सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 294, कुल 516 में से
संदर्भ में पढ़ेंवियोगिनो विप्रलापाः २७९
मृगशावकाक्षीं पार्श्वे स्थिता च पुरतः परिवर्तमानाम् ।
पश्चात्तथा दशदिशासु परिस्फुरन्तीं पश्यामि तन्मयमहो
भुवनं किमेतत् ॥ ५२ ॥ अद्यापि तिष्ठति दृगोरिदमुत्तरीयं
धर्तुं पुरः स्तनतटात्पतितं प्रवृत्ता । वाचं निशम्य नयनं
नयनं ममेति किंचित्तदा यदकरोत्स्मितमायताक्षी ॥ ५३ ॥
राकासुधाकरमुखी तरलायताक्षी संखेरयौवनतरङ्गितविभ्र-
मास्या । तत्किं करोमि कथमत्र तनोमि मैत्रीं तत्स्वीकृति-
व्यतिकरे क इहाभ्युपायः ॥ ५४ ॥ यान्त्याः सरः सलिल-
केलिकुतूहलाय व्याजादुपैत्य मयि वर्त्मनि वर्तमाने ।
अन्तःस्थितद्युतिमत्कृतिकुद्वक्त्ररङ्गैरीकृतं किमपि वामदृशः
स्मरामि ॥ ५५ ॥ मन्दादरः कुसुमपत्रिषु पेलवेषु नूनं
बिभर्ति मदनः पवनास्त्रमद्य । हारप्रकाण्डसरलाः कथमम्य-
थामी श्वासाः प्रनर्तितदुकूलदशाः सरन्ति ॥ ५६ ॥ पीतो यतः-
प्रभृति कामपिपासितेन तस्या मयाधररसः प्रचुरः प्रियायाः ।
तृष्णा ततः प्रभृति मे द्विगुणत्वमेति लावण्यमस्ति बहु तत्र
किमप्यपूर्वम् ॥ ५७ ॥ अलसविलसितानामुल्लसद्भ्रूलतानां
मसृणमुकुलितानां प्रान्तविस्तारितानाम् । प्रतिनयननिपाते
किंचिदाकुञ्चितानां विविधमहमभूवं पात्रमालोकितानाम्
॥ ५८ ॥ अलसवलितमुग्धस्निग्धनिस्पन्दमन्दैरधिकविक-
सदन्तर्विस्मयस्मेरतारैः । हृदयमशरणं मे पक्ष्मलाक्ष्याः
कटाक्षैरपहृतमपविद्धं पीतमुन्मूलितं च ॥ ५९ ॥ क्रमशरू-
लितकण्ठप्रक्रमोल्लासितोरस्तर लितवलिलेखासूत्रसर्वस्वमस्याः ।
स्थितमतिचिरमुच्चैरग्रपादाङ्गुलीभिः करकलितसखीकं मा
दिवक्षोः स्मरामि ॥ ६० ॥ व्रीडायोगान्नतवदनया सन्नि-
धाने गुरूणां बद्धोत्कम्पस्तनकलशया मैन्युमन्तर्निगृह्य ।
तिष्ठेत्युक्तं किमिव न तया यत्समुत्सृज्य बाष्पं मय्यासक्त-
श्चकितहरिणीहारिनेत्रत्रिभागः ॥ ६१ ॥ बारवारं तिरयति
दृशोरुद्गमं बाष्पपूरस्तसंकल्पोपहितजडिम स्तम्भमभ्येति
•गात्रम् । सद्यः स्विद्यन्नयमविरतोत्कम्पलोलाङ्गुलीकः पाणि-
र्लेखाविधिषु नितरा वर्तते किं करोमि ॥ ६२ ॥ हा हा
देवि स्फुटति हृदयं संस्रते देहबन्धः शून्यं मन्ये जगद-
विरतज्वालमन्तर्ज्वलामि । सीदन्नन्चेतमसि विधुरो मज्ज-
तीवान्तरात्मा विष्वग्मोहः स्थगयति कथं मन्दभाग्यः करोमि
॥ ६३ ॥ ऊरू रम्भा दृगपि कमलं शेवलं केशपाशो वक्त्रं
चन्द्रो लपितममृतं मध्यदेशो मृणालम् । नाभिः कूपो वलि-
रपि सरित्पल्लवः किं च पाणिर्यस्याः सा चेदुरसि न कथं
हन्त तापस्य शान्तिः ॥ ६४ ॥ प्रासादे सा दिशि दिशि
च सा पृष्ठतः सा पुरः सा पर्यङ्के सा पथि पथि च सा
तद्वियोगातुरस्य । हंहो चेतः प्रकृतिरपरा नास्ति मे कापि
सा सा सा सा सा सा जगति सकले कोऽयमद्वैतवादः
॥ ६५ ॥ कुन्दं दन्तैर्मधु निगदितैः षट्पदं दृग्विलासैरेभि-
र्हासैरमृतलहरीं कुन्तलैरम्बुवाहम् । इन्दोर्बिम्बं वदनश-
शिना पङ्कजं च स्तनाभ्यां त्वं जित्वा तान्वससि
हृदये तेन मा विद्विषन्ति ॥ ६६ ॥ स्वप्ने दृष्ट्वा किमपि
पिशुनाशङ्कया नैव पृष्टा स्पृष्टा नीवी न खलु भवतः किङ्कि-
णीनिक्वणानाम् । आश्लेषाय स्पृहयति मयि द्राग्व्यरसीदसीमा
निद्रामुद्रा शिव शिव दृशोरदृशो दुर्विपाकः ॥ ६७ ॥ दलति
हृदयं गाढोद्वेगं द्विधा न तु भिद्यते वहति विकलः कायो
मोहं न मुञ्चति चेतनाम् । ज्वलयति तनूमन्तर्दाहः करोति
न भस्मसात्प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम्
॥ ६८ ॥ जगति जयिनस्ते ते भावा नवेन्दुकलादयः प्रकृ-
तिमधुराः सन्त्येवान्ये मनो मदयन्ति ये । मम तु यदिदं
याता लोके विलोचनचन्द्रिका नयनविषयं जन्मन्येकः स
एव महोत्सवः ॥ ६९ ॥ मयि सकपटं किंचित्क्वापि प्रणी-
तविलोचने किमपि नयनं प्रासे तिर्यग्विज़म्भिततारकम् ।
स्थितमुपगतामालीं दृष्ट्वा सलज्जमवाञ्चितं कुवलयदशः स्मेरं
स्मेरं स्मरामि तदाननम् ॥ ७० ॥ हृदयमिषुभिः काम-
स्यान्तः सशल्यमिदं सदा कथमपुलभे निद्रां स्वप्ने समागम-
कारिणीम् । न च सुवदनामालेख्येऽपि प्रियामसमाप्य तां
मम नयनयोरुद्वाष्पत्वं सखे न भविष्यति ॥ ७१ ॥ कुसुम-
शयनं न प्रत्यग्रं न चन्द्रमरीचयो न च मलयजं सर्वाङ्गीण
न वा मणियष्टयः । मनसिजरुजं सा वा दिव्या ममालम-
मोहितुं रहसि लघयेदारब्धा वा तदाश्रयिणी कथा ॥ ७२ ॥
ईंदमेशिशिरैरन्तस्तापाद्द्विवर्णमणीकृतं निशि निशि भुजन्य-
स्तापाङ्गप्रवर्तिभिरश्रुभिः । अनतिलुलितैरूज्याघाताङ्कं मुहुर्मणि-
बन्धनात्कनैकवलयं स्रस्तं स्रस्तं मया प्रतिसार्यते ॥ ७३ ॥
कदा कान्तागारे परिमलमिलत्पुष्पशयने शयानः श्यामायाः
कुचयुगमहं वक्षसि वहन् । अये स्निग्धे मुग्धे चपलनयने
चन्द्रवदने प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान्
॥ ७४ ॥ तया गाढं मुक्तो भुवि धनुषि सधाय निशितः
कटाक्षेषुर्नान्यैः सह पठनयोग्यः शरगणैः । पतन्गात्रे गात्रे
परममृतमाक्षौदिव तदा दवीयानद्यायं दलयति पुनर्न व्रण-
यति ॥ ७५ ॥ तदा मुग्धं वक्त्रं किसलयसखः सोऽधरमणि-
र्विशाले ते नेत्रे स्तनभरनता सा तनुलता । सलीलं तद्यातं
पाद-टिप्पणियाँ (Footnotes)
[वाम पृष्ठ]
१ लज्जा २ नम्रमुखत्वेन ३ क्रोधम् ४ रुद्धा
[दक्षिण पृष्ठ]
१ कनकवलयमित्यर्थ २ उष्णै, अश्रुभिरित्यनेन संबन्ध ३ अभ्य-
न्तरे विरहजन्यतापाह्वेतो ४ विवर्णा हीनवर्णा मणयो यस्मिन्नेवविध
कृतम् ५ नेत्रप्रान्त ६ मौर्वीघर्षणजन्य किण ७ सुवर्णकङ्कणम्
८ वारंवार गलितम्