सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 286, कुल 516 में से
संदर्भ में पढ़ेंसमग्रस्त्रीस्वरूपवर्णनम् २७१
तीर्थराजः ॥ ३० ॥ वेणी विडम्बयति मत्तमधुव्रतालीम-
ङ्गीकरोति गुणमैन्दवमाक्षमस्सा । बाहू मृणाललतिकाश्रिय-
माश्रयेते पुङ्खानुपुङ्खयति कामशरान्कटाक्षः ॥३१॥ बन्धूक-
बन्धुरधर सितकेतकाभ चक्षुर्मधूककलिकाप्रचुरः कपोलः ।
दन्नावली विजितडाडिमबीजजिगम्ये पुनर्विकचपङ्कज-
दत्तदास्यम् ॥ ३२ ॥ येनोत्पलानि च शशी च मृणालि-
काश्च रम्भालताश्च कमलानि च निर्मितानि । नूनं
स एव मृगशावदृशोऽपि वेधा सृष्टिकमो यदयमेकतया
चकास्ति ॥ ३३ ॥ मा रामणीयकनिधेरधिदेवता वा सौन्द-
र्यमारसमुदाय निकेतनं वा । तस्या सखे नियतमिन्दुसुधा-
मृणालज्योत्स्नादि कारणमभून्मदनश्च वेधाः ॥ ३४ ॥
राजीव जीवसि सुधा न सुधाकर त्वमस्याः समः पदनखस्य
कुतो मुखस्य । अग्रे दृशोर्मृगदृश कतमः कुरङ्गस्तत्खञ्जन-
त्वमपि कि जनरञ्जनाय ॥ ३५ ॥ सा दुग्धमुग्धमधुरच्छवि-
रञ्जयष्टिस्ते लोचने तरुणकेतकपत्रदीर्घे । कम्बुविडम्बन-
कण्ठश्च स एव कण्ठ सेवेयमिन्दुवदना मदनायुधं वा
॥ ३६ ॥ ऊरुद्वय मृगदृशः कदलीश्च काण्डौ मध्यं च वेदिर्-
तुल स्तनयुग्ममस्या । लावण्यवारिपरिपूरितशातकुम्भकुम्भौ
मनोजनृपतेरभिषेचनाय ॥ ३७ ॥ तन्वी शरन्त्रिपथगा-
पुलिने कपोलौ लोले दृशौ रुचिरचञ्चलखञ्जरीटौ । तद्धन्ध-
नाय सुचिरात्पितृसुश्रूचापचाण्डालपाशयुगलाविव शून्यकर्णौ
॥ ३८ ॥ व्याकोशकोकनदशोककरः करोऽयं खेल-
ञ्चकोरमयचोरमिदं च चक्षुः । उद्भिन्नविद्रुमरहसहरोऽ-
धरोऽयं तत्सादृश्यमपि वश्यमवश्यमस्याः ॥ ३९ ॥
मुख यदि किमिन्दुना यदि चलाञ्चले लोचने किमु-
त्पलकदम्बकैर्यदि तरङ्गभङ्गी भ्रुवौ । किमात्मभवधन्वना
यदि सुसायताः कुन्तलाः किमम्बुरुहडम्बरैयदि तनूरियं कि
श्रिया ॥ ४० ॥ इदं वक्त्रं साक्षाद्विरहितकलङ्कः शशधरः
•सुधाधाराधारश्चिरपरिणतं विम्बमधरः । इमे नेत्रे रात्रिदिव-
मधिकशोभे कुवलये तनुर्लावण्याना जलधिरवगाहे सुखतरः
॥ ४१ ॥ विनैवाम्भोवाह बहलरुचिदीप्ताम्बरलतात्तडिल्लेखा
हेमद्युतिविततिरम्या विलसति। विनैव स्वर्गङ्गा नभसि रमस-
व्यग्रशफरीपरीवर्ते सार्थ स्फुरति विकचेन्दीवरवनम् ॥४२॥
तमःस्तोमः पूर्वं तदनु सकलः शीतकिरणस्ततः कोकद्वन्द्वं
तदनु च न किञ्चित्पुनरभूत् । अधस्तस्यावर्तस्तदनु कदली-
काण्डयुगल ततोऽवाञ्चौ पद्मौ शिवशिव विधेः शिल्परचना
॥ ४३ ॥ पदाभ्यामुन्निद्रामधयति शोणाम्बुजरुचि कराभ्या-
मादत्ते नवकिसलयानामरुणताम् । प्रवालस्य च्छाया दशन-
वसनाग्रेण पिबति सितज्योत्स्नापूरैरुपहसति कान्ति हिमरुचेः
॥ ४४ ॥ बह्वल्यस्या दृष्टिविकचनवनीलोत्पलतुलामखण्ड-
स्यामिस्या वदनमिदमिन्दोः कलयति । कुचौ किञ्चिन्मी-
लत्कमलतुलना कन्दलयतस्तम शोभा चित्रा चिकुरनिकुरम्ब
हि कुरुते ॥ ४५ ॥ कर वेणीमेणीमदगणयना स्नानविग्नौ
ददाना हर्म्याग्रे हरनयनतेजोहुतमाप । अथ मुग्धा दुग्धा-
म्बुविवहलकलोलमदृशा दृशा वारंवार मनसिजतरु पल्लवयति
॥ ४६ ॥ दायादस्त्व मनसिजधनुर्धवलामस्य वंत्त योग-
क्षेमौ वहति नयनद्वन्द्वमिन्दीवगणाम् । तद्गात्राणा पुनरिह
जगज्जैत्रलावण्यभाजामामालंग्यं मरुवदखिल म्लानवर्णं
सुवर्णम् ॥ ४७ ॥ नीलाञ्जाना नयनयुगलद्राघिमा दत्तपत्रः
कुम्भावेमौ कुचपरिकर पूर्वपक्षीचकार । भ्रूविश्रान्तिर्मदन-
धनुषो विश्रमानन्ववादीद्वक्रज्योत्स्ना शशधररुच दूषयामाम
तन्या ॥ ४८ ॥ तन्वी श्यामा शिखरदशना पक्वबिम्बाध-
रोष्ठी मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः।
श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्या या तत्र
स्याद्युवतिविषये सृष्टिराद्येव धातु ॥ ४९ ॥ वापी कापि
स्फुरति गगने तत्पर सूक्ष्मपँद्या सोपोनालीमधिगतवती
काञ्चनीमैन्द्रनीली । अग्रे शैलौ सुंकृतिसुगमौ चन्दनच्छन्न-
देशौ तत्रत्याना सुलभममृतं सनिधानात्सुधाशोः ॥ ५० ॥
तद्वक्त्रं यदि मुद्रिता शशिकथा तच्चेत्स्मितं का सुधा तच्चक्षु-
र्यदि हारित कुवलयैस्ताश्चेद्गिरो धिग्धधु । धिकन्दर्पधनु-
र्भ्रुवौ यदि च ते कि वा बहु ब्रूमहे यत्सत्य पुनरुक्तवस्तु-
विरसः सर्गक्रमो वेधसः ॥ ५१ ॥ सौरभ्यं मृगलाञ्छने
यदि भवेदिन्दीवरे वक्रता माधुर्यं यदि विद्रुमे तरलता
कन्दर्पचापे यदि । रम्भाया यदि विप्रतीपगमनं प्राप्तोपमानं
तदा तद्वक्त्रं च तदीक्षणं तदधरस्तद्भूरूरुयुग्मं ॥ ५२ ॥
वेणीवेल्लनमङ्गगं किसु वलन्नेणीदृशो मध्य मं सव्यानं किमिदं
विवृत्तिविषमाद्भासः स्तनात्त्रसते । नृत्यन्तीव किमन्तिके
वलितयो स्निग्धा दृशोः कान्तयः साक्रतसितगर्भितं किसु
मुखं वक्तुं सखी वाञ्छति ॥ ५३ ॥ बाहू द्वौ च मृणाल-
मास्यकमल लावण्यलीलाजलं श्रोणीतीर्थशिला च नेत्रशफरी-
धम्मिल्लशैवालकम् । कान्ताया स्तनचक्रवाकयुगल
कन्दर्पबाणानलौर्दुग्धानाभवगाहनाय विधिना रम्यं सरो
निर्मितम् ॥ ५४ ॥ जिघ्रत्याननमिन्दुकान्तिरधर बिम्बप्रभा
चुम्बति स्पृष्टुं वाञ्छति चारुपद्ममकुलच्छायाविशेष. स्तनौ ।
लक्ष्मीः कोकनदस्य खेलति करावालम्ब्य कि चादरा-
१ तद्गम्भीरा नाभि २ सूक्ष्मंतया तदङ्गलक्ष्ये मध्ये ३ सरणि-स्तच्छायारोमावली ४ सोपानपङ्क्ति तत्सदृशी त्रिवलीम् ५ कुचौ. ६ पुण्यकृता सुगम्यौ, पक्षे,-सुलभगमनौ ७ चन्दनतरुभि, पक्षे,-चन्दनपङ्केन ८ बिसम् ९ मत्स्यी