सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 351, कुल 516 में से
संदर्भ में पढ़ें३३६ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
निदधिरे दयितोरसि तत्क्षणस्नपनवारितुषारभृतस्तनाः। सरस-
चन्दनरेणुरनुक्षणं विचकरे न करेण वगेरुभिः ॥ १२ ॥
कथमिव तत्र समतिर्भवित्री सममृतुभिर्मुनिनावधीरितस्य ।
इति विरचितमल्लिकाविकास. स्मयत इव स्म मधुं निदाघ-
कालः ॥ १३ ॥ बलवदपि बलं मिथोविरोधि प्रभवति नैव
विपक्षनिर्जयाय । भुवनपरिभवी न यत्तदानी तमृतुगणः क्षण-
सुन्मनीचकार ॥ १४ ॥ अपि शिशिरतरोपचारयोग्य द्वितय-
मिद युगपन्न सङ्गमेव । जरठितरविदीधितिश्च कालो दयित-
जनेन सम च विप्रयोगः ॥ १५ ॥ तप्ता महीं विरहिणा-
मिव चित्तवृत्तिस्तृष्णाधवेषु कृपणेण्विव वृद्धिमेति । सूर्य-
करैर्दहति दुर्वचनै. खलो नु छाया सतीव न विमुञ्चति पाद-
मूलम् ॥ १६ ॥ छाया वियोगिजनितेव गता कृशत्वं तप्तं
पय. पिशुनमानसवद्वभूव । केनाधुना बत मनागवलोकनीयः
कुद्धोत्तमर्णमुखमण्डलवत्यतङ्ग. ॥ १७ ॥ रिक्तेषु वारि
कथया विपिनोदरेषु मध्याह्नजृम्भितमहातपतापतप्ताः ।
स्कन्धान्तरोत्थितदवाग्निशिखाच्छलेन जिह्वा प्रसार्य तरवो
जलमर्थयन्ते ॥ १८ ॥ सुखकृतबिसखण्डखण्डमार्तण्डतापा-
त्सितजलजलतल्थो राजते राजहंसः । रजतघट इवाय
विद्रुमाबद्धधाराविवरविगलदम्बुः कम्बुकण्ठि प्रतीहि ॥ १९ ॥
रजनिचरमयामेष्यादिशन्ती रतेच्छा किमपि कठिनयन्ती
नालिकेरीफलाम्भः । अपि परिणमयित्री राजरम्भाफलाना
दिनपरिणतिभोग्या वर्तते ग्रीष्मलक्ष्मीः ॥ २० ॥ निजा
कायच्छाया श्रयति महिषः कर्दमधिया च्युतं गुञ्जापुञ्जं रुधिर-
मिति काक. कलयति । समुत्सर्पन्सर्पः सुशिरविवर ताप-
विवशः सचीत्कारारधूतं प्रविशति कर कुञ्जरपते. ॥२१॥ तदा-
त्वस्नाताना दरदलितमल्लीमुकुलिता• सजो बिभ्राणाना मलय-
जरसार्द्रीर्द्रवपुषाम् । निदाघामिप्लोषप्लपितमभिसार्य मृगदृशा
परिष्वङ्गोऽनङ्गं पुनरपि शनैरङ्कुरयति ॥ २२ ॥ जलाद्री
शष्पाणा बिसकिसलयैः केलिवलयाः शिरीषैरुत्तंसा विचकिल-
मयी हाररचना । शुचावेणाक्षीणा मलयजरसार्द्रीश्च तनवो
विना तन्त्रं मन्त्रं रतिरमणमृत्युंजयविधिः ॥ २३ ॥ हरन्ति
हृदयानि यच्छ्रवणशीतला वेणवो यदर्दर्ति केरम्बिता
शिशिरवायुना वारुणी । भवन्ति च हिमोपमाः स्तनभवो यदे-
णीदृशो रुचेरुपरि संस्थितो रतिपतेः प्रसादो गुरुः ॥ २४ ॥
मूलं बालकवीरुधा सुरभयो जातीतरूणा त्वचः सारश्चन्दन-
शाखिना किसलयान्यार्द्राण्यशोकस्य च । शैरीषी कुसुमो-
न्नति. परिणमन्मोचश्च सोऽयं गणो ग्रीष्मेणोष्महर. पुरा
किल ददे दग्धाय पञ्चेषवे ॥ २५ ॥ अङ्गारैः खचितेव
भूर्वियदपि ज्वालाकराल करैस्तिग्माशोः किरतीव तीव्रम-
भितो वायुः कुकूलानलम् । अप्यम्भांसि नखंपचानि सरि-
तामाशा ज्वलन्तीव च ग्रीष्मेऽस्मिन्नवहिद्विदीपितमिवाशेष
जगद्वर्तते ॥ २६ ॥ पाश्चात्यैर्मरुमारुतैस्त्रिजगतामुन्मूलयन्ना-
र्द्रता दावाग्निर्ज्वलितैरपारगहानान्यप्यानयन्भस्मसाम् । वात्या-
भिस्तुणपत्रधूलिनिकरान्धुन्वन्विहाय स्थले ग्रीष्म. शुष्य-
दपुच्छपल्वललुठन्मत्स्य. समभ्यागत. ॥ २७ ॥ अत्यच्छं
सितमंशुकं शुचि मधु क्षामोदमच्छं रज. कर्पूर विधृतार्द्र-
चन्दनकुचद्वन्द्वा. कुरङ्गीदृश. । धारावेश्म सपाटलं विचकिल-
स्रग्दाम चन्द्रत्विषो धातः सुस्थिरियं वृथैव तव न ग्रीष्मो-
ऽभविष्यद्यदि ॥ २८ ॥ माकन्दद्रुममञजरीषु वसतिस्तत्पल्लवै-
र्वर्तनं सा नो मञ्जुलता वच.सु मधुना सर्व सह प्रस्थितम् ।
एतत्तिष्ठतु दु श्रवं मृदुदृदा निःस्वामिनस्तत्सखे प्रोन्मीलत्क-
रुणो द्विजोऽयमिति हि त्वं ग्रीष्म मुष्णासि न. ॥२९॥ कानि
स्थानानि दग्धान्यतिशयगहनाः सन्ति के वा प्रदेशा. किं वा
शेषं वनस्य स्थितमिति पवनासङ्गविस्पष्टतेजाः । चण्डज्वाला-
वलीढस्फुटिततनुलाग्रन्थिमुक्ताट्टहासो दावाग्नि. । शुष्कवृक्षे
शिखरिणि गहनेऽधिष्ठित. पश्यतीव ॥ ३० ॥ बाले मालेय-
मुच्चैर्न भवति गगनव्यापिनी नीरदाना कि त्व पक्ष्मान्तवान्तैर्र्म-
लिनयसि सुधा वक्रमश्रुप्रवाहैः । एषा प्रोद्धृत्तमत्तद्विपकटंकष-
णक्षुण्णविन्ध्योफ्लाना दावाग्ने. सप्रवृद्धा मलिनयति दिशा
मण्डलं धूमलेखा ॥३१॥ स्फीतं शीतं गतं क्व क्व शिशिरकि-
रणः क्कास्ति हेमन्तमासः कैते पानीयपूर्णा मलिनजलधरा. क्वाच
विद्युत्प्रमोदः । इत्युच्चैर्जल्पमानैरिव मुखरमुखैर्भिह्नितैरुपेतो
वातौघश्वागतोऽसौ प्रकटितविजयस्तम्भचिह्नौर्निदाघः ॥ ३२ ॥
मध्याह्नः
एष सूर्याशुसतप्तो मृगः कुतरुमाश्रितः । साधुर्माग्यपरि-
क्षी णो नीचं प्राप्येव सीदति ॥ ३३ ॥ मध्याह्ने नूनमापो-
ऽपि तिग्मतापोपशान्तये । दधुः कमलिनीपत्रमानपत्रमिवोपरि
॥ ३४ ॥ दुःसहसंतापभयात्सप्रति मध्यस्थिते दिवसनाथे ।
छायामिव वाञ्छन्ती छायापि गता तहतलानि ॥ ३५ ॥
रवेर्मयूखैरभितापितो भृश विदह्यमानः पथि तप्तपांसुभि. ।
अवाक्फणो जिह्मगतिः श्वसन्मुहुः फणी मयूरस्य तले निषी-
दति ॥३६॥ अस्मद्रिपूणामनिलाशनाना दत्तो निवासः खलु
चन्दनेन । इतीव रोषाद्यजनस्य वायुर्व्यशोषयच्चन्दनमङ्गसस्थम्
॥३७॥ स्पृशति तिग्ममचौ ककुभ. करैरदयितयेव विजृम्भितता-
पया । अतनुमानपरिग्रहया स्थित रुचिरया चिरयायिदिनश्रिया
॥३८॥ तरुणतरणितेज.पुञ्जसतसंदेह पतति जरठखङ्ग. पल्वले
पङ्कलेहे । हरिरपि सलिलार्थी शङ्कया तस्य नीरं न पिबति
न च याति क्षिस्यति प्राप्य तीरम् ॥ ३९ ॥ किरति मिहिरे
विष्वग्द्रीचः करानतियामनी स्थलकमठवद्देहच्छाया जनस्य
विचेष्टते । गजपतिमुखोद्धीणैराप्ये रथ त्रसरेणुभि. रशिरम-
१ दुर्जनान्त करणवत् २ संमिश्रिता