सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 345, कुल 516 में से
संदर्भ में पढ़ें३३० सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
पादान्तः प्रत्याख्यानपराङ्मुख. प्रियतमो गन्तुं प्रवृत्तो-
ऽधुना । सन्नीडैररसैर्निरन्तरलुठद्बाष्पाकुलैर्लोचनैः श्वासोत्कम्प-
कुचं निरीक्ष्य सुचिरं जीवाशया वारित. ॥ २३ ॥
कान्तो यास्यति दूरदेशमिति मे चिन्ता परं जायते लोका-
नन्दकरो हि चन्द्रवदने वैरायते चन्द्रमा । किं चायं
वितनोति कोकिलकलालापो विलापोदय प्राणानेव हरन्ति
हन्त नितरामाराममन्दानिला. ॥ २४ ॥
सखीं प्रति नायिकावाक्यम्
व्यो नव्यं स्वान्तं विषयतरलं हन्त सततं प्रियो दूरे देशे
जनकनगरं दुर्लभतरम् । जनश्चायं दुष्टो भृशमिदमनर्थाय
सततं कथंकारं पारं कथय सखि यामोऽस्य वयस. ॥ १ ॥
आयाता जलदावली सरभसं विद्युत्समालङ्गिता शैलाना
परितः सशब्दमहिभुक्श्रेणी नरीनृत्यति । एवं सत्यपि हन्त
सप्रति पतिर्देशान्तरं प्रस्थितस्तद्दुःखं विनिवेद्यता सखि कथं
कस्याधुनाग्रे मया ॥ २ ॥
नायकं प्रति नायिकोक्तयः
गच्छ गच्छसि चेत्कान्त पन्थान. सन्तु ते शिवा. ।
ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् ॥ १ ॥ न चिरं
मम तोषाय तव यात्रा भविष्यति । यदि यास्यसि यातव्य-
मलमाशङ्कयापि ते ॥ २ ॥ सहिष्ये विरहं नाथ देहहृश्या-
शनं मम । यदक्तनेत्रा कन्दर्पः प्रहर्तुं मा न शक्ष्यति ॥ ३ ॥
प्राणेश विज्ञप्तिरियं मदीया तत्रैव नेया दिवसाः कियन्त. ।
सप्रत्ययोगव्यथितेरेष देश. करा हिमाशोरपि तापयन्ति
॥ ४ ॥ एतस्मिन्सहसा वसन्तसमये प्राणेश देशान्तरं
गन्तुं त्वं यतसे तथापि न भयं तापात्प्रपेद्येऽधुना । यस्मा-
त्कैरवसारसौरभमुषा साकं सरोवायुना चान्द्री दिक्षु विजृ-
म्भते रजनिषु स्वच्छा मयूखच्छटा ॥ ५ ॥ लोलैर्लोचन-
वारिभिश्च शपथैः पादप्रणामैः परैरन्यास्ता विनिवारयन्ति
कृपणा. प्राणेश्वर प्रस्थितम् । पुण्याहं व्रज मङ्गलं सुदिवसः
प्रातः प्रयात्यस्य यत्त्वत्स्नेहोचितमीहितं प्रिय मया त्वं निर्गतः
श्रोष्यसि ॥ ६ ॥ मास्वाश्रुततरुर्गुरुर्मनसिजः कोऽप्येष भृङ्ग-
स्तमो मन्दो गन्धवहः सितो मलयजो दोषाकरो माधव. ।
अङ्गारो नवपल्लवः परभृतो विज्ञो गुरोराज्ञया निर्यातोऽसि
विचारिताः कथममी क्रूरा ग्रहा न त्वया ॥ ७ ॥ मा
याहीत्यपमङ्गलं व्रज किल स्नेहेन शून्यं वचस्तिष्ठेति प्रभुता
यथारुचि कुरुष्वैषाप्युदासीनता । नो जीवामि विना त्वयेति
वचनं सम्भाव्यते वा न वा तन्मा शिक्षय नाथ यत्समु-
चितं वक्तुं त्वयि प्रस्थिते ॥ ८ ॥
१ मयूरपङ्क्ति २ स्वमरणससूचनेन गमननिषेधो गर्भीकृत
नायकं प्रति सखीवाक्यम्
किमिति सखे परदेशे गमयसि दिवसान्धनाशया लुब्धः ।
वर्षति मौक्तिकनिकरं तव भवनद्वारि काञ्चनी वल्ली ॥ १ ॥
या बिम्बोष्ठरुचि. क्व विद्रुममणिः स्वप्नेऽपि तां लब्धवान्
हासश्रीसदृशैस्तपोभिरपि किं मुक्ताफलैर्भूयते । तत्कान्तिः
शतशोऽपि वह्निपतनैर्हेम्न कुत. सेत्स्यति त्यक्त्वा रत्नमयीं
प्रयासि दयितां कस्मै धनायाधवन् ॥ २ ॥ उद्यद्वर्हिषि दुर्दि-
रारवपुषि प्रक्षीणपान्थायुषि श्र्योतद्दिङ्मुखि चन्द्ररुङ्मृषि सखे
हंसद्विषि प्रावृषि । मा मुञ्चोचकुचान्तसततगलद्बाष्पाकुला
बालिका काले कालकरालनीलजलदव्यालुप्तभाखत्विषि
॥ ३ ॥ मा गच्छ प्रमदाप्रिय प्रियशतैरभ्यर्थितस्त्वं मया
बाला प्राङ्गणमागतेन भवता प्राप्नोत्यवस्थां पराम् । किं
चास्याः कुचभारनिःसहतैरङ्गै रनङ्गाकुलैश्च्युत्वकञ्चुकजालकै-
रनुदिनं निःसूत्रमस्त्रद्वहम् ॥ ४ ॥
सखायं प्रति नायकोक्तिः
शेते शीतकरोऽम्बुजे कुवलयद्वन्द्वाद्दिनिर्गच्छति स्वच्छा
मौक्तिकसंहतिर्घवलिमा हैमीं लतामञ्चति । स्पर्शात्पङ्कज-
कोशयोरभिनवा यान्ति स्रजः क्तान्ततामेषोत्पातपरम्परा
मम सखे यात्रास्पृहा कृन्तति ॥ १ ॥
नायिकां प्रति सखीवाक्यम्
वारंवारमुदश्रु लोचनयुगं पर्याकुलं जायते निःश्वासा
विरमन्ति न क्षणममी व्याश्लिष्टदन्तच्छदाः । प्रस्थानश्रवणा-
दपि प्रियतमस्याहो तवेयं स्थितिर्नो जाने निलयं गते तु
दयिते कीदृग्दशामाप्स्यसि ॥ १ ॥
देशान्तरोपगतो नायकः
दिदृक्षमाणः क्षणमायताक्ष्या मुखाम्बुजं मञ्जुलमन्ध्व-
नीनः । मुहूर्तमात्रं सुमुहूर्तकालं संवर्षकालं कलयांचकार
॥ १ ॥ निशम्य केलीभवनोपकण्ठे मञ्जीरमञ्जुध्वनिमध्व-
नीन. । यथा तथा बद्धकथावशेषं समापयामास समं सुहृद्भिः
॥ २ ॥ मुखं प्रियायाः समुदीक्षमाण. कान्तो दिनस्या-
न्तमपेक्षमाणः । मुहुर्मुहुर्व्योमनि तिग्मभानौ निवेशयामास
विलोचने स्वे ॥ ३ ॥
वसन्तवर्णनम्
मधुपराजिपराजितमानिनीजनमनःसुमनःसुरभिश्रियम् ।
अभुत वारितवारिजविप्लव स्फुटितताम्रलतौम्रवनं जगत्
१ विस्तीर्णम्