सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 231, कुल 516 में से
संदर्भ में पढ़ें२१६ सुभाषितरत्नभाण्डागारम् [ ५ प्रकरणम्
परमीतभूधररक्षया दीक्षितो जलधिः ॥ ७ ॥ कि खलु
रत्नैरेतैः कि पुनरप्यायितेन वपुषा ते । सलिलमपि यन्न तावक-
मर्णव वदनं प्रयाति तृषितानाम् ॥ ८ ॥ मा कुरु गुरुता-
गर्व लघुरन्यो नास्ति सागर त्वत्तः । जलसंग्रहमन्य-
स्मात्त्वयि सति कुर्वन्ति पोतंथा ॥ ९ ॥ किमधिकमस्य
ब्रूमो महिमानं वाग्विधेरहरिर्यत्र । अज्ञात एव शेते कुक्षौ
निक्षिप्य भुवनानि ॥ १० ॥ लघुरयमाह न लोकः कामं
गर्जन्तमपि पतिं पयसाम् । सर्वमलञ्जाकरमिह यत्कुर्वन्तीह
परिपूणां ॥ ११ ॥ तृषा धराया शमयत्यशेषा यः
सोऽम्बुदो गर्जति गर्जतूच्चै । यस्त्वेषा कस्यापि न हन्ति
तृष्णा स किं वृथा गर्जति निष्कृपोऽब्धिः ॥ १२ ॥
त्वमद्य सिन्धो जगदेकबन्धो रत्नानि दातुं विमुखोऽसि
कस्मात् । कि वा सुतः कल्पमहीरुहस्ते दानं कृतार्थी-
कुरुते जगन्ति ॥ १३ ॥ अयि रोषमुरीकरोषि नो
चेत्किमपि त्वा प्रति वारिधे वदामः । जलदेन तवार्थिना
विमुक्तान्यपि तोयानि महान्न हा जहासि ॥ १४ ॥
तोयानामधिपतिराकरो मणीना शैलानामभयपदं महान्महद्ध्य ।
अग्राह्यो भवसि यदि त्वमेव तावत्को नु स्याज्जगति तदा
जनावलम्ब ॥ १५ ॥ स्वस्त्यस्तु विद्रुमवनाय नमो मणिभ्यः
कल्याणिनी भवतु मौक्तिकशुक्तिमाला । प्राप्तं मया
सकलमेव फलं पयोघे यद्दारुणैर्जलचरैर्न विदारितोऽस्मि
॥ १६ ॥ आदाय वारि परितः सरिता मुखेभ्य कि
तावदर्जितमनेन दुरर्णवेन । क्षारीकृतं च वडवादहने हुत च
पातालकुक्षिकुहरे विनिवेशितं च ॥ १७ ॥ निःपीतपीन-
तिमिराणि मनोहराणि रत्नानि सन्ति न कियन्ति तवा-
न्तिकेषु । एतस्य कौस्तुभमणेर्व्रजतः परतु पाथोनिधे
स्मरणमान्तरमावहेथाः ॥ १८ ॥ कल्लोलवेल्लितदृषत्सुप्रप्रहारै
रत्नान्यमूनि मकरालय माऽवमंस्थाः । किं कौस्तुभेन विहितो
भवतो न नाम याच्ञाप्रसारितकरः पुरुषोत्तमोऽपि ॥ १९ ॥
लज्जामहे वयमहो वचनेऽपि हन्त सार्थ्यात्रिका सलिल-
राशिममी विशन्ति । असाधिरोपिततदीयतटोपकण्ठ-
कौपेयकाम्बुदतयो यदुदीर्णतृष्णाः ॥ २० ॥ चपलतरतरंगै-
दूरमुत्सारितोऽपि प्रथयति तव कीर्तिं दक्षिणावर्तशङ्खः ।
परिगणय पयोधे पद्मनाभार्ध्ययोग्यस्तव निकटनिषण्ण
शूँल्लकैः श्लाघ्यता का ॥ २१ ॥ यद्वीचीभिः स्पृशसि
गगनं यच्च पातालमूल रत्नैरुद्दीपयसि पयसा यत्पिधत्से धरि-
त्रीम् । धिक् सर्वं तत्तव जलनिधे यद्विमुच्याश्वधारास्तीरे
नीरग्रहणरसिकैरुध्वंगैरूज्झितोऽसि ॥ २२ ॥ अयं वारामेको
निलय इति रत्नाकर इति श्रितोऽस्माभिस्तृष्णातरलितमनो-
भिर्जलनिधिः । क एवं जानीते निजकरपुटीकोटरगतं
क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनि ॥ २३ ॥ अये
वारांगश कुलिशकरकोपप्रतिभयादयं पक्षप्रेम्णा गिरिवर-
सुतस्त्वामुपगतः । त्वदन्तर्वास्तव्यो यदि पुनरय वाडवशिखी
प्रदीप्त प्रत्यङ्गं ग्लपयति ततः कोऽस्य शरणम् ॥ २४ ॥
इत. स्वपिति केशव कुलमितस्तदीयद्विषामितश्च शरणार्थिनः
शिखरिपत्रिण शेरते। इतोऽपि वडवानलः सह सँमस्त-
संवर्तकैरहो विततमूर्जितं भरसह च सिन्धोर्वपुः
॥ २५ ॥ ग्रावाणो मणयो हरिजंलचरो लक्ष्मीः पयोमानुषी
मुक्तांघाः सिकताः प्रवाललतिकाः शैवालमम्भ सुधा । तीरे
कल्पमहीरुहाः किमपर नाम्नापि रत्नाकरो दूरे कर्णमरायनं
निकटतस्तृष्णापि नो शाम्यति ॥ २६ ॥ एतस्मादमृत
सुरैः शतमुखेनोच्चैःश्रवाः सङ्गुणः कृष्णेनाद्भुतविभ्रमैक-
वसतीर्लक्ष्मीः समासादिता । इत्यादि प्रचुग पुरातनकथाः
सर्वम्य एव श्रुता अस्माभिर्न च दृष्टमत्र जलधौ मृष्ट
पयोऽपि क्वचित् ॥ २७ ॥ सख्येया न भवन्ति ते युगशतै-
र्गाम्भीर्यमुख्या गुणाः सत्य वारिनिधे तथापि तदिद चिन्ते
विधत्ते व्यथाम् । स्वच्छन्देन तिमिगिलान्द्विजकुलग्रास सुहृ-
कुर्वतो यत्ते वारयितु निजेऽपि विषये न स्वामिता विद्यते
॥ २८ ॥ कल्लोलै स्थगयन्मुखानि ककुभामन्नलिहेरम्भसा
क्षारेणापि दिवानिशं जलनिधे गर्जन्न विश्राम्यसि । एतत्ते यदि
घोरनक्रनिलय स्वादु व्यधास्यद्विधि कि कर्तासि तदा न वेद्मि
तरलै. खैरव दुश्चेष्टितैः ॥ २९ ॥ धामारोहति वाञ्छति स्थग-
यितु तेजोऽपि तेजस्विनामुच्चैर्गर्जति पूरयन्नपि महीमम्भोभिर-
म्भोधरः । काश्चिद्रागुपजीव्य तोयचुलुकान्सिन्धौ भवत्सन्निधौ
पानीयप्रचयेषु सत्स्वपि न ते जातो विकारः क्वचित् ॥ ३०॥
किं वाच्यो महिमा तवात्र जलधे यस्येन्द्रवज्राहतित्रस्तक्ष्माभृ-
दमजदम्वुनिचये मज्जत्कलङ्कीकृतिः । मैनाकोऽपि गभीरनीर-
विलसत्पाठीनपृष्ठोल्लसच्छैवालाङ्कुरकोटिकोटरकुटीकुड्यान्तरे
निर्वृतः ॥ ३१ ॥ आस्ता तावदहो समुद्रमहिमा दूरेऽपि
कर्णप्रियत्सीर यस्य पिपासयैव मरणं प्राप्नोति शीघ्रं जन ।
तस्मादम्बुनिधेर्वरं लँघुरसरः कूपोऽथवा वापिका यत्र स्वीय-
करद्वयेन सलिलं पेपीयते स्वेच्छया ॥ ३२ ॥ देवैर्द्यद्यपि
तक्रवद्विमथित. केदारवद्वानरैर्बद्धः सिद्धवदञ्जनाविजुनुषा
१ नौकास्थिताः, नाविका इत्यथ २ नौकया व्यापार कुर्वाणा ३ दक्षिणभागे आवर्तो यस्यैतादृश शङ्ख ४ जानीहि ५ विष्णुपूजायोग्य ६ क्षुद्रशङ्खै
१ जलानाम् २ स्थानम् ३ पिपासा, पक्षे, -अर्थाभिलाष ४ अगस्त्य ५ शिखरिण पर्वतास्त एव पत्रिण पक्षिण ६ सवर्तकसंज्ञकैर्मेधै ७ ह्रस्वजलाशय