरो नेत्रतारा दृष्टा केनाद्य काञ्ची
यदमिसुखगता वेपते रत्नकाञ्ची । उग्रः कस्याद्य तुष्टः सखि
यदनुमते कश्चिदुत्ग्रोऽनुतापः ज्ञातं केनाद्य वेणीपयसि
विलुलिता यत्कृते कापि वेणी ॥ ६४ ॥ पश्यन्ति स्निग्धमुग्धं
प्रतिकलमधुरैर्मोहयन्त्यङ्गहारैः साकूतैर्मन्दहासैरपि पर-
पुरुषान् शश्वदानन्दयन्ति । चेष्टन्ते चेत एते किमपि
परिचयाद्धारयिष्यन्ति तेषा प्राणान्को वेद लोके परजलज-
दृशा चित्तमत्यन्तलोलम् ॥ ६५ ॥ पृथ्वी तावत्रिकोणा
विपुलनदनदीग्रावरुद्धं तदर्थं तत्राप्यर्थे युवत्यः शिशुगत-
वयसो रोगिणो योगिनश्च । त्याज्यास्तत्रापि मान्याः श्वशुर-
पितृमुखाः सन्ति शेषाः कियन्तो मिथ्यावादो ममायं
मुखरमुखरवः पुंश्चली पुंश्चलीति ॥ ६६ ॥
पान्थसंकेतः
ग्रामेऽस्मिन्नस्तरप्राये न ^१किंचित्पान्थ विद्यते । पयोधरो-
न्नतिं दृष्ट्वा वस्तुमिच्छासि चेद्वस ॥ ६७ ॥ पान्थ
मन्दमते किंचा सतापमनुविन्दसि । पयोधरं सैमा-
शास्व येन शान्तिमवाप्नुयात् ॥ ६८ ॥ वीक्षितुं न क्षमा श्वश्रूः
स्वामी दूरतरं गतः । अहमेकाकिनी बाला तवेह वसतिः
कुतः ॥ ६९ ॥ त्वमिव पथिक ^३प्रियो मे विर्ट्पिस्तोमेषु
गमयति क्लेशान् । किमितोऽन्यत्कुशलं मे सप्रति यत्पान्थ
जीवामि ॥ ७० ॥ किमिति कृशासि कृशोदरि किं तव
परकीयवृत्तान्तैः । कथय तथापि सुँदे मम कथयिष्यति
पान्थ तव जाया ॥ ७१ ॥ यदि गन्तासि दिगन्तं पथिक
पतिस्तत्र सबोध्यः । नयनश्रवणविहीना कथमुपचर्या मयै-
कया जननी ॥ ७२ ॥ निबिडतभतमालमल्लिवल्लीविचकिल-
राजिविराजितोपकण्ठे । पथिक समुचितस्तवार्थ तीत्रे सवि-
तरि तत्र सरित्तटे निवासः ॥ ७३ ॥ ^५भो पान्थ पुस्तकधर
क्षणमत्र तिष्ठ वैद्योऽसि किं गणितशास्त्रविशारदोऽसि । केनौ-
षधेन मम पश्यति भर्तुरम्बा किं वागमिष्यति पतिः सुचिर-
प्रवासी ॥ ७४ ॥ एकाकिनी यदबला तरुणी तथाहमस्मिन्
गृहे गृहपतिश्च गतो विदेशे । कं याचसे तदिह वासमिर्थ
वराकी श्वश्रूर्नमान्धबधिरा ननु मूढ पान्थ ॥ ७५ ॥ रथ्या-
रजोरुणितधूसरिताङ्गयष्टेः कच्चित्पितुः स्मरसि पुत्रक नि-
र्घृणस्य । उक्त्वैवमङ्कगतयायतमायताक्ष्या पान्थस्त्रिया प्ररुदितं
करुणं दिनान्ते ॥ ७६ ॥ भवनमिव मदीय निर्जनं पान्थ
पन्थाः कुसुमशर इवासिस्तस्करा दुर्निवारः । गृँहप इव
पँतङ्गोऽप्येष यातो दिगन्तान्मदनसुभग भूयो नैव गन्तुं
समीहे ॥ ७७ ॥ अहमिह दिनलक्ष्मीः प्रोषितप्राणनाथा
त्वमिव पथिक पन्था मुक्तपान्थानुबन्धः । अयमपि परदेशः
सोऽपि यत्रासि गन्ता मदनमधुरमूर्ते किं वृथा सत्वरोऽसि
॥ ७८ ॥ यामिन्येषा बहलजलदैर्बँद्धैर्भीमान्धकारा निद्रा
यातो मम पतिरसौ क्लेशितः ^११कैर्मदुःखैः । बाला चाहं मैनै-
सिजभयात्त्रासगाढप्रकम्पा ग्रामश्चौरैरयमपहृतः पान्थ निद्रा
जहीहि ॥ ७९ ॥ कुत्रायासीः किमिवमकरोः साहस
पान्थ बन्धो यद्येतस्मिन्निवससि पुरे सावधानस्तदा स्याः ।
अत्रोत्तालाः कतिचिदबलाः सन्ति यासा विलासैरूत्पद्यन्ते
सपदि मदनव्याधयो दुर्निवाराः ॥ ८० ॥ इयं सुरैतरं-
गिणी न पुनरत्र नौसँर्गमो भवेत्तरैंणिमज्जनं पथिक नैव
१ पाषाणबहुले, पक्षे,-पाषाणतुल्ये २ आस्तरणादिकम्, पक्षे,-समागमप्रतिबन्धकम् ३ मेघानामुन्नति पर्जन्यागमसङ्केत इति यावत्; पक्षे,-स्तनयोरुन्नतिः .
१ मेघम्, पक्षे,-स्तनम् २ सम्यक्प्रार्थना कुरु ३ कान्त ४ वृक्षस मूहेषु ५ दृषांय ६ कश्चे पुस्तकधारिण पान्थ प्रति कस्याश्चित्कामिन्या स्वभिप्रायद्योतकोक्ति औषधप्रश्नेन श्वश्र्वा अन्धत्व सूचितम् प्रोषि- तस्य पत्यु कदागमन भविष्यतीति प्रश्नेन सोऽपि गृहे नास्तीति सूचितम् ७ गृहस्वामी ८ सूर्य ९ रात्रि १० भयकरगाढान्धकारा ११ कर्मजन्यैर्दुः खै श्रान्त इत्यर्थ १२ उक्तहेतुभिर्मनसि जात यद्भय तस्मात्, पक्षे,-कामभयात् १३ सुराणा तरगिणी नदी, पक्षे,-सुरतरञ्जनशीला १४ नौसगमः नौकाप्राप्ति, पक्षे,-आवयो समागम १५ तरणि सूर्य, पक्षे,-नौका