सामग्री पर जाएँ
सर्वकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 347, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 347
३३२सुभाषितरत्नभाण्डागारम्[ ६ प्रकरणम्

हिमम् ॥ ३८ ॥ अभिनयान्यरचेतुमिवोद्यता मलयमारुत-
कम्पितपल्लवा । अमदयन्महकारलता मनः सकलिका कलिका-
भजितामपि ॥ ३९ ॥ नयगुणोपचितामिव भूपतेः सदु-
पकारफलां श्रियमर्थिनः । अभियायुः सरसो मधुसभृतां
कमलिनीमलिनीरपतत्रिणः ॥ ४० ॥ कुसुममेव न केवल-
मार्तवं नवमशोकतरोः स्मरदीपनम् । किसलयप्रसवोऽपि
विलासिनां मदयिता दयिताश्रवणार्पितः ॥ ४१ ॥ विर-
चिता मधुनोपवनश्रियामभिनवा इव पत्रविशेषकाः । मधु-
लिहा मधुदानविशारदा कुरबका रवकारणतां ययुः
॥ ४२ ॥ सुवदनावदनासवसंभृतस्तदनुवादिगुणः कुसुमो-
द्गमः । मधुकरैरकरोन्मधुलोलुपैर्बकुलमाकुलमायतपङ्क्तिभिः
॥ ४३ ॥ प्रथममन्यभृताभिरुदीरिताः प्रविरला इव मुग्ध-
वधूकथाः । सुरभिगन्धिषु शुश्रुविरे गिरः कुसुमितासु मिता
वनराजिषु ॥ ४४ ॥ श्रुतिसुखभ्रमरस्वनगीतयः कुसुम-
कोमलदन्तरुचो बभुः । उपवानन्तलताः पवनाहृतैः किसलयैः
सलयैरिव पाणिभिः ॥ ४५ ॥ ललितविभ्रमबन्धविचक्षणं
सुरभिगन्धपराजितकेसरम् । पतिषु निर्विविशुर्मधुमङ्गनाः
स्मरसखं रसखण्डनवजितम् ॥ ४६ ॥ शुशुभिरे स्मित-
चारुतराननाः स्त्रिय इव श्लथशिञ्जितमेखलाः । विकचतामरसा
गृहदीर्घिका मदकलोदकलोलविहंगमाः ॥ ४७ ॥ उपययौ
तनुतां मधुखण्डिता हिमकरोदयपाण्डुमुखच्छविः । सदृश-
मिससमागमनिवृतिं वनितयाऽनितया रजनीवधूः ॥ ४८ ॥
अपतुषारतया विशदप्रभैः सुरतसङ्गपरिश्रमनोदिभिः । कुसुम-
चापमतेजयदंशुभिर्हिमकरो मकरोजितकेतनम् ॥ ४९ ॥
हुतहुताशनदीप्ति वनश्रियः प्रतिनिधिः कनकाभरणस्य यत् ।
युवतयः कुसुमं दधुराहितं तदलके दलकेसरपेशलम्
॥ ५० ॥ अलिभिरञ्जनबिन्दुमनोहरैः कुसुमपङ्क्तिनिपातिभि-
रङ्कितः । न खलु शोभयति स्म वनस्थलीं न तिलकं
तिलकः प्रमदामिव ॥ ५१ ॥ अमदयन्मधुगन्धसनाथा
किसलयाधरसंततया मनः । कुसुमसंभृतया नवमल्लिका
स्मितरुचा तरुचारुविलासिनी ॥ ५२ ॥ अरुणरागनिषेधिभि-
रंशुकैः श्रवणलब्धपदैश्च यवाङ्कुरैः । परभृताविरुतैश्च विला-
सिनः स्मरबलैरबलैकरसाः कृताः ॥ ५३ ॥ उपचितावयवा
शुचिभिः कणैरलिकदम्बकयोगमुपेयुषी । सदृशकान्तिरलक्ष्यत
मञ्जरी तिलकजालकजालकमौक्तिकैः ॥ ५४ ॥ ध्वजपटं
मदनस्य धनुर्भृतश्छविकरं सुखचूर्णमृगुश्रियः । कुसुमकेसर-
रेणुमणिप्रजा सपवनोपवनोत्थितमन्वयुः ॥ ५५ ॥ अनुभव-
न्नवदोलमृतूत्सवं पदुरपि प्रियकण्ठजिघृक्षया । अनयदामन-
रज्ज्वपरिग्रहे भुजलतां जलतामबलाजनः ॥५६॥ त्यजत मानमलं
बत विग्रहैर्न पुनरेति गतं चतुरं वयः । परभृताभिरितीव | निवेदिते स्मरमते रमते स्म वधूजनः ॥ ५७ ॥ नवपलाश-
पलाशवनं पुरः स्फुटपरागपरागतपङ्कजम् । मृदुलतान्त-
लतान्तमलोकयत्त सुरभिं सुरभिं सुमनोभरैः ॥ ५८ ॥
विलुलितालकसंहतिरागमन्मृगदृशां श्रमवारि ललाटजम् ।
तनुतरङ्गततिः सरसां दलत्कुवलयं वलयन्मरुदाववौ
॥ ५९ ॥ स्फुटमिवोज्ज्वलकाञ्चनकान्तिभिर्युतमशोक मशोभत
चम्पकैः । विरहिणां हृदयस्य भिदाभृतः कणिशितं पिशितं
मदनाग्निना ॥ ६० ॥ स्मरहुताशनसंसुरचूर्णतां दधुरिवाग्र-
वणस्य रजःकणाः । निपतिताः परितः पथिकव्रजानुपरि ते
परितपुस्तनुतो भृशम् ॥ ६१॥ रतिपतिप्रहितेव कृतक्रुधां प्रियतमेव
वधूरनुनार्थिका । बकुलपुष्परसासवपेशलध्वनिरगान्नििरगा-
न्मधुपावलिः ॥ ६२ ॥ प्रियसखीमदशः प्रतिबोधिताः किमपि
काम्यगिरा परपुष्टया । प्रियतमाय वपुर्गुरुमत्सरच्छिदुरयादु-
रयाचितमङ्गनाः ॥ ६३ ॥ मधुकरैरपवादकरैरिव स्मृतिभुवः
पथिका हरिणा इव । कलतया वचसः परिवादिनीस्वर-
जिता रजिता वशमाययुः ॥ ६४ ॥ समभिसृत्य रगादव-
लम्बितं प्रमदया कुसुमावविचीषया । अवनमन्न रराज
वृथोच्चकैरनृतया नृतया वनपादपः ॥ ६५॥ वदनसौरभलोभ-
परिभ्रमद्भ्रमरसभृतसभृतशोभया । चलितया विदधे कल-
मेखलाकलकलोऽलकलोलदृगान्नया ॥ ६६ ॥ कुसुमकार्मुक-
कार्मुकसहितद्रुतशिलिमुखखण्डितविग्रहाः । मरणमप्यपराः
प्रतिपेदिरे किमु सुहृत्सुसुहृद्गतभर्तृकाः ॥ ६७ ॥ मधुरया
मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया । मधुकरराङ्ग-
नया मुहुरुन्मदध्वनिभृता निभृताक्षरसुजगरे ॥६८॥ अरुणि-
ताखिलशैलवना मुहुर्विदधती पथिकान्परितापिनः । विकच-
किंशुकसंहतिरुच्चकैरुदवहद्दवहद्वह्व्यवहश्रियम् ॥ ६९ ॥ कम-
लिनी मलिनी दयितं विना न सहते सह तेन निषेवितुम् ।
तमधुना मधुना निहितं हृदि स्मरति सा रतिसारमहर्निशम्
॥७०॥ सुहृदस्तरुणीनखक्षतानां प्रतिपक्षाः पथिकाङ्गनाजना-
नाम् । दहनद्युतिदस्यवः समन्ताद्विपिने किंशुककुङ्मला विरेजुः
॥ ७१ ॥ किंशुकक्षितिरुहा विलसन्तः कुङ्कमलाः कुटिलतां
कलयन्तः । पान्थवारणविदारणताम्राः कामकेसरिनखा
इव रेजुः ॥ ७२ ॥ प्रस्फुरत्प्रचुरबालपल्लवा वीरुधश्च तर-
लाश्चकाशिरे । क्रीडिता इव कुसुमभवारिभिः काममित्रसमये
समागते ॥७३॥ कूजितानि कल्यन्वनप्रियो न प्रियो विरहि-
णामजायत । मन्मथाग्निरपि भस्मना दरं सादरं मुनिमनो-
ऽम्बुजं व्यधात् ॥ ७४ ॥ बकुलकुलमिलन्मिलिन्दमालामद-
कलकोकिलकूजितोदयेन । अहह नियमिनोऽपि तत्त्वचि-
न्ताच्युतमतयो मतयोषितो बभूवुः ॥ ७५ ॥ कुसुमनग-
वनान्युपैतुकामा किसलयिनीमवलम्ब्य चूतयष्टिम् । कण-


१ तुषाभि
२ पुष्पावचय कर्तुमीषितया