सामग्री पर जाएँ
सर्वकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 275, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 275
२६०सुभाषितरत्नभाण्डागारम्[ ६ प्रकरणम्

चकितचकोरीकान्तिचौरं तदक्षि । त्रिभुवनयुवचेतोबन्ध-
संकेतहेतोः सहचरमिव कर्तुं पाशमाशङ्क्य याति ॥ ९६ ॥

कटाक्षः

यान्ती गुरुजने सार्धं त्रायमानमुखाम्बुजा । तिर्यग्ग्रीवं
यदद्राक्षीत्तन्निषेपत्राम्ररोजगत् ॥ ९७ ॥ क्वचित्कृष्णाऽर्जुनगुणा
क्वचित्कर्णान्तगामिनी । अपाङ्गश्रीस्तवाभाति सुभ्रूभारत-
गीरिव ॥ ९८ ॥ विशालाक्षीकटाक्षस्य साक्षी त्र्यक्षो
महेश्वर । नाद्यापि प्रकृतिं याति येन विद्धो दिगम्बरः
॥ ९९ ॥ यासा कटाक्षविशिखैः खरचौरैण ताडिताः ।
हृतचैतन्यसर्वस्वा मोहन्ते मुग्धकामुका ॥ १०० ॥ रे रे
घट्ट मा रोदी कं कं न भ्रामयन्त्यमू । कटाक्षवीक्षणादेव
कगकृष्टस्य का कथा ॥ १०१ ॥ हत्वा लोचनविशिखै-
र्गत्वा कतिचित्पदानि पद्माक्षी । जीवति युवा न वा कि भूयो
भूयो विलोकयति ॥ १०२ ॥ अस्याः कररुहखण्डित-
काण्डपटकटनिर्गता दृष्टि । पटविगलितनिःकलुषा स्वदते
पीयूषधारेव ॥ १०३ ॥ वसन्तनीलोत्पलषट्पदाना गीता-
मृतं श्रोतुमिवोत्तरङ्गो । नतध्रुवो लोचनकृष्णसारौ कर्णा-
न्तिकं सततमाश्रयेते ॥ १०४ ॥ नयनाञ्चलचञ्चरीकपूरो
वलतेऽयं यत एव पक्ष्मलाक्ष्याः । तत एव भवन्ति नील-
पद्मप्रकराणा ननु वृष्टयो नवीना ॥ १०५ ॥ यत्र यत्र वलते
शनैः शनैः सुध्रुवो नयनकोणविभ्रमः । तत्र तत्र शतपत्र-
धोरणी तोरणीभवति पुष्पधन्वनः ॥ १०६ ॥ भवनभुवि
सृजन्तस्तारहारावतारान्दिशि दिशि विकिरन्तः केतकाना
कुटुम्बम् । वियति च रचयन्तश्चन्द्रिका दुग्धसुधा प्रति-
नयननिपाताः सुभ्रुवो विभ्रमन्ति ॥ १०७ ॥ प्रणालीदीर्घस्य
प्रतिपदमपाङ्गस्य सुहृदः कटाक्षव्याक्षेपाः शिशुशरफालप्रति-
भुवः । सुवानाः सर्वस्वं कुसुमधनुषोऽस्मान्प्रति सखे नवं
नेत्राद्वैतं कुवलयदृशः संनिदधति ॥ १०८ ॥ दिनान्ते
म्लान्तीना कनककलशाकारकुचयोर्पर्यस्यन्तीना कमल-
कलिकाकोमलकरौ । समुद्यत्कालिन्दीतरलतरकल्लोलकुटिलः
कटाक्षः कान्ताना कमिह कमितार न कुरुते ॥ १०९ ॥
शिलासम्यग्धौतोज्ज्वलधवलधारापरिसरानिमानन्तश्यामानिव
विषमबाणस्य विशिखान् । दृढप्रज्ञावर्माप्यपि हृदयमर्माणि
रुजतः कटाक्षानेत्तस्या मुनिरपि न सोढुं प्रभवति ॥ ११० ॥
पिपासुरिव चञ्चलं विकटकर्णकूपाञ्जलं तत प्रतिचलन्मुहुः
श्रवणपाशभीतोऽभित । तनोति तरलाकृतिस्तरकलोचने
सततं गतागतकुतूहल मुहुुरपाङ्गरङ्गेस्त्व ॥ १११ ॥
सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणा लज्जा
तावद्विधत्ते विनयमपि समालम्बते तावदेव । भ्रूचापाकृष्ट-
मुक्ताः श्रवणपथजुषो नीलपक्ष्म्राण एते यावल्लीलावतीना
हृदि न धृतिमुषो दृष्ट्रिबाणा. पतन्ति ॥ ११२ ॥

अश्रूणि

अश्रुच्छलेन सुदृशो हुतपावकधूमकलुषाक्ष्याः । अप्राप्य
मानभङ्गे विगलति लावण्यवारिपूर इव ॥ ११३ ॥

नासा

पुराणबाणत्यागाय नूतनास्त्रकुतूहलात् । तन्नासा भाति
कामेन तूणीवाधोमुखीकृता ॥ ११४ ॥ दन्तालिदाडिमी-
बीजमक्षणोत्कण्ठचेतस । मन्ये मारशुकस्येयं नासा
चञ्चुर्विराजते ॥ ११५ ॥ नासादसीया तिलपुष्पपूर्णा
जगत्त्रयन्यस्तशरत्रयस्य । श्वासानिलामोदभरानुमेया दधद्वि-
बाणी कुसुमायुधस्य ॥ ११६ ॥ केचित्तिलस्य कुसुमं शुक-
चञ्चुमन्ये नासा वदन्ति कथयाम्यहमन्यदेव । सरक्षितो निज-
शरासनसन्निधाने कामेन केतकदलैककयो निषङ्गः ॥ ११७॥

नासाभूषणम्

नासामौक्तिकमबले किमधरबिम्बेन विद्रुमं कुरुषे ।
दृष्ट्वा गुञ्जाबीजं शिव शिव भूयस्तदेव हसितेन ॥ ११८ ॥
श्लेष्माद्वारे वसतिर्जातास्माकं तदत्र मा यात । आन्दो-
लनच्छलादिह निवारयन्तीव मौक्तिकानि विटान् ॥ ११९ ॥
सुधामयोऽपि क्षयरोगशान्त्यै नासाग्रमुक्ताफलकच्छलेन ।
अनङ्गसञ्जीवनदृष्टशक्तिर्मुखासृतं ते पिबतीव चन्द्रः
॥ १२० ॥ आकाशात्पतितं पुनर्जलनिधौ मध्ये
चिरं संस्थितं पश्चाद्दुःसहदेहरन्ध्रजनितक्लेशान्वितं मौक्ति-
कम् । बाले बालकुरङ्गलोचनयुगे घोर तपः सञ्चर-
न्नासाभूषणतामुपैति सखि ते बिम्बाधरापेक्षया ॥ १२१ ॥
अस्याः कामनिवासरण्यभवनं वक्रं विलोक्यादराञ्चिश्नोत्येव
सुधाकरं प्रियतमं भूमीगतं शोभनम् । नासामौक्तिककैतवेन
रुचिरा तारापि सा रोहिणी मन्ये तद्विरहासहिष्णुहृदया
तत्संनिधिं सेवते ॥ १२२ ॥

कर्णौ

सौन्दर्यपात्रे वक्रेन्दौ कुरङ्गसङ्गभीतया । सूचितौ
श्रोत्रपाशाभ्या पाशाविव मृगीदृशा ॥ १२३ ॥ कमनीयता-
निवासः कर्णस्तस्या विचित्रमणिभूषः । सविधप्रसूतरत्नं
शङ्कन्निधि दूरतरमकरोत् ॥ १२४ ॥ तालीदलं काञ्चन-
कर्णपाशौ प्रसारयन्ती सुतनु कराभ्याम् । रराज कर्णान्त-
निषण्णदृष्टिः शाणे दधानेव कटाक्षबाणान् ॥ १२५ ॥
वियोगबाष्पाञ्चितनेत्रपद्मच्छद्मान्वितोत्सर्गपयःप्रसूनौ । कर्णौ
किमस्या रतितत्पतिभ्या निवेद्यपूणै विधिशिल्पमीदृक्
॥ १२६ ॥ इहाविशद्येन पथातिवक्र, शङ्खोधनिष्चन्दरसप्र-
वाहः । सोऽस्याः श्रव.पन्नयुगे प्रणालीरेखेव धावत्यमिकर्ण-
कूपम् ॥ १२७ ॥ अस्या यदशदश सविभज्य विध्मः


१ व्यथयामास सपत्रनिष्पत्रादतिव्यथने २ बाणै ३ मृगविशेश
१ धैर्यहारिण २ घ्राणे ३ आन्दोलननिपात ४ जारान्