सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 237, कुल 516 में से
संदर्भ में पढ़ें२२२ सुभाषितरत्नभाण्डागारम् [ ५ प्रकरणम्
लसन्न ... या प्रीणाति नेत्राणि यः । तस्याप्यप्रतिमम्बुदस
महतॊ... त्वमेतावता वर्णेनैव परं मगल धवल कृष्ण-
श्रॆश्चैरभि ॥ ३१ ॥ आकारः कमनीयता कुलगृहं लीला
ल... सा गति संपर्कः कमलालये कलतया लोकोत्तरं
कूजितम् । सर्वं गुणस्पदमस्ति महती तस्यातिमध्यस्य ते
सर्वद्रवत्वमसह्यमङ्गकलहे नाहं सहे हंस हे ॥ ३२ ॥ नद्यो
... विगता दुग्धपयसः कूपाः पयोराशय क्षारा दुष्टवकोट-
सङ्कटनटोदेशास्तडागादयः । इत्थं भूतल आकर्लय्य मक-
लाह्नन्म्योनिवेशानिति त्वा भो मानस सङ्गमपुन्नरसो हंसं.
समभ्यागत. ॥ ३३ ॥ हंसी वेत्ति परागपिञ्जरतनुः कुत्रापि
पद्मावरे प्रेयान्मे विसकन्दलीकिसलयं भुङ्क्ते ह्ययं निर्वृतः ।
नो जानति तपस्विनी यदनिशं जम्बालमालोडयञ्शैवाला-
ङ्कुर...यसों न हन्ते हंसो विशीर्णच्छदः ॥ ३४ ॥
म्लाना नलिनी जलानि किरणैः सूर्यस्य शोषं ययुर्नाशं प्राप
विहंगमावलिरियं तृष्णाविशीर्णेक्षणा । एते तीरुमहीरुहा
अपि पतत्यश्रुश्चिरोऽद्यापि रे कोऽय राजमराल शुष्कसरसी-
तीरे रतिप्रक्रम ॥ ३५ ॥ एषा पुष्करिणी म्रराल मलिनै
श्छन्ना कुवीथीजलैर्य्यामञ्जतया विवेरकृपया चेद्द्रस्तुमाका-
ङ्क्षसे । विश्रम्भो वकमण्डलेषु विनयो भेकेषु सबन्धिता
रात्र्यन्वेषु विधीयता कृपणता कोयष्टिकश्रेणिषु ॥ ३६ ॥
पीत येन पुरा पुरंदरपुरे रम्भीरुकेलिखलन्मन्दारद्रुमकर्ण-
पूरसुरभि स्वर्गापगाया पयः । सोऽय मारववारि पामरवधू-
पादार्पणप्रोच्छलत्पङ्काङ्कितभेकभिन्नमघृणो हंसः समाशंसते
॥ ३७ ॥ काके काष्ण्येमलौकिक धवलिमा हंसे निसर्ग-
स्थितौ गाम्भीर्ये महदन्तर वचसि यो भेदः स किं कथ्यते ।
एतावत्सु विशेषणेष्वपि सखे यन्नेदमालोक्यते के काकाः
खलु के च हंसशिशवो देशाय तस्मै नमः ॥ ३८ ॥ क्रुङ्खो-
लूकनखप्रपातविगलत्पक्षा अपि श्वाश्रय ये नोञ्झन्ति पुरीष-
पुष्टवपुषस्ते केचिदन्ये द्विजाः । ये तु स्वर्गतरङ्गिणीबिसलता-
लेशेन संवर्धिता गाङ्गं नीरमपि त्यजन्ति कलुषं ते राजहंसा
वयम् ॥ ३९ ॥ भो हंसास्तावदम्भोरुहकुहररजोरञ्जिताङ्गाः
सहेलं हंसीभिः पद्मखण्डे मधुरमधुकरारावरम्ये रमध्वम् ।
यावन्नाय दुरन्तो हरगलगरलव्यालयजालालिनीलोन्मील-
न्मेघमालामलिनसकलदिङ्मण्डलोऽभ्येति कालः ॥ ४० ॥
मधुकरः
सैरजस्का पाण्डुवर्णा कण्टकप्रैंकराङ्किताम् । केतकीं
सेवसे हन्त कथं रोलैम्ब निर्ह्वप ॥ ४१ ॥ फलाना च
दलाना च सन्तु ते ते विवेकिनः । मकरन्दविशेषज्ञो
मिलिन्दमपहाय कः ॥ ४२ ॥ पलाशकुसुमभ्रान्त्या शुकतुण्डे
पतत्यैलि । सोऽपि जम्बूफलभ्रान्त्या तमलिं धर्तुमिच्छति
॥ ४३ ॥ कचित्कचिदियं यातु स्थातुं प्रेमवशंवदः । न
विस्मरति तत्रापि गजीवं भ्रमरो हृदि ॥ ४४ ॥ भ्रम भ्रमर
यूथीषु मालतीषु चिरं मिल । मा पुन पङ्कजारण्यस्नेह-
शून्य मन कृथा ॥ ४५ ॥ मधुपे मालतीपुष्प सतृष्णं
यातुमुद्यते । हन्त दैवादुपागम्योपात्तमारण्यकेन तत् ॥ ४६ ॥
मधुकर तव करनिकरैः कि कि क्रान्तं वनं न कुसुमानाम् ।
तद्वद् सरसिजकमले लब्धं किंचिद्यदन्यतस्तत्किम् ॥ ४७ ॥
गौरी चम्पककलिकामपहाय भ्रान्तदुर्बुद्धे । शाल्मलिकुसुम-
दलेषु स्वैर गुञ्जन् लज्जसे मधुप ॥ ४८ ॥ मैदनमवलोक्य
निष्फलमनित्यता बन्धुजीवकुसुमानाम् । वनमुपगम्य भ्रमरः
सप्रति जातो जपासक्त ॥ ४९ ॥ अपसर मधुकर दूरं परि-
मलबहुलेऽपि केतकीकुसुमे । इह न हि मधुलवलाभो
भवति पर धूलिधूमर वदनम् ॥ ५० ॥ कृत्वापि कोशपानं
भ्रमरयुवा पुरत एव कमलिन्याः । अभिलषति बकुल-
कलिका मधुलिहि मलिने कुतः सत्यम् ॥ ५१ ॥ येनामन्द-
मरन्दे दलदरविन्दे दिनान्यनायिषत । कुटजे खलु तेनेहे
तेने हा मधुकुरेण कथम् ॥ ५२ ॥ अमरतरुकुसुमसारैर्मे-
सेवनसम्पूर्णकामस्य । पुष्पान्तरसेवेयं भ्रमरस्य विडम्बना
महती ॥ ५३ ॥ इह रूपमात्रसारे चित्रगते कनककह्लारे ।
न रसो नापि च गन्धो मधुकर बन्धो मुधा भ्रमसि ॥५४॥
अपनीतपरिमलान्तरकत्थे पद न्यस्य देवरुकुसुमे । पुष्पा-
न्तरेऽपि गन्तु वाञ्छसि चेद्भ्रमर धन्योऽसि ॥ ५५ ॥ मलि-
नेऽपि रागपूर्णा विकसितवदनाममल्पजल्पेऽपि । त्वयि
चपलेऽपि च सरसा भ्रमर कथ वा सरोजिनीं त्यजसि
॥ ५६ ॥ नन्दनजन्मा मधुपः सुरतरुकुसुमेषु पीतमकरन्द ।
दैवादवनिमुपेतः कुटजे कुटजे समीहते वृत्तिम् ॥ ५७ ॥
दूरतया स्थूलतया नीलतया दानलोलुपैर्मधुपैः । भ्रमित-
मिभराजधिया हन्ताभूद्दन्ततो महिषः ॥ ५८ ॥ नष्टे वारिज-
विपिने कष्टे नष्टेऽथ मालतीनिकरे । तत्कि जीवति लोके
मूलकमकरन्दविन्दुना यदलिः ॥ ५९ ॥ पवनापनीतसौरभ-
दूरोदकपूरपद्मिनीलुब्धः । अपरिक्षतस्वपक्षो गन्ता हन्ता-
पदं मधुपः ॥ ६० ॥ कति कति न लताः कलिताः सच-
रता चञ्चरीकरसिकेन । नलिनी भवन्मधु मधुर यत्पीत
त्तत्तदेव परिपीतम् ॥ ६१ ॥ मधुकर मा कुरु शोकं विचर
करीरद्रुमस्य कुसुमेषु । घनतुहिनपातदलिता कथं नु सा
मालती मिलती ॥ ६२ ॥ यस्तोषं न गतः कमलेषु मली-
१ पीतवर्णम् २ मदनबाणाख्य पुष्पम् ३ जपापुष्पे सक्त , पक्षे,-जपे जपन आसक्त ४ दूर गच्छ ५ प्रचुरपुष्परसे ६ विकसितकमले ७ नीतानि ८ इच्छा ९ विस्तारिता कृतेति यावत् १० कल्पवृक्ष ११ सौगन्ध्यम्