सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 22, कुल 516 में से
संदर्भ में पढ़ेंशिवः ७
धाराय धाराधरच्छायाधारकन्धराय गिरिजासङ्गैकभृङ्गा-
रिणे । नद्या शेखरिणे दृशा तिलकिने नारायणेनाश्विने
नागैः कङ्कणिने नगेन गृहिणे नाथाय नित्यं नतिः ॥ ८१ ॥
केयूरीकृतकङ्कणीकृतजटाजूटावतंसीकृतज्यावल्लीकृतकुण्डली-
कृतकटीसूत्रीकृताहीश्वरः । पायाद्वस्त्रिलकीकृतप्रियतमाद्-
र्शीकृताक्षीकृतचूतारम्भपणीकृतेन्दुशकलः कात्यायनीकामुकः
॥ ८२ ॥
कान्ता कामपि कामयत्यनुदिनं ध्यानापदेशादयं
येनामु मुनयोऽप्यनादिनिधन ध्यायन्ति धौतस्पृहाः ।
इत्यङ्कात्स्वकरे हृते गिरिजया पादे च पद्मासनाद्विश्वं पातु
पुरारिभद्रवपुषः शम्भोः समाधिव्ययः ॥ ८३ ॥
स्नात. स्वर्गतरङ्गिणीजलभरैर्नेत्रोत्पलेनाञ्चितः पार्वत्याः सितभूति-
चन्दनचयैरालिप्तगात्रोज्ज्वलः । देवश्चन्द्रकलासितश्रुतिलको
गौरीविवाहोत्सवारम्भे शैलकृतार्हणस्त्रिजगतामर्च्यो हरः
पातु वः ॥ ८४ ॥
उत्सृष्ट्वा दिशमम्बर वरतर वासो
वसानश्चिर हित्वा वासरस पुनः पितृवने कैलासहम्यश्रिय ।
त्यक्त्वा भस्म कृताङ्गरागनिश्चयः श्रीखण्डसारद्रवैर्देव
पातु हिमाद्रिजापरिणय कृत्वा गृहस्थः शिवः ॥ ८५ ॥
क्रीडन्मन्दरकन्दरोदरज्वलन्मन्दारवृन्दावने क्रोधान्थान्ध-
कटातटासुहरणे जृम्भत्त्रिशूलोद्गमः । त्रैलोक्याखिलसकटो-
त्कटभयोद्वेलान्धकाराशुमान् पायाद्वस्त्रिपुरप्रमाथनपटुर्देवो हि
पञ्चाननः ॥ ८६ ॥
गर्जद्भीमभुजङ्गभीषणफणाफूत्कारभी-
तिप्रदः क्रीडत्प्रेतपिशाचराक्षसगणः प्रत्यक्षतः प्रान्ततः ।
भालस्थलप्रयानलोद्धटशिखः सक्रान्तसर्वास्पद. शार्दूलाजिन-
भृद्भयानकभयो भूयाद्भवो भूतये ॥ ८७ ॥
गौरीचुम्बनच-
ञ्चल परिचलद्गण्डप्रभामण्डल व्यावलग्गफणिकुण्डल रतिरस-
प्रखिन्नगण्डस्थलम् । प्रौढप्रेमपरम्परापरिचयप्रोत्फुल्लनेत्राञ्चल
शंभोरस्तु विभूतये हि भवतामुन्मत्तगङ्गं शिरः ॥ ८८ ॥
पाणौ कङ्कणमुत्फण फणिपतिर्नेत्रं लसत्यावकं कण्ठः कुण्ठित-
कालकूटविषमो वस्त्र गजेन्द्राजिनम् । गौरीलोचनलो-
भनाय सुभगो वेषो वरस्यास्ति मे गण्डोल्लासविभावितः
पशुपतेर्हासोद्रमः पातु वः ॥ ८९ ॥
दिव्यं वारि कथं यतः
सुरधुनी मौलौ कथ पावको दिव्य तद्धि विलोचनं कथम-
हिर्दिव्यं स चाङ्गे तव । तस्माद्यूतविधौ त्वयाद्य मुषितो
हारः परित्यज्यतामित्थं शैलभुवा विहस्य लपितः शम्भु.
शिवायास्तु वः ॥ ९० ॥
श्रीकण्ठस्य सकृत्तिकात॑भरणी
मूर्तिः सदारोहिणी ज्येष्ठा भद्रपदा पुनर्वसुयुता चित्रा वि-
शाखान्विता । दिश्यादक्षतहस्तमूलघटिताषाढा मघालं-
कृता श्रेयो वैश्रवणान्विता भगवतो नक्षत्रपालीव वः
॥ ९१ ॥
त्राता भीतिभृतां पतिश्श्रिदचिता क्लेश सतां शं-
सता हन्ता भक्तिमता सतां स्वसमता कर्तापकर्ताऽसताम् ।
देवः सेवकभुक्तिमुक्तिरचनाभूर्भूभुवःस्वस्त्रयीनिर्माणस्थिति-
संहृतिप्रकटितक्रीडो मृड. पातु वः ॥ ९२ ॥
एषा ते हर
का सुगात्रि कतमा मूर्ध्नि स्थिता कि जटा हसः कि भजते
जटां नहि शशी चन्द्रो जल सेवते । मुग्धे भूरिरिय कु-
तोऽत्र सलिल भूतिस्तरंगायते यश्चैव विनिगृह्ते त्रिपथगां
पायात्स व. शकर ॥ ९३ ॥
मातर्जीव किमेतदङ्गुलिपुटे
तातेन गोपाय्यते वत्स स्वादु फलं प्रयच्छति न मे गत्वा
गृहाण स्वयम् । मात्रैव प्रहिते गुहे विघटयत्याकृष्य स-
ध्याञ्जलि शभोर्विन्नममाधिरुद्धरभसो हासोद्गम पातु वः
॥ ९४ ॥
सध्या यद्यनिपत्य लोकपुरतो बद्धाञ्जलिर्याचसे
धत्से यच्च नदीं विलज्ज शिरसा तन्नाम सोढं मया । श्रीर्या
तामृतमन्थने यदि हरि कस्माद्विषं भक्षित मा स्त्रीलंपट
मा स्पृशेति गदितो गौर्या हरः पातु वः ॥ ९५ ॥
तावत्सप्त-
समुद्रमुद्रितमही भूभृद्विरञ्चत्रपैलैस्तावाद्भिः परिवारिता
पृथुतरैद्वीपैः समन्तादियम् । यस्य स्फारफणामणौ निल-
यिनी तिर्यक्फणालकृतिः शेषः सोऽप्यगमद्वडङ्गदपदं रुद्राय
तस्मै नमः ॥ ९६ ॥
चिन्ताचक्रिणि हन्त चक्रिणि भिया
कुब्जासनेऽब्जासने नश्यद्धामनि तिग्मधामनि धृताशङ्के
शशाङ्के भृगम् । अभ्यञ्चेतसि च प्रचेतसि शुचा तान्ते
कृतान्ते च यो व्यग्रोऽभूत्कदुकालकूटकवलीकाराय पा-
यात्स वः ॥ ९७ ॥
तात त्ताततात कथय हरकुलेऽलंकृते
सप्रदाने तच्छ्रुत्वा चन्द्रमौलिनर्तमुखकमलो जातलज्जो ब-
भूव । ब्रह्मावादीत्तदानी शृणुत हरकुल वेदकण्ठोय्रकण्ठो
श्रीकण्ठान्नीलकण्ठः प्रहसितवदनः पातु वश्चन्द्रचूडः ॥९८॥
या¹ सृष्टिः स्रष्टुराद्या वहति विधिहुतं² या हविर्या च होत्री³ ये द्वे⁴
काल विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् । याँ⁵-
माहुः सर्वबीजप्रकृतिरिति यँ⁶या प्राणिनः प्राणवन्तः प्रत्यक्षोभिः⁷
प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीश. ॥ ९९ ॥
एकैश्वर्यस्थि-
तोऽपि प्रणतबहुफलो यः स्वय कृत्तिवासाः कान्तासंस्रिश्र-
देहोऽप्यविषयमनसा यः पुरस्ताद्यतीनाम् । अष्टाभिर्यस्य कृत्स्नं
जगदपि तनुभिर्विभ्रतो नाभिमानः सन्मार्गालोकनाय व्यपन-
यतु म नस्तामसी वृत्तिमीशः ॥ १०० ॥
कैलामाद्रावुर्दस्ते⁸
परिचलति गणेशूल्लसत्कौतुकेषु क्रोड⁹ मातुः कुमारे विशति
विष॑¹⁰र्मुचि प्रेक्षमाणे सरोषम् । पादावष्टम्भसीदद्वपुषि दशमुखे
१ पद्यविशेष
१ उदकरूपा २ अग्निरूपा ३ यजमानरूपा. ४ सूर्यचन्द्ररूपे ५ आकाशरूपा ६ पृथ्वोरूपा ७ वायुरूपा ८ उच्छिष्टे ९ भुजान्तरे. १० मर्षे