सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 297, कुल 516 में से
संदर्भ में पढ़ें२८२ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
भूयः क्षिपन्ती मयि सितशबले लोचने लोलेतारे १। वक्रं ह्रीनेम्रीभवत् २ स्फुरदधरपुटं वाक्यगर्भं दधाना यन्मा नोवाच किञ्चित्स्थितमपि पुरतो मानसं तद्धुनोति ३ ॥ १२१ ॥ चक्षुःप्रीत्या निषण्णे मनसि परिचयाच्चिन्त्यमानेऽभ्युपाये याते रागे विवृद्धिं प्रविसरति गिरा विस्तरे दूतिकायाः । आस्तां दूरे स तावत्सरमसदथितालिङ्गनानन्दलाभस्तद्गेहोपान्तरथ्याभ्रमणमपि परा निर्वृतिं सन्तनोति ॥ १२२ ॥
मदनं प्रत्युक्तयः
स्वयमप्राप्तदुःखो यः स दुनोति न विस्मयः । त्वं स्मर प्राप्तदाहोऽपि दहसीति किमुच्यते ॥ १२३ ॥ भवनेत्रभवो वह्निग्द्यापि त्वयि मन्मथ । ज्वलतीवान्यथा किं ते विशिखास्तत्कणा इव ॥ १२४ ॥ अद्यापि नूनं हरकोपवह्निस्त्वयि ज्वलत्येर्व ४ इवाम्बुराशौ ५ । त्वमन्यथा मन्मथ मद्विधानां भस्मावशेषः कथमेवमुष्णः ॥ १२५ ॥ वृथैव सकल्पशतैरजस्रमनङ्ग नीतोऽसि मयातिवृद्धिम् । आकृष्य चापं श्रवणोपकण्ठे मय्येव युक्तस्तव बाणमोक्षः
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें