सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 259, कुल 516 में से
संदर्भ में पढ़ें२४४ सुभाषितरत्नभाण्डागारम् [ ५ प्रकरणम्
विकसति रात्रौ दिवा च कूष्माण्ड्याः । अलिकुलनिचये
रुचिर किं तु यशः कुमुदकमलयोरेव ॥ २११ ॥ उदित-
वति द्विजराजे कस्य न हृदये मुदं पदं धत्ते । सकुचसि
कमल यदयं हर हर वामो विधिर्भवत ॥ २१२ ॥ एते
हि गुणा पङ्कज मन्तोऽपि न ते प्रकाशमायान्ति । यल्लक्ष्मी-
वमतेस्तव मधुपैरुपजीव्यते कोशः ॥ २१३ ॥ पद्मिनि
किमिति क्रीडसि मधुपैर्जालञ्बोऽपि न हि किं ते । हर
हर विस्मृत्योक्तं क्व नु लज्जा सेवितुरक्तायाः ॥ २१४ ॥
किं कुप्यसि कमलेचन सौरभसाराय कुप्य निजमधुने ।
यस्य कृते शतपत्र प्रतिपत्रं तेऽद्य मृग्यते भ्रमरैः ॥ २१५ ॥
अयि मकरन्दस्यन्दिनि पद्मिनि मन्ये तवैव सुभगत्त्वम् ।
पुष्पवतीमपि भवतीं त्यजति न वृद्ध शुचिहंसः ॥ २१६ ॥
मधुप इव मारुतेऽस्मिन्मा सौरभलोभमम्बुजिनि मास्थाः ।
लोकानामेव मुदे महितोऽप्यात्मानुमार्थिता नीत ॥ २१७ ॥
न कुले वापि न शीले न वास्ति रूपेऽपि कश्चिदुत्कर्षः ।
यत्पुष्णाति मिलिन्दानरविन्द महत्त्वमेतत्ते ॥ २१८ ॥
रे पद्मिनीपत्र भवच्चरित्रं चित्रं प्रतीमो वयमत्र किंचित् ।
त्वं पङ्कजन्मापि यदच्छभावादपि स्पृशस्यम्बु न पङ्कसङ्गि
॥ २१९ ॥ जनिः सरोङ्गादतिपद्मिनो यद्यलोलुपैर्या मधुपै-
र्विहारः । कलङ्क एवैष कुमुद्वतीना कैलङ्किनः किं तु
कलावतीनाम् ॥ २२० ॥ अपि त्वया कैरविणि व्यधायि
सुधा सुधाबन्धुनि बन्धुभावः । जनापवादः परितः प्रयात-
समागमो हन्त न जातु जात ॥ २२१ ॥ कमलिनि
मलिनीकरोषि चेत किमिति बकैर्वहेलितार्नभिज्ञैः । परि-
णतमकरन्दमार्मिकास्ते जगति भवन्तु चिरायुषो मिलिन्दा
॥ २२२ ॥ रुचिरतिरुचिरा शुचित्वमुच्चैः शिरसि धृत स्वय-
मेव शंकरेण । कमलिनि मलिनीकरोषि कस्मान्मुखमिदमिन्दु-
मुदीक्ष्य लोककान्तम् ॥ २२३ ॥ नलिनी निपुणता वदामि
किं ते भ्रमरविलासिनि लास्यलालसायाः । त्रिभुवननयनो-
त्सवं यदिन्दुं नयसि न हन्त दृगन्तवर्त्मसीमाम् ॥ २२४ ॥
स्वच्छन्दं दलदरविन्द ते मरन्द विन्दन्तो विदधतु
गुञ्जितं मिलिन्दाः । आमोदानथ हेरिरन्तराणि नेतुं
नैवान्यो जगति समीरणात्प्रवीणः ॥ २२५॥ यावत्त्वा न खलु
हसन्ति कैरविण्यो यावत्त्वा तरणिकरैः परामृशन्ति । यावत्ते
मधुविभवो नवोऽस्ति तावन्माध्वीकं वितर सरोज षट्-
पदेभ्यः ॥२२६॥ रे पद्मिनीदल तवात्र मया चरित्रं दृष्ट विचित्र-
मिव यदिदितं ध्रुवं तत् । यैरेव शुद्धमलिलैः परिपालितस्त्वं
तेभ्यः पृथग्भवसि पङ्कभवोऽसि यस्मात् ॥२२७॥ कामं भवन्तु
मधुलम्पटषट्पदोघसद्धट्टघर्घरघनध्वनयोऽब्जखण्डाः । गाय-
न्नपि श्रुतिसुखं विधिरेष यन्त्र भृङ्गः स कोऽपि धरणी-
धरनामधेय ॥ २२८ ॥ विभ्रम्य काननममौ दिवसावसाने
त्वय्येव षट्पदयुवा हृदयं बबन्ध । राजीव चेन्मलिनिमान-
मुररीकरोषि कः स्यादहो मधुलिहामथुनावलम्बः ॥ २२९ ॥
स्वामोदवासितसमग्रदिगन्तराला रक्ता मनोहरशिखा
सुकुमारमूर्तिः । सेव्या सरोजकलिक्रा तु यदैव जाता नीत-
स्तदैव विधिना मधुपोऽन्यदेशम् ॥ २३० ॥ किं बान्धवेन
रविणा हरिणाथ किं वा लक्ष्म्या च किं च जलजोदरजेन
किं वा । एतस्य शुद्धचरितस्य सरोरुहस्य नैषा तुषारजनिता
शमिता विपत्तिः ॥ २३१ ॥ लक्ष्मीनिवास इति वारिरुहा
प्रसिद्धिरन्वेषिताः कतिपया वैरतास्तु सन्ति । राज्ञि प्रसा-
रितकरे किमहुं ददामि संकोचित वदनमम्बुरुहैरितीव
॥ २३२ ॥ लक्ष्मीः स्वयं निवसति त्वयि लोकधात्रि
मित्रेण चापि विहितोऽस्ति दृढोऽनुरागः । बन्दीव गायति
गुणास्तव चञ्चरीकः कः पुण्डरीक तव साम्यमुरीकरोति
॥ २३३ ॥ अयि दलदरविन्द सन्दमानं मरन्दं तव
किमपि लिहन्तो मञ्जु गुञ्जन्तु भृङ्गाः । दिशि दिशि निर-
पेक्षस्तावकीनं विवृण्वन्परिमलमयमन्त्यो बान्धवो गन्धवाहः
॥ २३४ ॥ समुत्पत्तिः स्वच्छे सरसि हरिहस्ते निवसनं
निवासः पद्माया सुरहृदयहारी परिमलः । गुणैरैतैरन्यै-
रपि च ललितस्याम्बुज तव द्विजोत्तंसे हंसे यदि रति-
रतीवोन्नतिरियमू ॥ २३५ ॥ नालस्य प्रसरो जलेष्वपि
कृतावासस्य कोशे रुचिर्दण्डे कर्कशता मुखेऽतिमृदुता
मित्रे महान्संश्रयः । आमूलं गुणसङ्ग्रहव्यसनिता द्वेषश्च
दोषाकरे यस्यैषा स्थितिरम्बुजस्य वसतिर्युक्तैव तत्र श्रियः
॥ २३६ ॥ नीरान्निर्मलतो जनिर्मधुरता वामामुखस्पर्धिनी
वासो यस्य हरेः करे परिमलो गीर्वाणचेतोहरः । सर्वस्वं
तदहो महाकविगिरा कामस्य चाम्भोरुह त्वं चेत्प्रीति-
मुरीकरोषि मधुपै किं त्वां प्रति ब्रूमहे ॥ २३७ ॥ एकस्मि-
न्ननिरावयो समजनि स्वच्छे सरोवारिणि भ्रातः काचिदि-
हैव कानिचिदहान्यत्र व्यतीतानि नौ । लब्ध तामरस
त्वया मृगदृशा लीलावत्तंसास्पदं शैवाल विलुठामि पामर-
वधुपादाहते पाथसि ॥ २३८ ॥ वैमुख्यं मृगलाञ्छनस्य
१ सूर्यानुरक्ताया, पक्षे,-सविता पिता तस्मिन्सक्ताया पितृगामिन्या इत्यभिप्राय २ पुष्पयुक्ताम्, पक्षे,-रजस्वलाम् ३ श्वेत, पक्षे,-पवित्र ४ राजहंस, पक्षे,-परमहंस ५ चन्द्रस्य ६ कलुषीकरोषि ७ अवहेला नीता, तिरस्कृतेति यावत् ८ अपण्डितै ९ मग्नशा १० अमरा ११ दिगन्तराणि १२ वायो १३ सूर्यकिरणा
१ कर्दमोत्पन्न २ ब्रह्मणा ३ हंस, पक्षे,-कपर्दका ४ लक्ष्म्या ५ पक्षिश्रेष्ठे ६ दोषाणामाकरे, पक्षे,-चन्द्रे ७ देवमनोहारी ८ अङ्गीकरोषि