सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 367, कुल 516 में से
संदर्भ में पढ़ें३५२ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
नक्तं च कुलटा यतः ॥ २ ॥ पर्यङ्कः स्वास्तरणः पतिरनुकूलो मनोहरं सदनम् । तृणमिव लघु मन्यन्ते कामिन्यश्चौर्यरतिलुब्धाः ॥ ३ ॥ दुर्दिवसे घनतिमिरे दुःसंचारासु नगरवीथीषु । पत्युर्विदेशगमने परमसुखं जघनचपलायाः ॥ ४ ॥ इह वटवृक्षे यक्षः प्रतिवसति दिवापि यत्र भयशङ्का । तस्मिन्नभिनववध्वा नीता वीतोद्यमाः क्षणदाः ॥ ५ ॥ सुखशय्या ताम्बूलं विश्रब्धाश्लेषचुम्बनादीनि । तुलयन्ति न लक्षांशं त्वरितक्षणचौर्यसुरतस्य ॥ ६ ॥ दिवसे घटिकास्त्रिंशन्निश्रिाद्घटिकाः परं रजनौ । लक्ष्यं नगरयुवानस्तात विघातः किमाचरितम् ॥ ७ ॥ आरोपिता शिलायामइमेव त्वं भवेति मन्त्रेण । मन्नापि परिणयापदि जारमुखं वीक्ष्य हसितैव ॥ ८ ॥ कुलपतनं जनगर्हा बन्धनमपि जीवितस्य संदेहम् । अङ्गीकरोति सकलं वनिता परपुरुषसक्ता ॥ ९ ॥ सखि सुखयत्यवकाशे प्राप्तः प्रेयान् यथा तथा न गृहे । वाताद्वारितादपि भवति गवाक्षानिलः शीतः ॥ १० ॥ द्वारि स्तम्भविलग्ना प्रियसखि दृष्टिं पथि क्षिपसि । प्रहिणोषि भाग्यभाजि
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें