सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 329, कुल 516 में से
संदर्भ में पढ़ें३१४ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
मूरुद्वयम् । रतिस्तव कलादती रुचिरचित्रलेखे भ्रुवावहो विबुधयौवनं वहसि तन्वि पृथ्वीगता ॥ ६६ ॥ दिनकरकराभृष्टं बिभ्रद्युति परिपाटला दशनकिरणैरुत्सर्षद्भिः स्फुटीकृतकेसरम् । अयि मुखमिदं मुग्धे सत्यं समं कमलेन ते मधु मधुकर, किं त्वेतत्स्निग्धन्न विभाव्यते ॥ ६७ ॥ बन्धूकद्युति बान्धवोऽयमधरः स्निग्धो मधूकच्छविर्गण्डे चण्डि चकास्ति नीलनलिनश्रीमोचनं लोचनम् । नासान्वेति तिलप्रसूनपदवीं कुन्दाभदन्ति प्रिये प्रायस्त्वन्मुखसेवया विजयते विश्वं स पुष्पायुधः ॥ ६८ ॥ केशाः संयमिनः श्रुतेरपि परं पारं गते लोचने हन्तर्वक्त्रमपि स्वभावशुचिभिः कीर्णं द्विजानां गणैः । मुक्तानां सततं निवास रुचिरं वक्षोजकुम्भद्वयं चेत्थं तन्वि वपुः प्रशान्तमपि ते रागं करोत्येव नः ॥ ६९ ॥ भ्रूचापे निहितः कटाक्षविशिखो निर्मातु मर्मव्यथां श्यामात्मा कुटिल करोतु कबरीभारोऽपि मारोद्यमम् । मोहं तावदयं च तन्वि तनुतां बिम्बाधरो रागवान्सङ्गतः
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें