सामग्री पर जाएँ
सर्वकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 359, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 359

३४४ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्

हंसः

तटमुपगतं पद्मे पद्मे निवेशितमाननं प्रतिपुटकिनीपत्र-
च्छाया मुहुर्मुहुरासितम् । मुहुरुपगतैरसैः कोष्णीकृता जल-
वीचयो जलदमलिना हंसेनाशा विलोक्य पिपासता ॥ ११२ ॥

शरद्वर्णनम्

अहो बाणस्य संधानं शरदि खरभूपतेः । अपि सोऽयं
द्विषामीशः कन्याराशिसुपागतः ॥ १ ॥ अपीतक्षीरैकाद-
म्बमसमुष्टामलाम्बरम् । अप्रसादितसूक्ष्माम्बु जगदासीन्म-
नोरमम् ॥ २ ॥ अथोपगूढे शरदा शशाङ्के प्रावृड्वधौ
शान्ततडित्कटाक्षा । कासां न सौभाग्यगुणोऽङ्गनानां नष्टः
परिभ्रष्टपयोधराणाम् ॥ ३ ॥

शरत्समयस्वभावाख्यानम्

दर्शयन्ति शरन्नद्यः पुलिनानि शनैः शनैः । नवसंगम-
सव्रीडा जघनानीव योषितः ॥ ४ ॥ एकेन चुलुकेनाब्धि-
र्निपीतः कुम्भजेन यत् । तस्योदयेऽन्तःकालुष्यं त्यजन्त्यापो
भयादिव ॥ ५ ॥ पाथोजजालजटिलं मलिनं शरदङ्गना ।
अम्बरं धावयामास चन्द्रिकाचयवारिभिः ॥ ६ ॥ धन्याः
शरदि सेवन्ते प्रोल्लसच्चित्रशालिकान् । प्रासादांस्त्रीसखाः
पौराः केदारांश्च कृषीवलाः ॥ ७ ॥ नमिताः फलभारेण
न मिताः शालिमञ्जरीः । केदारेषु हि पश्यन्तः के दारेषु
विनिःस्पृहाः ॥ ८ ॥ हंसश्चन्द्र इवाभाति जलं व्योमतलं
यथा । विमलाः कुमुदानीव तारकाः शरदागमे ॥ ९ ॥
राजीवमिव राजीवं जलं जलमिवाजनि । चन्द्रश्चन्द्र
इवातन्द्रः शरत्समुदयोद्यमे ॥ १० ॥ काशाः क्षीरनिकाशा
दधिशरवर्णानि सप्तपर्णानि । नवनीतनिभश्चन्द्रः शरदि
च तक्रप्रभा ज्योत्स्ना ॥ ११ ॥ द्वयमिदमत्यन्तसमं
नीचे प्रभविष्णुता शरच्चेयम् । क्षेत्रेभ्यः प्राप्य फलं खलेषु
निक्षिप्यते यस्याम् ॥ १२ ॥ अथ प्रसन्नेन्दुमुखी सिताम्बरा
समाययावुत्पलपत्रलोचना । सपङ्कजा श्रीरिव गां निषेवितुं
सहंसबालव्यजना शरद्वधूः ॥ १३ ॥ समुल्लसत्पङ्कजलोचनेन
विनोदयन्ती तरूणानशेषान् । शुद्धाम्बरा गुप्तपयोधरश्रीः
शरन्नवोढेव समाजगाम ॥ १४ ॥ पयोदकेशेषु विकृष्य
रोषान्निष्कास्य सा कोकनदायताक्षी । वर्षावधूं स्वां
श्रियमुन्नयन्ती प्रौढा सपत्नीव शरच्चकाशे ॥ १५ ॥ चन्द्रायते
शुक्लरुचापि हंसो हसायते चारुगतेन कान्ता । कान्तायते
स्पर्शसुखेन वारि वारीयते स्वच्छतया विहायः ॥ १६ ॥
ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्धनानाई्रनखक्षताभम् ।
प्रमोदयन्ती सकलङ्कमिन्दुं तापं रवेरम्यधिकं चकार ॥ १७ ॥
उपैति सस्यं परिणामरम्यतां नदीरनौद्धत्यमपङ्कतां महीम् ।
नवैर्गुणैः संप्रति संस्तवस्थिरं तिरोहितं प्रेम घनागमश्रियः
॥ १८ ॥ पतन्ति नास्मिन्विशदाः पतत्रिणो धृतेन्द्रचापा
न पयोदपङ्क्तयः । तथापि पुष्णाति नभः श्रियं परां न
रम्यमाहार्यमपेक्षते गुणम् ॥ १९ ॥ विपाण्डुभिर्म्लानतया
पयोधरैश्च्युताचिराभा गुणहेमदामभिः । इयं कदम्बानिल-
भर्तुरत्यये न दिग्वधुना कृशता न राजते ॥ २० ॥ विहाय
वाञ्छांमुदिते मदालत्यादरक्तकण्ठस्य रुते शिखण्डिनः ।
श्रुतिः श्रयत्युन्मदहंसनिःस्वनं गुणाः प्रियत्वेऽधिकृता न
सत्त्ववः ॥ २१ ॥ अमी पृथुस्तम्बभृतः पिशङ्कतां गता
विपाकेन फलस्य शालयः । विकासि वप्राम्भसि गन्धसूचितं
नमन्ति निद्रातुमिवावसोत्पलम् ॥ २२ ॥ विहारभूमेरभि-
घोषमुत्सुकाः शरीरजेभ्यश्च्युतयूथपङ्क्तयः । असक्तमूर्धासि
पयः क्षरन्त्यमूरुपायनानीव नयन्ति धेनवः ॥ २३ ॥
जगत्प्रसूतिर्जगदेकपावनी व्रजोपकण्ठं तनयैरुपेषुषी । द्युतिं
समग्रां समितिगवामसावुपैति मन्त्रैरिव सहिताहुतिः ॥ २४ ॥
कृतावधानं जितबर्हिणध्वनौ सुरक्तगोपीजनगीतनिःस्वने ।
इदं जिघत्सामपहाय भूयसीं न ससमभ्येति मृगीकदम्बकम्
॥ २५ ॥ असावनास्थापरयावधीरिताः सरोरुहिण्या शिरसा
नमन्नपि । उपैति शुष्यन्कलमः सहाम्भसा मनोभुवा
तप्त इवाभिपाण्डुताम् ॥ २६ ॥ अमी समुद्भूतसरोज-
रेणुना हृता हृतासारकणेन वायुना । उपागमे दुश्चरिता
इवापदां गतिं न निश्चेतुमलं शिलीमुखाः ॥ २७ ॥
मुखैरसौ विद्रुमभङ्गरोहितैः शिखाः पिशङ्गीः कमलस्य
बिभ्रती । शुकावलिर्व्यक्तशिरीषकोमलां धनुः श्रियं गोत्रभिदो-
ऽनुगच्छति ॥ २८ ॥ ददतमन्तरिताहिमदीधिति खगकुलाय
कुलायनिलायिताम् । जलदकालमबोधकृतं दिशामपरथाप
रथायववायुधः ॥ २९ ॥ स विक्षवोत्पलचक्षुषमैक्षत
क्षितिभृतोऽङ्कगता दयितामिव । शरदगच्छगलद्धसनोपमा-
क्षमघनामघनाशनकीर्तनः ॥ ३० ॥ जगति नैशमशीतकरः
करैर्विगतिं वारिदवृन्दमयं तमः । जलजराजिषु नैद्रमदिद्रवेश्च
महतामहताः क्व च नारयः ॥ ३१ ॥ समय एव करोति बला-
बलं प्रणिगदन्त इतीव शरीरिणाम् । शरदि हंसखा परुषी-
कृतस्वरमयूरमयूरमणीयताम् ॥ ३२ ॥ तनूरुहाणि पुरोजित-
ध्वनेर्घवलपक्षविहङ्गमकूजितैः । जगलुरक्षमयेव शिखण्डिनः
परिभवोऽरिभवो हि सुदुःसहः ॥ ३३ ॥ अनुवनं वनराजि-
वधुमुखे बहलरागजवाधरचारुणी । विकचबाणदलावलयो-
ऽधिकं रुरुचिरे रुचिरेक्षणविभ्रमाः ॥ ३४ ॥ कनकभङ्गपिशङ्ग-
दलैर्दधे सरजसारुणकेसरचारुभिः । प्रियविमानितमानवती-
रुषा निरसनै रसनैरवृथार्थता ॥ ३५ ॥ मुखसरोजरुचं मद-
पाटलामनुचकार चकोरदृशा यतः । धृतनवातपमुत्सुकनामतो


१ मत्तम् २ आकाराम्, पक्षे,-वस्त्रम्

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह) · पृष्ठ 359, कुल 516 में से · SarvaKosh